बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति स यथा महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८ ॥
ननु च यथा जागरिते जाग्रत्कालाव्यभिचारिणो लोकाः, एवं स्वप्नेऽपि तेऽस्य महाराजत्वादयो लोकाः स्वप्नकालभाविनः स्वप्नकालाव्यभिचारिण आत्मभूता एव, न तु अविद्याध्यारोपिता इति — ननु च जाग्रत्कार्यकरणात्मत्वं देवतात्मत्वं च अविद्याध्यारोपितं न परमार्थत इति व्यतिरिक्तविज्ञानमयात्मप्रदर्शनेन प्रदर्शितम् ; तत् कथं दृष्टान्तत्वेन स्वप्नलोकस्य मृत इव उज्जीविष्यन् प्रादुर्भविष्यति — सत्यम् , विज्ञानमये व्यतिरिक्ते कार्यकरणदेवतात्मत्वप्रदर्शनम् अविद्याध्यारोपितम् — शुक्तिकायामिव रजतत्वदर्शनम् — इत्येतत्सिध्यति व्यतिरिक्तात्मास्तित्वप्रदर्शनन्यायेनैव, न तु तद्विशुद्धिपरतयैव न्याय उक्तः इति — असन्नपि दृष्टान्तः जाग्रत्कार्यकरणदेवतात्मत्वदर्शनलक्षणः पुनरुद्भाव्यते ; सर्वो हि न्यायः किञ्चिद्विशेषमपेक्षमाणः अपुनरुक्ती भवति । न तावत्स्वप्नेऽनुभूतमहाराजत्वादयो लोका आत्मभूताः, आत्मनोऽन्यस्य जाग्रत्प्रतिबिम्बभूतस्य लोकस्य दर्शनात् ; महाराज एव तावत् व्यस्तसुप्तासु प्रकृतिषु पर्यङ्के शयानः स्वप्नान्पश्यन् उपसंहृतकरणः पुनरुपगतप्रकृतिं महाराजमिव आत्मानं जागरित इव पश्यति यात्रागतं भुञ्जानमिव च भोगान् ; न च तस्य महाराजस्य पर्यङ्के शयानात् द्वितीय अन्यः प्रकृत्युपेतो विषये पर्यटन्नहनि लोके प्रसिद्धोऽस्ति, यमसौ सुप्तः पश्यति ; न च उपसंहृतकरणस्य रूपादिमतो दर्शनमुपपद्यते ; न च देहे देहान्तरस्य तत्तुल्यस्य सम्भवोऽस्ति ; देहस्थस्यैव हि स्वप्नदर्शनम् । ननु पर्यङ्के शयानः पथि प्रवृत्तमात्मानं पश्यति — न बहिः स्वप्नान्पश्यतीत्येतदाह — सः महाराजः, जानपदान् जनपदे भवान् राजोपकरणभूतान् भृत्यानन्यांश्च, गृहीत्वा उपादाय, स्वे आत्मीय एव जयादिनोपार्जिते जनपदे, यथाकामं यो यः कामोऽस्य यथाकामम् इच्छातो यथा परिवर्तेतेत्यर्थः ; एवमेव एष विज्ञानमयः, एतदिति क्रियाविशेषणम् , प्राणान्गृहीत्वा जागरितस्थानेभ्य उपसंहृत्य, स्वे शरीरे स्व एव देहे न बहिः, यथाकामं परिवर्तते — कामकर्मभ्यामुद्भासिताः पूर्वानुभूतवस्तुसदृशीर्वासना अनुभवतीत्यर्थः । तस्मात् स्वप्ने मृषाध्यारोपिता एव आत्मभूतत्वेन लोका अविद्यमाना एव सन्तः ; तथा जागरितेऽपि — इति प्रत्येतव्यम् । तस्मात् विशुद्धः अक्रियाकारकफलात्मको विज्ञानमय इत्येतत्सिद्धम् । यस्मात् दृश्यन्ते द्रष्टुर्विषयभूताः क्रियाकारकफलात्मकाः कार्यकरणलक्षणा लोकाः, तथा स्वप्नेऽपि, तस्मात् अन्योऽसौ दृश्येभ्यः स्वप्नजागरितलोकेभ्यो द्रष्टा विज्ञानमयो विशुद्धः ॥

