बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा मृत्युरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ १२ ॥
छायायां बाह्ये तमसि अध्यात्मं च आवरणात्मकेऽज्ञाने हृदि च एका देवता, तस्या विशेषणम् — मृत्युः ; फलं सर्वं पूर्ववत् , मृत्योरनागमनेन रोगादिपीडाभावो विशेषः ॥

शब्दब्रह्मोपसकस्येव तमोब्रह्मोपासकस्यापि फलमित्याह —

फलमिति ।

फलभेदाभावे कथमुपासनभेदः स्यादित्याशङ्क्याऽऽह —

मृत्योरिति ॥१२॥