बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २० ॥
तत्र विज्ञानात्मनो विकारपक्ष एता गतयः — पृथिवीद्रव्यवत् अनेकद्रव्यसमाहारस्य सावयवस्य परमात्मनः, एकदेशविपरिणामो विज्ञानात्मा घटादिवत् ; पूर्वसंस्थानावस्थस्य वा परस्य एकदेशो विक्रियते केशोषरादिवत् , सर्व एव वा परः परिणमेत् क्षीरादिवत् । तत्र समानजातीयानेकद्रव्यसमूहस्य कश्चिद्द्रव्यविशेषो विज्ञानात्मत्वं प्रतिपद्यते यदा, तदा समानजातीयत्वात् एकत्वमुपचरितमेव न तु परमार्थतः ; तथा च सति सिद्धान्तविरोधः । अथ नित्यायुतसिद्धावयवानुगतः अवयवी पर आत्मा, तस्य तदवस्थस्य एकदेशो विज्ञानात्मा संसारी — तदापि सर्वावयवानुगतत्वात् अवयविन एव अवयवगतो दोषो गुणो वेति, विज्ञानात्मनः संसारित्वदोषेण पर एव आत्मा सम्बध्यत इति, इयमप्यनिष्टा कल्पना । क्षीरवत् सर्वपरिणामपक्षे सर्वश्रुतिस्मृतिकोपः, स च अनिष्टः । ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे. ६ । १९) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) ‘स वा एष महानज आत्माजरोऽमरोऽमृतः’ (बृ. उ. ४ । ४ । २५) ‘न जायते म्रियते वा कदाचित्’ (भ. गी. २ । २०) ‘अव्यक्तोऽयम्’ (भ. गी. २ । २५) इत्यादिश्रुतिस्मृतिन्यायविरुद्धा एते सर्वे पक्षाः । अचलस्य परमात्मन एकदेशपक्षे विज्ञानात्मनः कर्मफलदेशसंसरणानुपपत्तिः, परस्य वा संसारित्वम् — इत्युक्तम् । परस्यैकदेशः अग्निविस्फुलिङ्गवत् स्फुटितः विज्ञानात्मा संसरतीति चेत् — तथापि परस्यावयवस्फुटनेन क्षतप्राप्तिः, तत्संसरणे च परमात्मनः प्रदेशान्तरावयवव्यूहे छिद्रताप्राप्तिः, अव्रणत्ववाक्यविरोधश्च ; आत्मावयवभूतस्य विज्ञानात्मनः संसरणे परमात्मशून्यप्रदेशाभावात् अवयवान्तरनोदनव्यूहनाभ्यां हृदयशूलेनेव परमात्मनो दुःखित्वप्राप्तिः । अग्निविस्फुलिङ्गादिदृष्टान्तश्रुतेर्न दोष इति चेत् , न ; श्रुतेर्ज्ञापकत्वात् — न शास्त्रं पदार्थानन्यथा कर्तुं प्रवृत्तम् , किं तर्हि यथाभूतानाम् अज्ञातानां ज्ञापने ; किञ्चातः ? शृणु, अतो यद्भवति ; यथाभूता मूर्तामूर्तादिपदार्थधर्मा लोके प्रसिद्धाः ; तद्दृष्टान्तोपादानेन तदविरोध्येव वस्त्वन्तरं ज्ञापयितुं प्रवृत्तं शास्त्रं न लौकिकवस्तुविरोधज्ञापनाय लौकिकमेव दृष्टान्तमुपादत्ते ; उपादीयमानोऽपि दृष्टान्तः अनर्थकः स्यात् , दार्ष्टान्तिकासङ्गतेः ; न हि अग्निः शीतः आदित्यो न तपतीति वा दृष्टान्तशतेनापि प्रतिपादयितुं शक्यम् , प्रमाणान्तरेण अन्यथाधिगतत्वाद्वस्तुनः ; न च प्रमाणं प्रमाणान्तरेण विरुध्यते ; प्रमाणान्तराविषयमेव हि प्रमाणान्तरं ज्ञापयति ; न च लौकिकपदपदार्थाश्रयणव्यतिरेकेण आगमेन शक्यमज्ञातं वस्त्वन्तरम् अवगमयितुम् ; तस्मात् प्रसिद्धन्यायमनुसरता न शक्या परमात्मनः सावयवांशांशित्वकल्पना परमार्थतः प्रतिपादयितुम् । ‘क्षुद्राविस्फुलिङ्गाः’ (बृ. उ. २ । १ । २०) ‘ममैवांशः’ (भ. गी. १५ । ७) इति च श्रूयते स्मर्यते चेति चेत् , न, एकत्वप्रत्ययार्थपरत्वात् ; अग्नेर्हि विस्फुलिङ्गः अग्निरेव इत्येकत्वप्रत्ययार्हो दृष्टो लोके ; तथा च अंशः अंशिना एकत्वप्रत्ययार्हः ; तत्रैवं सति विज्ञानात्मनः परमात्मविकारांशत्ववाचकाः शब्दाः परमात्मैकत्वप्रत्ययाधित्सवः । उपक्रमोपसंहाराभ्यां च — सर्वासु हि उपनिषत्सु पूर्वमेकत्वं प्रतिज्ञाय, दृष्टान्तैर्हेतुभिश्च परमात्मनो विकारांशादित्वं जगतः प्रतिपाद्य, पुनरेकत्वमुपसंहरति ; तद्यथा इहैव तावत् ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति प्रतिज्ञाय, उत्पत्तिस्थितिलयहेतुदृष्टान्तैः विकारविकारित्वाद्येकत्वप्रत्ययहेतून् प्रतिपाद्य ‘अनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्युपसंहरिष्यति ; तस्मात् उपक्रमोपसंहाराभ्यामयमर्थो निश्चीयते — परमात्मैकत्वप्रत्ययद्रढिम्ने उत्पत्तिस्थितिलयप्रतिपादकानि वाक्यानीति ; अन्यथा वाक्यभेदप्रसङ्गाच्च — सर्वोपनिषत्सु हि विज्ञानात्मनः परमात्मना एकत्वप्रत्ययो विधीयत इत्यविप्रतिपत्तिः सर्वेषामुपनिषद्वादिनाम् ; तद्विध्येकवाक्ययोगे च सम्भवति उत्पत्त्यादिवाक्यानां वाक्यान्तरत्वकल्पनायां न प्रमाणमस्ति ; फलान्तरं च कल्पयितव्यं स्यात् ; तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वप्रतिपादनपराः ॥

