“अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ॥” इत्यादीन्याचारविधिशास्त्राणि । आदित्यादिब्रह्मभ्यो विशेषमाह —
यस्मिन्निति ।
प्राणस्य व्याप्रियमाणस्यैव संबोधनार्थं प्रयुक्तानामाश्रवणादापेषणाच्चोत्थानात्तस्याभोक्तृत्वं सिध्यतीति फलितमाह —
तस्मादिति ।