बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा विषासहिरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिर्हास्य प्रजा भवति ॥ ७ ॥
अग्नौ वाचि हृदि च एका देवता ; तस्या विशेषणम् — विषासहिः मर्षयिता परेषाम् अग्निबाहुल्यात् फलबाहुल्यं पूर्ववत् ॥

यद्धविर्विष्यते क्षिप्यते तत्सर्वं भस्मीकरणेन सहते तेनाग्निर्विषासहिः । यथा पूर्वं विद्युतां बाहुल्यादात्मनि प्रजायां च फलबाहुल्यमुक्तं तथाऽत्राप्यग्नीनां बहुलत्वादुपासकस्याऽऽत्मनि प्रजायां च दीप्ताग्नित्वं सिद्ध्यतीत्याह —

अग्नीति ॥७॥