बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति व्येव त्वा ज्ञपयिष्यामीति तं पाणावादायोत्तस्थौ तौ ह पुरुषं सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहन्पाण्डरवासः सोम राजन्निति स नोत्तस्थौ तं पाणिनापेषं बोधयाञ्चकार स होत्तस्थौ ॥ १५ ॥
कथं पुनरिदमवगम्यते — सुप्तपुरुषगमनतत्सम्बोधनानुत्थानैः गार्ग्याभिमतस्य ब्रह्मणोऽब्रह्मत्वं ज्ञापितमिति ? जागरितकाले यो गार्ग्याभिप्रेतः पुरुषः कर्ता भोक्ता ब्रह्म सन्निहितः करणेषु यथा, तथा अजातशत्र्वभिप्रेतोऽपि तत्स्वामी भृत्येष्विव राजा सन्निहित एव ; किं तु भृत्यस्वामिनोः गार्ग्याजातशत्र्वभिप्रेतयोः यद्विवेकावधारणकारणम् , तत् सङ्कीर्णत्वादनवधारितविशेषम् ; यत् द्रष्टृत्वमेव भोक्तुः न दृश्यत्वम् , यच्च अभोक्तुर्दृश्यत्वमेव न तु द्रष्टृत्वम् , तच्च उभयम् इह सङ्कीर्णत्वाद्विविच्य दर्शयितुमशक्यमिति सुप्तपुरुषगमनम् । ननु सुप्तेऽपि पुरुषे विशिष्टैर्नामभिरामन्त्रितो भोक्तैव प्रतिपत्स्यते, न अभोक्ता — इति नैव निर्णयः स्यादिति । न, निर्धारितविशेषत्वाद्गार्ग्याभिप्रेतस्य — यो हि सत्येन च्छन्नः प्राण आत्मा अमृतः वागादिषु अनस्तमितः निम्लोचत्सु, यस्य आपः शरीरं पाण्डरवासाः, यश्च असपत्नत्वात् बृहन् , यश्च सोमो राजा षोडशकलः, स स्वव्यापारारूढो यथानिर्ज्ञात एव अनस्तमितस्वभाव आस्ते ; न च अन्यस्य कस्यचिद्व्यापारः तस्मिन्काले गार्ग्येणाभिप्रेयते तद्विरोधिनः ; तस्मात् स्वनामभिरामन्त्रितेन प्रतिबोद्धव्यम् ; न च प्रत्यबुध्यत ; तस्मात् पारिशेष्यात् गार्ग्याभिप्रेतस्य अभोक्तृत्वं ब्रह्मणः । भोक्तृस्वभावश्चेत् भुञ्जीतैव स्वं विषयं प्राप्तम् ; न हि दग्धृस्वभावः प्रकाशयितृस्वभावः सन् वह्निः तृणोलपादि दाह्यं स्वविषयं प्राप्तं न दहति, प्रकाश्यं वा न प्रकाशयति ; न चेत् दहति प्रकाशयति वा प्राप्तं स्वं विषयम् , नासौ वह्निः दग्धा प्रकाशयिता वेति निश्चीयते ; तथा असौ प्राप्तशब्दादिविषयोपलब्धृस्वभावश्चेत् गार्ग्याभिप्रेतः प्राणः, बृहन्पाण्डरवास इत्येवमादिशब्दं स्वं विषयमुपलभेत — यथा प्राप्तं तृणोलपादि वह्निः दहेत् प्रकाशयेच्च अव्यभिचारेण तद्वत् । तस्मात् प्राप्तानां शब्दादीनाम् अप्रतिबोधात् अभोक्तृस्वभाव इति निश्चीयते ; न हि यस्य यः स्वभावो निश्चितः, स तं व्यभिचरति कदाचिदपि ; अतः सिद्धं प्राणस्याभोक्तृत्वम् । सम्बोधनार्थनामविशेषेण सम्बन्धाग्रहणात् अप्रतिबोध इति चेत् — स्यादेतत् — यथा बहुष्वासीनेषु स्वनामविशेषेण सम्बन्धाग्रहणात् मामयं सम्बोधयतीति, शृण्वन्नपि सम्बोध्यमानः विशेषतो न प्रतिपद्यते ; तथा इमानि बृहन्नित्येवमादीनि मम नामानीति अगृहीतसम्बन्धत्वात् प्राणो न गृह्णाति सम्बोधनार्थं शब्दम् , न त्वविज्ञातृत्वादेव — इति चेत् — न, देवताभ्युपगमे अग्रहणानुपपत्तेः ; यस्य हि चन्द्राद्यभिमानिनी देवता अध्यात्मं प्राणो भोक्ता अभ्युपगम्यते, तस्य तया संव्यवहाराय विशेषनाम्ना सम्बन्धोऽवश्यं ग्रहीतव्यः ; अन्यथा आह्वानादिविषये संव्यवहारोऽनुपपन्नः स्यात् । व्यतिरिक्तपक्षेऽपि अप्रतिपत्तेः अयुक्तमिति चेत् — यस्य च प्राणव्यतिरिक्तो भोक्ता, तस्यापि बृहन्नित्यादिनामभिः सम्बोधने बृहत्त्वादिनाम्नां तदा तद्विषयत्वात् प्रतिपत्तिर्युक्ता ; न च कदाचिदपि बृहत्त्वादिशब्दैः सम्बोधितः प्रतिपद्यमानो दृश्यते ; तस्मात् अकारणम् अभोक्तृत्वे सम्बोधनाप्रतिपत्तिरिति चेत् — न, तद्वतः तावन्मात्राभिमानानुपपत्तेः ; यस्य प्राणव्यतिरिक्तो भोक्ता, सः प्राणादिकरणवान् प्राणी ; तस्य न प्राणदेवतामात्रेऽभिमानः, यथा हस्ते ; तस्मात् प्राणनामसम्बोधने कृत्स्नाभिमानिनो युक्तैव अप्रतिपत्तिः, न तु प्राणस्य असाधारणनामसंयोगे ; देवतात्मत्वानभिमानाच्च आत्मनः । स्वनामप्रयोगेऽप्यप्रतिपत्तिदर्शनादयुक्तमिति चेत् — सुषुप्तस्य यल्लौकिकं देवदत्तादि नाम तेनापि सम्बोध्यमानः कदाचिन्न प्रतिपद्यते सुषुप्तः ; तथा भोक्तापि सन् प्राणो न प्रतिपद्यत इति चेत् — न, आत्मप्राणयोः सुप्तासुप्तत्वविशेषोपपत्तेः ; सुषुप्तत्वात् प्राणग्रस्ततया उपरतकरण आत्मा स्वं नाम प्रयुज्यमानमपि न प्रतिपद्यते ; न तु तत् असुप्तस्य प्राणस्य भोक्तृत्वे उपरतकरणत्वं सम्बोधनाग्रहणं वा युक्तम् । अप्रसिद्धनामभिः सम्बोधनमयुक्तमिति चेत् — सन्ति