बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति व्येव त्वा ज्ञपयिष्यामीति तं पाणावादायोत्तस्थौ तौ ह पुरुषं सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहन्पाण्डरवासः सोम राजन्निति स नोत्तस्थौ तं पाणिनापेषं बोधयाञ्चकार स होत्तस्थौ ॥ १५ ॥
स होवाच अजातशत्रुः — प्रतिलोमं विपरीतं चैतत् ; किं तत् ? यद्ब्राह्मणः उत्तमवर्णः आचार्यत्वेऽधिकृतः सन् क्षत्रियमनाचार्यस्वभावम् उपेयात् उपगच्छेत् शिष्यवृत्त्या — ब्रह्म मे वक्ष्यतीति ; एतदाचारविधिशास्त्रेषु निषिद्धम् ; तस्मात् तिष्ठ त्वम् आचार्य एव सन् ; विज्ञपयिष्याम्येव त्वामहम् — यस्मिन्विदिते ब्रह्म विदितं भवति, यत्तन्मुख्यं ब्रह्म वेद्यम् । तं गार्ग्यं सलज्जमालक्ष्य विस्रम्भजननाय पाणौ हस्ते आदाय गृहीत्वा उत्तस्थौ उत्थितवान् । तौ ह गार्ग्याजातशत्रू पुरुषं सुप्तं राजगृहप्रदेशे क्वचित् आजग्मतुः आगतौ । तं च पुरुषं सुप्तं प्राप्य एतैर्नामभिः — बृहन् पाण्डरवासः सोम राजन्नित्येतैः — आमन्त्रयाञ्चक्रे । एवमामन्त्र्यमाणोऽपि स सुप्तः नोत्तस्थौ । तम् अप्रतिबुद्ध्यमानं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार प्रतिबोधितवान् । तेन स होत्तस्थौ । तस्माद्यो गार्ग्येणाभिप्रेतः, नासावस्मिञ्छरीरे कर्ता भोक्ता ब्रह्मेति ॥

“अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ॥” इत्यादीन्याचारविधिशास्त्राणि । आदित्यादिब्रह्मभ्यो विशेषमाह —

यस्मिन्निति ।

प्राणस्य व्याप्रियमाणस्यैव संबोधनार्थं प्रयुक्तानामाश्रवणादापेषणाच्चोत्थानात्तस्याभोक्तृत्वं सिध्यतीति फलितमाह —

तस्मादिति ।