विमता लोका न मिथ्या तत्कालाव्यभिचारित्वाज्जाग्रल्लोकवदिति शङ्कते —
ननु च यथेति ।
साध्यवैकल्यं वक्तुं सिद्धान्ती पाणिपेषवाक्योक्तं स्मारयति —
ननु चेति ।
जाग्रल्लोकस्य मिथ्यात्वे फलितमाह —
तत्कथमिति ।
प्रादुर्भावे जाग्रल्लोकस्य कर्तृत्वं प्राकरणिकमेष्टव्यम् ।
तत्र पूर्ववादी दृष्टान्तं साधयति —
सत्यमित्यादिना ।
अन्वयव्यतिरेकाख्यो न्यायः ।
देहद्वयस्याऽऽत्मनश्च विवेकमात्रं प्रागुक्तं न तु प्राधान्येनाऽऽत्मनः शुद्धिरुक्तेति विभागमङ्गीकृत्य वस्तुतोऽसन्तमपि दृष्टान्तं सन्तं कृत्वा तेन स्वप्नसत्यत्वमाशङ्क्य तन्निरासेनात्यन्तिकी शुद्धिरात्मनः स्वप्नवाक्येनोच्यते तथा च जाग्रतोऽपि तथा मिथ्यात्वादात्मैकरसः शुद्धः स्यादित्याशयवानाह —
इत्यसन्नपीति ।
पाणिपेषवाक्ये जाग्रन्मिथ्यात्वोक्त्याऽर्थादुक्ता शुद्धिरत्रापि सैवोच्यते चेत्पुनरुक्तिरित्याशङ्क्याह —
सर्वो हीति ।
यत्किञ्चित्सामान्यात्पौनरुक्त्यं सर्वत्र तुल्यम् । अवान्तरभेदादपौनरुक्त्यं प्रकृतेऽपि समं पूर्वत्र शुद्धिद्वारस्याऽऽर्थिकत्वादिह वाचनिकत्वादिति भावः ।
जाग्रद्दृष्टान्तेन स्वप्नसत्यत्वचोद्यसंभवाद्वाच्यस्तस्य समाधिरिति पूर्ववादिमुखेनोक्त्वा समाधिमधुना कथयति —
न तावदिति ।
विमता न द्रष्टुरात्मनो धर्मा वा तद्दृश्यत्वाद्घटवदित्यर्थः ।
किञ्च स्वप्नदृष्टानां जाग्रद्दृष्टादर्थान्तरत्वेन दृष्टेर्मिथ्यात्वमित्याह —
महाराज इति ।
तेषां जाग्रद्दृष्टादर्थान्तरत्वमसिद्धमित्याशङ्क्याह —
न चेति ।
प्रामाणसामग्र्यभावाच्च स्वप्नस्य मिथ्यात्वमित्याह —
न चेति ।
योग्यदेशाभावाच्च तन्मिथ्यात्वमित्याह —
न चेति ।
देहाद्बहिरेव स्वप्नदृष्ट्यङ्गीकाराद्योग्यदेशसिद्धिरित्याशङ्क्याऽऽह —
देहस्थस्येति ।
एतदेव साधयितुं शङ्कयति —
नन्विति ।
तत्र स यथेत्यादिवाक्यमुत्तरत्वेनावतार्य व्याचष्टे —
न बहिरित्यादिना ।
यथाकामं तं तं काममनतिक्रम्येत्यर्थः । एतदिति क्रियाया ग्रहणस्य विशेषणमेतद्ग्रहणं यथा भवति तथेत्यर्थः ।
परिवर्तनमेव विवृणोति —
कामेति ।
योग्यदेशाभावे सिद्धे सिद्धमर्थं दर्शयति —
तस्मादिति ।
स्वप्नस्य मिथ्यात्वे तद्दृष्टान्तत्वेन जडत्वादिहेतुना जागरितस्यापि तथात्वं शक्यं निश्चेतुमित्याह —
तथेति ।
द्वयोर्मिथ्यात्वे प्रतीचो विशुद्धिः सिद्धेत्युपसंहरति —
तस्मादिति ।
अक्रियाकारकफलात्मक इति विशेषणं समर्थयते —
यस्मादिति ।
जागरितं दृष्टान्तीकृत्य दार्ष्टान्तिकमाह —
तथेति ।
द्रष्टृदृश्यभावे सिद्धे फलितमाह —
तस्मादिति ।
अन्यत्वफलं कथयति —
विशुद्ध इति ॥१८॥