हि प्राणविषयाणि प्रसिद्धानि प्राणादिनामानि ; तान्यपोह्य अप्रसिद्धैर्बृहत्त्वादिनामभिः सम्बोधनमयुक्तम् , लौकिकन्यायापोहात् ; तस्मात् भोक्तुरेव सतः प्राणस्याप्रतिपत्तिरिति चेत् — न देवताप्रत्याख्यानार्थत्वात् ; केवलसम्बोधनमात्राप्रतिपत्त्यैव असुप्तस्य आध्यात्मिकस्य प्राणस्याभोक्तृत्वे सिद्धे, यत् चन्द्रदेवताविषयैर्नामभिः सम्बोधनम् , तत् चन्द्रदेवता प्राणः अस्मिञ्छरीरे भोक्तेति गार्ग्यस्य विशेषप्रतिपत्तिनिराकरणार्थम् ; न हि तत् लौकिकनाम्ना सम्बोधने शक्यं कर्तुम् । प्राणप्रत्याख्यानेनैव प्राणग्रस्तत्वात्करणान्तराणां प्रवृत्त्यनुपपत्तेः भोक्तृत्वाशङ्कानुपपत्तिः । देवतान्तराभावाच्च ; ननु अतिष्ठा इत्याद्यात्मन्वीत्यन्तेन ग्रन्थेन गुणवद्देवताभेदस्य दर्शितत्वादिति चेत् , न, तस्य प्राण एव एकत्वाभ्युपगमात् सर्वश्रुतिषु अरनाभिनिदर्शनेन, ‘सत्येन च्छन्नः’ ‘प्राणो वा अमृतम्’ (बृ. उ. १ । ६ । ३) इति च प्राणबाह्यस्य अन्यस्य अनभ्युपगमात् भोक्तुः । ‘एष उ ह्येव सर्वे देवाः, कतम एको देव इति, प्राणः’ (बृ. उ. ३ । ९ । ९) इति च सर्वदेवानां प्राण एव एकत्वोपपादनाच्च । तथा करणभेदेष्वनाशङ्का, देहभेदेष्विव स्मृतिज्ञानेच्छादिप्रतिसन्धानानुपपत्तेः ; न हि अन्यदृष्टम् अन्यः स्मरति जानाति इच्छति प्रतिसन्दधाति वा ; तस्मात् न करणभेदविषया भोक्तृत्वाशङ्का विज्ञानमात्रविषया वा कदाचिदप्युपपद्यते । ननु सङ्घात एवास्तु भोक्ता, किं व्यतिरिक्तकल्पनयेति — न, आपेषणे विशेषदर्शनात् ; यदि हि प्राणशरीरसङ्घातमात्रो भोक्ता स्यात् सङ्घातमात्राविशेषात् सदा आपिष्टस्य अनापिष्टस्य च प्रतिबोधे विशेषो न स्यात् ; सङ्घातव्यतिरिक्ते तु पुनर्भोक्तरि सङ्घातसम्बन्धविशेषानेकत्वात् पेषणापेषणकृतवेदनायाः सुखदुःखमोहमध्यमाधामोत्तमकर्मफलभेदोपपत्तेश्च विशेषो युक्तः ; न तु सङ्घातमात्रे सम्बन्धकर्मफलभेदानुपपत्तेः विशेषो युक्तः ; तथा शब्दादिपटुमान्द्यादिकृतश्च । अस्ति चायं विशेषः — यस्मात् स्पर्शमात्रेण अप्रतिबुध्यमानं पुरुषं सुप्तं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार अजातशत्रुः । तस्मात् यः आपेषणेन प्रतिबुबुधे — ज्वलन्निव स्फुरन्निव कुतश्चिदागत इव पिण्डं च पूर्वविपरीतं बोधचेष्टाकारविशेषादिमत्त्वेन आपादयन् , सोऽन्योऽस्ति गार्ग्याभिमतब्रह्मभ्यो व्यतिरिक्त इति सिद्धम् । संहतत्वाच्च पारार्थ्योपपत्तिः प्राणस्य ; गृहस्य स्तम्भादिवत् शरीरस्य अन्तरुपष्टम्भकः प्राणः शरीरादिभिः संहत इत्यवोचाम — अरनेमिवच्च, नाभिस्थानीय एतस्मिन्सर्वमिति च ; तस्मात् गृहादिवत् स्वावयवसमुदायजातीयव्यतिरिक्तार्थं संहन्यत इत्येवम् अवगच्छाम । स्तम्भकुड्यतृणकाष्ठादिगृहावयवानां स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि — तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं दृष्ट्वा, मन्यामहे, तत्सङ्घातस्य च — तथा प्राणाद्यवयवानां तत्सङ्घातस्य च स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि — तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं भवितुमर्हतीति । देवताचेतनावत्त्वे समत्वाद्गुणभावानुपगम इति चेत् — प्राणस्य विशिष्टैर्नामभिरामन्त्रणदर्शनात् चेतनावत्त्वमभ्युपगतम् ; चेतनावत्त्वे च पारार्थ्योपगमः समत्वादनुपपन्न इति चेत् — न निरुपाधिकस्य केवलस्य विजिज्ञापयिषितत्वात् क्रियाकारकफलात्मकता हि आत्मनो नामरूपोपाधिजनिता अविद्याध्यारोपिता ; तन्निमित्तो लोकस्य क्रियाकारकफलाभिमानलक्षणः संसारः ; स निरूपाधिकात्मस्वरूपविद्यया निवर्तयितव्य इति तत्स्वरूपविजिज्ञापयिषया उपनिषदारम्भः — ‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २ । १ । १) ‘नैतावता विदितं भवति’ (बृ. उ. २ । १ । १) इति च उपक्रम्य ‘एतावदरे खल्वमृतत्वम्’ (बृ. उ. ४ । ५ । १५) इति च उपसंहारात् ; न च अतोऽन्यत् अन्तराले विवक्षितम् उक्तं वा अस्ति ; तस्मादनवसरः समत्वाद्गुणभावानुपगम इति चोद्यस्य । विशेषवतो हि सोपाधिकस्य संव्यवहारार्थो गुणगुणिभावः, न विपरीतस्य ; निरुपाख्यो हि विजिज्ञापयिषितः सर्वस्यामुपनिषदि, ‘स एष नेति नेति’ (बृ. उ. ४ । ५ । १५) इत्युपसंहारात् । तस्मात् आदित्यादिब्रह्मभ्य एतेभ्योऽविज्ञानमयेभ्यो विलक्षणः अन्योऽस्ति विज्ञानमय इत्येतत्सिद्धम् ॥