विमता लोका न मिथ्या तत्कालाव्यभिचारित्वाज्जाग्रल्लोकवदिति शङ्कते —

ननु च यथेति ।

साध्यवैकल्यं वक्तुं सिद्धान्ती पाणिपेषवाक्योक्तं स्मारयति —

ननु चेति ।

जाग्रल्लोकस्य मिथ्यात्वे फलितमाह —

तत्कथमिति ।

प्रादुर्भावे जाग्रल्लोकस्य कर्तृत्वं प्राकरणिकमेष्टव्यम् ।

तत्र पूर्ववादी दृष्टान्तं साधयति —

सत्यमित्यादिना ।

अन्वयव्यतिरेकाख्यो न्यायः ।

देहद्वयस्याऽऽत्मनश्च विवेकमात्रं प्रागुक्तं न तु प्राधान्येनाऽऽत्मनः शुद्धिरुक्तेति विभागमङ्गीकृत्य वस्तुतोऽसन्तमपि दृष्टान्तं सन्तं कृत्वा तेन स्वप्नसत्यत्वमाशङ्क्य तन्निरासेनात्यन्तिकी शुद्धिरात्मनः स्वप्नवाक्येनोच्यते तथा च जाग्रतोऽपि तथा मिथ्यात्वादात्मैकरसः शुद्धः स्यादित्याशयवानाह —

इत्यसन्नपीति ।

पाणिपेषवाक्ये जाग्रन्मिथ्यात्वोक्त्याऽर्थादुक्ता शुद्धिरत्रापि सैवोच्यते चेत्पुनरुक्तिरित्याशङ्क्याह —

सर्वो हीति ।

यत्किञ्चित्सामान्यात्पौनरुक्त्यं सर्वत्र तुल्यम् । अवान्तरभेदादपौनरुक्त्यं प्रकृतेऽपि समं पूर्वत्र शुद्धिद्वारस्याऽऽर्थिकत्वादिह वाचनिकत्वादिति भावः ।

जाग्रद्दृष्टान्तेन स्वप्नसत्यत्वचोद्यसंभवाद्वाच्यस्तस्य समाधिरिति पूर्ववादिमुखेनोक्त्वा समाधिमधुना कथयति —

न तावदिति ।

विमता न द्रष्टुरात्मनो धर्मा वा तद्दृश्यत्वाद्घटवदित्यर्थः ।

किञ्च स्वप्नदृष्टानां जाग्रद्दृष्टादर्थान्तरत्वेन दृष्टेर्मिथ्यात्वमित्याह —

महाराज इति ।

तेषां जाग्रद्दृष्टादर्थान्तरत्वमसिद्धमित्याशङ्क्याह —

न चेति ।

प्रामाणसामग्र्यभावाच्च स्वप्नस्य मिथ्यात्वमित्याह —

न चेति ।

योग्यदेशाभावाच्च तन्मिथ्यात्वमित्याह —

न चेति ।

देहाद्बहिरेव स्वप्नदृष्ट्यङ्गीकाराद्योग्यदेशसिद्धिरित्याशङ्क्याऽऽह —

देहस्थस्येति ।

एतदेव साधयितुं शङ्कयति —

नन्विति ।

तत्र स यथेत्यादिवाक्यमुत्तरत्वेनावतार्य व्याचष्टे —

न बहिरित्यादिना ।

यथाकामं तं तं काममनतिक्रम्येत्यर्थः । एतदिति क्रियाया ग्रहणस्य विशेषणमेतद्ग्रहणं यथा भवति तथेत्यर्थः ।

परिवर्तनमेव विवृणोति —

कामेति ।

योग्यदेशाभावे सिद्धे सिद्धमर्थं दर्शयति —

तस्मादिति ।

स्वप्नस्य मिथ्यात्वे तद्दृष्टान्तत्वेन जडत्वादिहेतुना जागरितस्यापि तथात्वं शक्यं निश्चेतुमित्याह —

तथेति ।

द्वयोर्मिथ्यात्वे प्रतीचो विशुद्धिः सिद्धेत्युपसंहरति —

तस्मादिति ।

अक्रियाकारकफलात्मक इति विशेषणं समर्थयते —

यस्मादिति ।

जागरितं दृष्टान्तीकृत्य दार्ष्टान्तिकमाह —

तथेति ।

द्रष्टृदृश्यभावे सिद्धे फलितमाह —

तस्मादिति ।

अन्यत्वफलं कथयति —

विशुद्ध इति ॥१८॥