बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा रोचिष्णुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति सर्वां स्तानतिरोचते ॥ ९ ॥
आदर्शे प्रसादस्वभावे चान्यत्र खड्गादौ, हार्दे च सत्त्वशुद्धिस्वाभाव्ये च एका देवता ; तस्या विशेषणम् — रोचिष्णुः दीप्तिस्वभावः ; फलं च तदेव, रोचनाधारबाहुल्यात्फलबाहुल्यम् ॥

हार्दे चेत्येतदेव स्पष्टयति —

तत्त्वेति ।

सर्वत्रैकेति विशेषणस्य देवतेति विशेष्यतया संबध्यते । तदेव रोचिष्णुरित्यर्थः ॥९॥