शास्त्रीयमप्येकत्वमनिष्टप्रसंगान्न स्वीकर्तव्यमिति शङ्कते —
यदेति ।
परस्य संसारित्वे तदसंसारित्वशास्त्रानर्थक्यं फलितमाह —
तथा चेति ।
संसारिणोऽनन्यस्यापि परस्यासंसारित्वे संसारित्वाभिमतोऽप्यसंसारीत्युपदेशानर्थक्यं तं विनैव मुक्तिसिद्धिरिति दोषान्तरमाह —
असंसारित्वे चेति ।
तत्राऽऽद्यं दोषं विवृणोति —
यदि तावदिति ।
‘न लिप्यते लोकदुःखेन बाह्य’ इत्याद्याः श्रुतयः । ‘यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते’(भ.गी.१८-१७) इत्याद्याः स्मृतयः । कूटस्थासंगत्वादयो न्यायाः ।
द्वितीयं दोषप्रसंगमापाद्य प्रकटयति —
अथेत्यादिना ।
दोषद्वये स्वयूथ्यसमाधिमुत्थापयति —
अत्रेति ।
कथं तर्हि तस्य कार्ये प्रविष्टस्य जीवत्वं तत्राऽऽह —
किं तर्हीति ।
जीवस्य ब्रह्मविकारत्वेऽपि ततो भेदान्नाहं ब्रह्मेति धीः अभेदे ब्रह्मणोऽपि संसारितेत्याशङ्क्याऽऽह —
स चेति ।
तथाऽपि कथं शङ्कितदोषाभावस्तत्राऽऽह —
येनेति ।
एवमिति भिन्नाभिन्नत्वपरामर्शः । सर्वमित्युपदेशादिनिर्देशः ।