बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा बृहन्पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽहरहर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३ ॥
संवादेन आदित्यब्रह्मणि प्रत्याख्यातेऽजातशत्रुणा चन्द्रमसि ब्रह्मान्तरं प्रतिपेदे गार्ग्यः । य एवासौ चन्द्रे मनसि च एकः पुरुषो भोक्ता कर्ता चेति पूर्ववद्विशेषणम् । बृहन् महान् पाण्डरं शुक्लं वासो यस्य सोऽयं पाण्डरवासाः, अप्शरीरत्वात् चन्द्राभिमानिनः प्राणस्य, सोमो राजा चन्द्रः, यश्चान्नभूतोऽभिषूयते लतात्मको यज्ञे, तमेकीकृत्य एतमेवाहं ब्रह्मोपासे ; यथोक्तगुणं य उपास्ते तस्य अहरहः सुतः सोमोऽभिषुतो भवति यज्ञे, प्रसुतः प्रकृष्टं सुतरां सुतो भवति विकारे — उभयविधयज्ञानुष्ठानसामर्थ्यं भवतीत्यर्थः ; अन्नं च अस्य न क्षीयते अन्नात्मकोपासकस्य ॥

य एकः पुरुषस्तमेवाहं ब्रह्मोपासे त्वं चेत्थमुपास्स्वेत्युक्ते, मा मेत्यादिना प्रत्युवाचेत्याह —

इति पूर्ववदिति ।

भानुमण्डलतो द्विगुणं चन्द्रमण्डलमिति प्रसिद्धिमाश्रित्याऽऽह —

महानिति ।

कथं पाण्डरं वासश्चन्द्राभिमानिनः प्राणस्य संभवतीत्याशङ्क्याऽऽह —

अप्शरीरत्वादिति ।

पुरुषो हि शरीरेण वाससेव वेष्टितो भवति पाण्डरत्वं चापां प्रसिद्धमापो वासः प्राणस्येति च श्रुतिरतो युक्तं प्राणस्य पाण्डरवासस्त्वमित्यर्थः ।

न केवलं सोमशब्देन चन्द्रमा गृह्यते किन्तु लताऽऽपि समाननामधर्मत्वादित्याह —

यश्चेति ।

तं चन्द्रमसं लतात्मकं बुद्धिनिष्ठं पुरुषमेकीकृत्याहङ्ग्रहेणोपास्तिरित्यर्थः ।

संप्रत्युपास्तिफलमाह —

यथोक्तेति ।

यज्ञशब्देन प्रकृतिरुक्ता । विकारशब्देन विकृतयो गृह्यन्ते । यथोक्तोपासकस्य प्रकृतिविकृत्यनुष्ठानसामर्थ्यं लीलया लभ्यमित्यर्थः ।

अन्नाक्षयस्योपासनानुसारित्वादुपपन्नत्वमभिप्रेत्योपासकं विशिनष्टि —

अन्नात्मकेति ॥३॥