अन्वयव्यतिरेकाभ्यां वागाद्युपाधिकमात्मनः संसारित्वमुक्तं तत्र व्यतिरेकासिद्धिमाशङ्कते —
नन्विति ।
व्यतिरेकासिद्धौ फलितमाह —
तस्मादिति ।
स्वप्नस्य रज्जुसर्पवन्मिथ्यात्वेन वस्तुधर्मत्वाभावान्नाऽऽत्मनः संसारित्वमित्युत्तरमाह —
न मृषात्वादिति ।
तदुपपादयन्नादौ स यत्रेत्यादीन्यक्षराणि योजयति —
स प्रकृत इत्यादिना ।
अथात्र स्वप्नस्वभावो निर्दिश्यते न तस्य मिथ्यात्वं कथ्यते तत्राऽऽह —
मृषैवेति ।
स्वप्ने दृष्टानां महाराजत्वादीनां जाग्रत्यनुवृत्तिराहित्यं व्यभिचारदर्शनम् ।
स्वप्नस्य मिथ्यात्वे सिद्धमर्थमाह —
तस्मादिति ।