कथमिति ; जागरितेति ; किन्त्विति ; यद्द्रष्टृत्वमिति ; तच्चेति ; नन्विति ; नेत्यादिना ; यो हीत्यादिना ; न चेति ; तस्मादिति ; न चेति ; तस्मादिति ; भोक्तृस्वभावश्चेदिति ; न हीत्यादिना ; न चेदिति ; यथेत्यादिना ; तस्मादिति ; न हीति ; संबोधनार्थेति ; स्यादेतदित्यादिना ; न देवतेति ; यस्य हीत्यादिना ; अन्यथेति ; व्यतिरिक्तेति ; यस्य चेति ; न च कदाचिदिति ; न तद्वत इति ; यस्येति ; तस्मादिति ; न त्विति ; देवतेति ; स्वनामेति ; सुषुप्तस्येति ; नाऽऽत्मेति ; सुषुप्तत्वादिति ; न त्विति ; अप्रसिद्धेति ; सन्ति हीति ; तस्मादिति ; न देवतेति ; केवलेति ; न हीति ; प्राणेति ; देवतान्तरभावाच्चेति ; नन्विति ; न तस्येति ; अरनाभीति ; एष इति ; सर्वदेवानामिति ; तथेति ; देहभेदेष्विवेति ; न हीति ; विज्ञानेति ; नन्विति ; किं व्यतिरिक्तेति ; नाऽऽपेषण इति ; यदि हीति ; संघातेति ; नत्विति ; तथेति ; अस्ति चेति ; तस्मादिति ; संहतत्वाच्चेति ; गृहस्येति ; अरनेमिवच्चेति ; नाभीति ; तस्मादिति ; स्तम्भेति ; देवतेति ; प्राणस्येति ; चेतनावत्त्वे चेति ; न निरुपाधिकस्येति ; क्रियेत्यादिना ; ब्रह्मेति ; न चेति ; तस्मादिति ; विशेषवतो हीति ; निरुपाख्यो हीति ; आदित्यादिति ॥१५॥ ;

