बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति स ह तूष्णीमास गार्ग्यः ॥ १३ ॥
आत्मनि प्रजापतौ बुद्धौ च हृदि च एका देवता ; तस्याः आत्मन्वी आत्मवानिति विशेषणम् ; फलम् — आत्मन्वी ह भवति आत्मवान्भवति, आत्मन्विनी हास्य प्रजा भवति, बुद्धिबहुलत्वात् प्रजायां सम्पादनमिति विशेषः । स्वयं परिज्ञातत्वेन एवं क्रमेण प्रत्याख्यातेषु ब्रह्मसु स गार्ग्यः क्षीणब्रह्मविज्ञानः अप्रतिभासमानोत्तरः तूष्णीमवाक्शिरा आस ॥

व्यस्तानि ब्रह्माण्युपन्यस्य समस्तं ब्रह्मोपदिशति —

प्रजापताविति ।

आत्मवत्त्वं वश्यात्मकत्वम् ।

फलस्याऽऽत्मगामित्वान्न प्रजायां तदभिधानमुचितमित्याशङ्क्याऽऽह —

बुद्धीति ॥१३॥