वृत्तमनूद्यान्तरग्रन्थमवतार्य व्याचष्टे —
स एवमित्यादिना ।
एतत्स्वपनं यथा भवति तथेति यावत् ।
यत्रेत्युक्तं कालं विशिनष्टि —
प्रागिति ।
तदा क्वाभूदिति संबन्धः ।
विज्ञानमय इत्यत्र विज्ञानं परं ब्रह्म तद्विकारो जीवस्तेन विकारार्थे मयडिति केचित्तन्निराकरोति —
विज्ञानमिति ।
अन्तःकरणप्रायत्वमात्मनो न प्रकल्प्यते तस्यासंगस्य तेनासंबन्धादित्याक्षिपति —
किं पुनरिति ।
असंगस्याप्याविद्यं बुद्ध्यादिसंबन्धमुपेत्य परिहरति —
तस्मिन्निति ।
तत्साक्षित्वाच्च तत्प्रायत्वमित्याह —
उपलब्धृत्वं चेति ।
नियामकाभावं शङ्कित्वा परिहरति —
कथमित्यादिना ।
एकस्मिन्नेव वाक्ये पृथिवीमय इत्यादौ प्रायार्थत्वोपलम्भाद्विज्ञानमय इत्यत्रापि तदर्थत्वमेव मयटो निश्चितमित्युक्तमिदानीं जीवस्य परमात्मरूपविज्ञानविकारत्वस्य श्रुतिस्मृत्योरप्रसिद्धत्वाच्च प्रायार्थत्वमेवेत्याह —
परेति ।
अप्रसिद्धमपि विज्ञानविकारत्वं श्रुतिवशादिष्यतामित्याङ्क्याऽऽह —
य एष इति ।
य एष विज्ञानमय इत्यत्र विज्ञानमयस्यैष इति प्रसिद्धवदनुवादादप्रसिद्धविज्ञानविकारत्वं सर्वनामश्रुतिविरुद्धमित्यर्थः ।
जीवो ब्रह्मावयवस्तत्सदृशो वा तदर्थो मयडित्याशङ्क्याऽऽह —
अवयवेति ।
ब्रह्मणो निरवयवत्वश्रुतेस्तस्यैव जीवरूपेण प्रवेशश्रवणाच्च प्रकृते वाक्ये मयटोऽवयवाद्यर्थायोगान्निर्विषयत्वासंभवाच्च पारिशेष्यात्पूर्वोक्ता प्रायार्थतैव तस्य प्रत्येतव्येत्यर्थः ।
विज्ञानमयपदार्थमुपसंहरति —
तस्मादिति ।
यत्रेत्यादि व्याख्याय वाक्यशेषमवतार्य तात्पर्यमाह —
क्वैष इति ।
स्वरूपज्ञापनार्थं प्रश्नप्रवृत्तिरित्येतत्प्रकटयति —
प्रागिति ।
कार्याभावेनेत्युक्तं व्यनक्ति —
न हीति ।
तस्मादित्यस्यार्थमाह —
अकर्मप्रयुक्तत्वादिति ।
किं तथास्वाभाव्यमिति तदाह —
यस्मिन्निति ।
द्वितीयप्रश्नार्थं संक्षिपति —
यतश्चेति ।
उक्तेऽर्थे प्रश्नद्वयमुत्थापयति —
एतदिति ।
तथास्वाभाव्यमेवेति संबन्धः । एतदित्यधिकरणमपादानं च गृह्यते ।
किमिति तं प्रत्युभयं पृच्छ्यते स्वकीयां प्रतिज्ञां निर्वोढुमित्यभिप्रेत्याऽऽह —
बुद्धीति ।
ननु शिष्यत्वाद्गार्ग्येणैव प्रष्टव्यं स चेदज्ञत्वान्न पृच्छति तर्हि राज्ञस्तस्मिन्नौदासीन्यमेव युक्तं तत्राऽऽह —
इत्येतदुभयमिति ।
तदु हेत्यादि व्याकरोति —
एवमिति ।
एतदागमनं यथा भवति तथेति यावत् । तत्र क्रियापदयोर्यथाक्रमं वक्तुं प्रष्टुं वेत्याभ्यां संबन्धः ॥१६॥