तौ ह सुप्तमित्यादिसुप्तपुरुषगत्युक्तिमाक्षिपति —

कथमिति ।

गार्ग्यकाश्याभिमतयोरुभयोरपि जागरिते करणेषु सन्निधानाविशेषात्तत्रैव किमिति विवेको न दर्शित इत्यर्थः ।

जागरिते करणेषु द्वयोः सन्निधानेऽपि साङ्कर्याद्दुष्करं विवेचनमिति परिहरति —

जागरितेति ।

ब्रह्मशब्दादूर्ध्वं सशब्दमध्याहृत्य योजना ।

तर्हि स्वामिभृत्यन्यायेन तयोर्विवेकोऽपि सुकरः स्यादित्याशङ्क्याऽऽह —

किन्त्विति ।

किं तद्विवेकावधारणकारणं तदाह —

यद्द्रष्टृत्वमिति ।

कथं तदनवधारितविशेषमिति तदाह —

तच्चेति ।

इहेति जागरितोक्तिः ।

यद्यपि जागरितं हित्वा सुप्ते पुरुषे विवेकार्थं तयोरुपगतिस्तत्र च भोक्तैव संबोधितः स्वनामभिस्तच्छब्दं श्रोष्यति नाचेतनस्तथापि नेष्टविवेकसिद्धिर्गार्ग्यकाश्याभीष्टात्मनोरुत्थितसंशयादिति शङ्कते —

