विज्ञानात्मविषयत्वं तटस्थेश्वरविषयत्वं चोपनिषदो निवारयन्परिहरति —
नेत्यादिना ।
परस्यैव प्रवेशादिमन्त्रब्राह्मणवादानुदाहरति —
पुर इत्यादिना ।
यत्त्वहं ब्रह्मेति न गृह्णीयादिति तत्राऽऽह —
सर्वश्रुतिषु चेति ।