बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते ॥ ८ ॥
अप्सु रेतसि हृदि च एका देवता ; तस्या विशेषणम् — प्रतिरूपः अनुरूपः श्रुतिस्मृत्यप्रतिकूल इत्यर्थः ; फलम् — प्रतिरूपं श्रुतिस्मृतिशासनानुरूपमेव एनमुपगच्छति प्राप्नोति न विपरीतम् , अन्यच्च — अस्मात् तथाविध एवोपजायते ॥

प्रतिरूपत्वं प्रतिकूलत्वमित्येद्व्यावर्तयति —

अनुरूप इति ।

अन्यच्च फलमिति संबन्धः । अस्मादुपासितुरित्यर्थः । तथाविधः श्रुतिस्मृत्यनुकूल इति यावत् ॥८॥