नन्विति ।

संशयं निराकरोति —

नेत्यादिना ।

विशेषावधारणमेव विशदयति —

यो हीत्यादिना ।

स्वव्यापारस्तुमुलशब्दादिः । यथानिर्ज्ञातो यथोक्तैर्विशेषणैरुपलब्धं रूपमनतिक्रम्य वर्तमानः । प्राणस्योक्तविशेषणवतः ।

स्वापेऽवस्थानेऽपि तस्य तदा भोगाभावस्तत्र भोक्त्रन्तराभ्युपगमादित्याशङ्क्याऽऽह —

न चेति ।

तस्यैव भोक्तृत्वे फलितामाह —

तस्मादिति ।

अस्तु तस्य प्राप्तशब्दश्रवणं तत्राऽह —

न चेति ।

परिशेषसिद्धमर्थमाह —

तस्मादिति ।

प्राणस्याभोक्तृत्वं व्यतिरेकद्वारा साधयति —

भोक्तृस्वभावश्चेदिति ।

न च भुङ्क्ते तस्मादभोक्तेति शेषः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति —

न हीत्यादिना ।

उलपं बालतृणम् ।

विपक्षे दोषमाह —

न चेदिति ।

उक्तमर्थं संक्षिप्याह —

यथेत्यादिना ।

प्राणस्याभोक्तृत्वमुपसंहरति —

तस्मादिति ।

यद्यपि प्राणः स्वापे शब्दादीन्न प्रतिबुध्यते तथाऽपि भोक्तृस्वभावो भविष्यति नेत्याह —

न हीति ।

संबोधनशब्दाश्रवणमतःशब्दार्थः ।

तस्य स्वनामाग्रहणं संबन्धाग्रहणकृतं नानात्मत्वकृतमिति शङ्कते —

संबोधनार्थेति ।

शङ्कामेव विशदयति —

स्यादेतदित्यादिना ।

देवतायाः संबन्धाग्रहणमयुक्तं सर्वज्ञत्वादित्युत्तरमाह —

न देवतेति ।

तदेव प्रपञ्चयति —

यस्य हीत्यादिना ।

तयेति ग्रहणकर्तृनिर्देशः ।

अवश्यमिति सूचितामनुपपत्तिमाह —

अन्यथेति ।

आदिपदेन यागस्तुतिनमस्कारादि गृह्यते संव्यवहारोऽभिज्ञाभोगप्रसादादिः ।

संबोधननामाग्रहस्तत्कृतानात्मत्वदोषश्च त्वदिष्टात्मनोऽपि तुल्य इति शङ्कते —

व्यतिरिक्तेति ।

संगृहीतं चोद्यं विवृणोति —

यस्य चेति ।

तदा सुषुप्तिदशायां प्रतिपत्तिर्युक्तेति संबन्धः । तद्विषयत्वादित्यतिरिक्तात्मविषयत्वादिति यावत् ।

अस्त्येवातिरिक्तस्याऽऽत्मनः संबोधनशब्दश्रवणादीति चेन्नेत्याह —

न च कदाचिदिति ।

त्वदिष्टात्मनः संबोधनशब्दाप्रतिपत्तावपि भोक्तृत्वाङ्गीकारस्तच्छब्दार्थः । अभोक्तृत्वे प्राणस्येति शेषः ।

यथा हस्तः पादोऽङ्गुलिरित्यादिनामोक्तौ मैत्रो नोत्तिष्ठति सर्वदेहाभिमानित्वेन तन्मात्रानभिमानित्वादेवं काश्येष्टात्मनः सर्वकार्यकरणाभिमानित्वादङ्गुलिस्थानीयप्राणमात्रे तदभावात्तन्नामाग्रहणं न त्वचेतनत्वादिति परिहरति —

