संशयादिना विचारकार्यतामवतार्य पूर्वपक्षयति —
न तावदिति ।
जगत्कर्ता हीश्वरो विवक्ष्यते प्रकृते च सुषुप्तिविशिष्टाज्जीवाज्जगज्जन्मोच्यते तस्मादीश्वरो जीवादतिरिक्तो नास्तीत्यर्थः ।
तदेव प्रपञ्चयति —
नेत्यादिना ।
प्रकृतेऽपि जीवे जगत्कारणत्वमीश्वरस्यैवात्र श्रुतमित्याशङ्क्याऽऽह —
न चेति ।
तत्र प्रकरणविरोधं हेतुमाह —
विज्ञानेति ।
श्रुत्यन्तरवशादपि जीव एवात्र जगत्कर्तेत्याह —
समानप्रकरणे चेति ।
श्रुत्यन्तरस्य च जीवविषयत्वं जगद्वाचित्वाधिकरणपूर्वपक्षन्यायेन द्रष्टव्यम् ।
वाक्यशेषवशादपि जीवस्यैव वेदितव्यत्वं वाक्यान्वयाधिकरणपूर्वपक्षन्यायेन दर्शयति —
तथा चेति ।
जीवातिरिक्तस्य परस्य वेदितव्यस्याभावे पूर्वोत्तरवाक्यानामानुकूल्यं हेत्वन्तरमाह —
तथा चेत्यादिना ।
इतश्च जीवस्यैव वेद्यतेत्याह —
सर्वेति ।
तत्रैव हेत्वन्तरमाह —
तथेति ।
स वै वेदितव्य इत्यत्र न स्पष्टं जीवस्य वेदितव्यत्वमिह तु स्पष्टमिति भेदः ।
स्वापावस्थाज्जीवाज्जगज्जन्मश्रुतेस्तस्यैव वेद्यत्वदृष्टेश्च जगद्धेतुरीश्वरो वेदान्तवेद्यो नास्तीत्युक्ते सेश्वरवादी चोदयति —
अवस्थान्तरेति ।
चोद्यमेव विवृणोति —
अथापीति ।
उक्तोपपत्तिसत्त्वेऽपीति यावत् ।
नावस्थाभेदाद्वस्तुभेदस्तथाऽननुभवादपराद्धान्ताच्चेति परिहरति —
नादृष्टत्वादिति ।
अवस्थाभेदाद्वस्तुभेदाभावं दृष्टान्तेन स्पष्टयति —
नहीति ।
तत्रैव हेत्वन्तरमाह —
न्यायाच्चेति ।
जागरादिविशिष्टस्यैव स्वापवैशिष्ट्यात्तस्य संसारित्वान्नेश्वरोऽन्योऽस्तीत्युक्त्वा तदभावे वादिसंमतिमाह —
तथा चेति ।
आदिशब्दो लोकायतादिसमस्तनिरीश्वरवादिसंग्रहार्थः —
युक्तिशतैरिति ।
तस्य देहित्वेऽस्मदादितुल्यत्वात्तदभावे मुक्तवज्जगत्कर्तृत्वायोगाज्जीवानामेवादृष्टद्वरा तत्कर्तृत्वसंभवात्तस्याकिञ्चित्करत्वमित्यादिभिरित्यर्थः ।
जीवो जगज्जन्मादिहेतुर्न भवति तत्रासमर्थत्वापाषाणवत्तच्च संसारित्वादिति शङ्कते —
संसारिणोऽपीति ।
ईश्वरस्येवेत्यपेरर्थः । अयुक्तं प्राणादिकर्तृत्वमिति शेषः ।
संग्रहवाक्यं विवृणोति —
यन्महतेत्यादिना ।
कालात्ययापदेशेन दूषयति —
न शास्त्रादिति ।
निरीश्वरवादमुपसंहरति —
तस्मादिति ।