विचारार्था प्लुतिरिति कथयति —
किमेतावदिति ।
वाक्यार्थं चोद्यसमाधिभ्यां स्फुटयति —
किमित्यादिना ।
आदित्यादेरविदितत्वनिषेधं प्रतिज्ञाय हेतुमाह —
न फलवदिति ।
नैतानि वाक्यानि फलवद्विज्ञानपराण्यर्थवादत्वादित्याशङ्क्याऽऽह —
न चेति ।
फलवत्त्वाच्चापूर्वविधिपराण्येतानि वाक्यानीत्याह —
तदनुरूपाणीति ।
अर्थवादत्वेऽपि तेषामपूर्वार्थत्वं किं न स्यादित्याशङ्क्याऽऽह —
अर्थवादत्व इति ।
वाक्यानां फलवद्विज्ञानपरत्वमुपेत्य निषेधवाक्यस्य गतिं पृच्छति —
कथं तर्हीति ।
तस्याऽऽनर्थक्यं परिहरति —
नैष दोष इति ।
अधिकृतापेक्षत्वाद्वेदनप्रतिषेधस्येत्युक्तं स्फुटयति —
ब्रह्मेति ।
नैतावतेत्यविशेषेणामुख्यब्रह्मज्ञानमपि निषिद्धमिति चेन्नेत्याह —
यदीति ।
किञ्च निष्कामेन चेदेतान्युपासनान्यनुष्ठीयन्ते तदैतेषां ब्रह्मज्ञानार्थत्वादमुख्यब्रह्मज्ञाननिषेधमन्तरेण न निषेधोपपत्तिरित्याह —
एतावद्विज्ञानेति ।
आदित्यादिकमेव मुख्यं ब्रह्मेति निषेधानर्थक्यं तदवस्थमित्याशङ्क्याऽऽह —
अविद्येति ।
आदित्यादेर्मुख्यब्रह्मत्वासंभवान्निषेधस्योपपन्नत्वात्तत्सामर्थ्यसिद्धमर्थमुपन्यस्यति —
तस्मादिति ।
उपगमनवाक्यमुत्थाप्य व्याचष्टे —
तच्चेति ॥१४॥