न तद्वत इति ।

तदेव स्फुटयति —

यस्येति ।

प्राणमात्रे प्राणादिकरणवतोऽभिमानाभावे फलितमाह —

तस्मादिति ।

चन्द्रस्यापि प्राणैकदेशत्वात्तन्नामभिः संबोधने कृत्स्नाभिमानी स नोत्तिष्ठति ।

अत्राप्यङ्गुल्यादिदृष्टान्तोपपतत्तेरित्याशङ्क्याऽऽह —

न त्विति ।

गोत्ववत्तस्य सर्ववस्तुषु समाप्तेरहमिति सर्वत्राभिमानसंभवाच्चन्द्रनामोक्तावपि नाप्रतिपत्तिर्युक्तेत्यर्थः ।

प्राणवच्चिदात्मनोऽपि पूर्णतया सर्वात्माभिमानसिद्धेर्बोधाबोधौ तुल्यावित्याशङ्क्याऽऽह —

देवतेति ।

विशिष्टस्यात्मनो देवतायामात्मतत्त्वाभिमानाभावादितरस्य च कूटस्थज्ञप्तिमात्रत्वेन तदयोगान्न तुल्यतेत्यर्थः ।

प्रकारान्तरेण प्राणस्याभोक्तृत्वं वारयन्नाशङ्कते —

स्वनामेति ।

अयुक्तं प्राणेतरस्य भोक्तृत्वमिति शेषः ।

तदेव विवृणोति —

सुषुप्तस्येति ।

विशेषं दर्शयन्नुत्तरमाह —

नाऽऽत्मेति ।

काश्याभीष्टात्मनः सुप्तत्वविशेषप्रयुक्तं फलमाह —

सुषुप्तत्वादिति ।

प्राणस्यापि संहृतकरणत्वात्स्वनामग्रहणमित्याशङ्क्य तस्यासुप्तत्वकृतं कार्यं कथयति —

न त्विति ।

न हि करणस्वामिनि व्याप्रियमाणे करणोपरमः संभवति तस्य चानुपरतकरणस्य स्वनामाग्रहणमयुक्तमित्यर्थः ।

प्राणनामत्वेनाप्रसिद्धनामभिः संबोधनात्तदनुत्थानं नानात्मत्वादिति शङ्कते —

अप्रसिद्धेति ।

तदेव स्पष्टयति —

सन्ति हीति ।

प्रसिद्धमनूद्याप्रसिद्धं विधेयमिति लौकिको न्यायः ।

अप्रसिद्धसंज्ञाभिः संबोधनस्यायुक्तत्वे फलितमाह —

तस्मादिति ।

चन्द्रदेवताऽस्मिन्देहे कर्त्री भोक्त्री चाऽऽत्मेति गार्ग्याभिप्रायनिषेधे देवतानामग्रहस्य तात्पर्यात्तद्ग्रहोऽर्थवानिति परिहरति —

न देवतेति ।

तदेव प्रपञ्चयति —

केवलेति ।

प्राणादिनामभिः संबोधनेऽपि तन्निराकरणं कर्तुं शक्यमित्याशङ्क्याऽऽह —

न हीति ।

लौकिकनाम्नो देवताविषयत्वाभावादित्यर्थः ।

प्राणस्याभोक्तृत्वेऽपीन्द्रियाणां भोक्तृत्वमिति केचित्तान्प्रत्याह —

प्राणेति ।

प्राणकरणचन्द्रदेवतानामभोक्तृत्वेऽपि देवतान्तरमत्र भोक्तृ स्यादित्याशङ्क्याऽऽह —

देवतान्तरभावाच्चेति ।

भोक्तृत्वाशङ्कानुपपत्तिरिति पूर्वेण संबन्धः ।

तत्रोपक्रमविरोधं शङ्कते —

नन्विति ।

दर्शितत्वाद्देवतान्तराभावो नास्तीति शेषः ।

स्वतन्त्रो देवतान्तरभेदो नास्तीति समाधत्ते —

न तस्येति ।

प्राणे देवताभेदस्यैक्ये युक्तिमाह —

अरनाभीति ।

न देवतान्तरस्य भोक्तृत्वं गार्ग्यस्य स्वपक्षविरोधादिति शेषः ।

सर्वश्रुतिष्वित्युक्तं ताः संक्षेपतो दर्शयति —

एष इति ।

कति देवा याज्ञवल्क्येत्यादिना संक्षेपविस्ताराभ्यां सर्वेषां देवनां प्राणात्मन्येवैकत्वमुपपाद्यते । अतो न देवताभेदोऽस्तीत्याह —

सर्वदेवानामिति ।

प्राणात् पृथग्भूतस्य देवस्याऽऽत्मातिरेके सत्यसत्त्वापत्तेश्च प्राणान्तर्भावः सर्वदेवताभेदस्येति वक्तुं चशब्दः ।

करणानामभोक्तृत्वे हेत्वन्तरमाह —

तथेति ।

देवताभेदेष्विवेति यावत् । अनाशङ्का भोक्तृत्वस्येति शेषः ।

तत्रोदाहरणान्तरमाह —

देहभेदेष्विवेति ।

न हि हस्तादिषु प्रत्येकं भोक्तृत्वं शङ्क्यते । तथा श्रोत्रलेत्रादिष्वपि न भोक्तृत्वाशङ्का युक्ता । तेषु स्मृतिरूपज्ञानस्येच्छाया योऽहं रूपमद्राक्षं स शब्दं श्रृणोमीत्यादिप्रतिसन्धानस्य चायोगादित्यर्थः ।

अनुपपत्तिमेव स्फुटयति —

न हीति ।

क्षणिकविज्ञानस्य निराश्रयस्य भोक्तृत्वाशङ्काऽपि प्रतिसन्धानासंभवादेव प्रत्युक्तेत्याह —

विज्ञानेति ।

प्राणादीनामनात्मत्वमुक्त्वा स्थूलदेहस्य तद्वक्तुं पूर्वपक्षयति —

नन्विति ।

संघातो भूतचतुष्टयसमाहारः स्थूलो देह इति यावत् । गौरोऽहं पश्यामीत्यादिप्रत्यक्षेण तस्याऽऽत्मत्वदृष्टेरिति भावः ।

प्रमाणाभावादतिरिक्तकल्पना न युक्तेत्याह —

किं व्यतिरिक्तेति ।

संघातस्याऽऽत्मत्वं दूषयति —

नाऽऽपेषण इति ।

विशेषदर्शनं व्यतिरेकद्वारा विशदयति —

यदि हीति ।

प्राणेन सहितं स्थूलशरीरमेव संघातस्तन्मात्रो यदि भोक्ता स्यादिति योजना ।

त्वत्पक्षेऽपि कथं पेषणापेषणयोरुत्थाने विशेषः स्यादित्याशङ्क्याऽऽह —

संघातेति ।

तस्य संघातेन संबन्धविशेषाः स्वकर्मारभ्यत्वात्मीयत्वस्वप्राणपरिपाल्यत्वादयस्तेषामनेकत्वात्पेषणापेषणयोरिन्द्रियोद्भवाभिभवकृतवेदनायाः स्फुटत्वास्फुटत्वात्मको विशेषो युक्तः सुखदुःखमोहानामुत्तममध्यमाधमकर्मफलानां कर्मोद्भवाभिभवकृतविशेषसंभवाच्च यथोक्तो विशेषः संभवतीत्यर्थः ।

परपक्षेऽपि तथैव विशेषः स्यादित्याशङ्क्याऽऽह —

नत्विति ।

न हि तत्र स्वकर्मारभ्यत्वादयः संबन्धविशेषाः कर्मफलभेदो वा युज्यते । संघातवादिनाऽतीन्द्रियकर्मानङ्गीकारात् । अतः संघातमात्रे भोक्तरि प्रतिबोधे विशेषासिद्धिरित्यर्थः ।

शब्दस्पर्शादीनां पटुत्वमतिपटुत्वं मान्द्यमतिमान्द्यमित्येवमादिना कृतो विशेषो बोधे दृश्यते सोऽपि संघातवादे न सिध्यतीत्याह —

तथेति ।

अयुक्त इति यावत् । चकारो विशेषानुकर्षणार्थः ।

मा तर्हि प्रतिबोधे विशेषो भूदित्याशङ्क्याऽऽह —

अस्ति चेति ।

विशेषदर्शनफलमाह —

तस्मादिति ।

आदिशब्देन गुणादि गृह्यते अन्यः संघातादिति शेषः ।

देहादेरनात्मत्वमुक्त्वा प्राणस्यानात्मत्वे हेत्वन्तरमाह —

संहतत्वाच्चेति ।

हेतुं साधयति —

गृहस्येति ।

यथा नेमिरराश्च मिथः संहन्यन्ते तथैव प्राणस्य संहतिरित्याह —

अरनेमिवच्चेति ।

किञ्च प्राणे नाभिस्थानीये सर्वं समर्पितमिति श्रूयते तद्युक्तं तस्य संहतत्वमित्याह —

नाभीति ।

संहतत्वफलमाह —

तस्मादिति ।

प्राणस्य गृहादिवत्पारार्थ्येऽपि संहतशेषित्वमेषितव्यं गृहादेस्तथा दर्शनादित्याशङ्क्याऽऽह —

स्तम्भेति ।

स्वात्मना स्तम्भादीनां जन्म चोपचयश्चापचयश्च विनाशश्च नाम चाऽऽकृतिश्च कार्यं चेत्येते धर्मास्तन्निरपेक्षतया लब्धा सत्ता स्फुरणं च येन स च तेषु स्तम्भादिषु विषयेषु द्रष्टा च श्रोता च मन्ता च विज्ञाता च तदर्थत्वं तेषां तत्संघातस्य च दृष्ट्वा प्राणादीनामपि तथात्वं भवितुमर्हतीति मन्यामह इति संबन्धः । प्राणादिः स्वातिरिक्तद्रष्टृशेषः संहतत्वाद्गृहादिवदित्यनुमानात्सत्तायां तत्प्रतीतौ च प्राणादिविक्रियानपेक्षतया सिद्धो द्रष्टा निर्विकारो युक्तस्तस्य विकारवत्त्वे हेत्वभावादिति भावः ।

प्राणदेवतापारार्थ्यानुमानं व्याप्त्यन्तरविरुद्धमिति शङ्कते —

देवतेति ।

प्राणदेवतायाश्चेतनत्वमेव कथमभ्युपगतं तत्राऽऽह —

प्राणस्येति ।

तथाऽपि प्रकृतेऽनुमाने कथं व्याप्त्यन्तरविरोधस्तत्राऽऽह —

चेतनावत्त्वे चेति ।

यो येन समः स तच्छेषो न भवति । यथा दीपो दीपान्तरेण तुल्यो न तच्छेष इति व्याप्तिविरोधः स्यादित्यर्थः ।

नायं विरोधः समाधातव्यः शेषशेषिभावस्यात्राप्रतिपाद्यत्वादिति परिहरति —

न निरुपाधिकस्येति ।

तदेव स्फुटयति —

क्रियेत्यादिना ।

उपनिषदारम्भो निरुपाधिकं स्वरूपं ज्ञापयितुमित्यत्र गमकमाह —

ब्रह्मेति ।

द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चेत्यादिदर्शनादस्यामुपनिषदि सोपाधिकमपि ब्रह्म विवक्षितमित्याशङ्क्याऽऽह —

न चेति ।

द्वित्ववादस्य कल्पितविषयवत्त्वान्नेति नेतीति निर्विशेषवस्तुसमर्पणादतोऽन्यदार्तमिति चोक्तेरत्र निरुपाधिकमेव ब्रह्म प्रतिपाद्यमिति भावः ।

शेषशेषिभावस्याप्रतिपाद्यत्वे फलितमाह —

तस्मादिति ।

किमर्थं तर्हि शेषशेषिभावस्तत्र तत्रोक्तस्तत्राऽऽह —

विशेषवतो हीति ।

सोपाधिकस्य शेषशेषिभावो विवक्षितस्तत्र च स्वामिभृत्यन्यायेन विशेषसंभवादसिद्धं समत्वमित्यर्थः ।

न विपरीतस्य निरुपाधिकस्य शेषशेषित्वमस्तीत्यत्र हेतुमाह —

निरुपाख्यो हीति ।

शेषशेषित्वाद्यशेषविशेषशून्य इत्यर्थः ।

पाणिपेषवाक्यविचारार्थं संक्षिप्योपसंहरति —

आदित्यादिति ॥१५॥