एकदेशिमतं निराकर्तुं विकल्पयति —

तत्रेति ।

एता गतय इत्येते पक्षा वक्ष्यमाणाः संभवन्ति न गत्यन्तरमित्यर्थः ।

यथा पृथिवीशब्दितं द्रव्यमनेकावयवसमुदायस्तथा भूतभौतिकात्मकानेकद्रव्यसमुदायः सावयवः परमात्मा तस्यैकदेशश्चैतन्यलक्षणस्तद्विकारो जीवः पृथिव्येकदेशमृद्विकारघटशरावादिवदित्येकः कल्पः । यथा भूमेरूषरादिदेशो नखकेशादिर्वा पुरुषस्य विकारस्तथाऽवयविनः परस्यैकदेशविकारो जीव इति द्वितीयः कल्पः । यथा क्षीरं स्वर्णं वा सर्वात्मना दधिरुचकादिरूपेण परिणमते तथा कृत्स्न एव परो जीवभावेन परिणमेदिति कल्पान्तरम् । तत्राऽऽद्यमनूद्य दूषयति —

तत्रेत्यादिना ।

नानाद्रव्याणां समाहारो वा तानि वाऽन्योन्यापेक्षाणि परश्चेन्न तस्यैक्यं स्यान्नहि बहूनां मुख्यमैक्यं समाहारस्य च समुदायापरपर्यायस्य समुदायिभ्यो भेदाभेदाभ्यां दुर्भणत्वेन कल्पितत्वादित्यर्थः ।

तर्हि ब्रह्मणो मुख्यमैक्यं मा भूत्तत्राऽऽह —

तथा चेति ।

न हि तन्नानात्वं कस्यापि सम्मतमिति भावः ।

द्वितीयमनूद्य निराकरोति —

अथेत्यादिना ।

सर्वदैव पृथगवस्थितेष्ववयवेषु जीवेष्वनुस्यूतश्चेतनोऽवयवी परश्चेत्तर्हि यथा प्रत्यवयवं मलसंसर्गे देहस्य मलिनत्वं तथा परस्य जीवगतैर्दुःखैर्महद्दुःखं स्यादिति प्रथमकल्पनाद्द्वितीयाऽपि कल्पना न युक्तेत्यर्थः ।

तृतीयं प्रत्याह —

क्षीरवदिति ।

‘न जायते म्रियते वा विपश्चित्’ इत्याद्याः श्रुतयः । ‘न जायते म्रियते वा कदाचित्’ (भ. गी. २ । २०) इत्याद्याः स्मृतयः ।

श्रुत्यादिकोपस्येष्टत्वमाशङ्क्य वैदिकं प्रत्याह —

स चेति ।

श्रुतिस्मृती विवेचयन्पक्षत्रयसाधारणं दूषणमाह —

निष्कलमित्यादिना ।

कूटस्थस्य निरवयवस्य कार्त्स्नैकदेशाभ्यां परिणामासंभवो न्यायः ।

जीवस्य परमात्मैकदेशत्वे दोषान्तरमाह —

अचलस्येति ।

एकदेशस्यैकदेशिव्यतिरेकेणाभावाज्जीवस्य स्वर्गादिषु गत्यनुपपत्तिरित्युक्तमन्यथा परस्यापि गतिः स्यान्नहि पटावयवेषु चलत्सु पटो न चलतीत्याह —

परस्य वेति ।

उक्तं यदि तावत्परमात्मेत्यादाविति शेषः ।

जीवस्य संसारित्वेऽपि परस्य तन्नास्तीति शङ्कते —

परस्येति ।

परस्य निरवयवत्वश्रुतेरवयवस्फुटनानुपपत्तिं मन्वानो दूषयति —

तथाऽपीति ।

यत्र परस्यावयवः स्फुटयति तत्र तस्य क्षत्तं प्राप्नोति तदीयावयवसंसरणे च परमात्मनः प्रदेशान्तरेऽवयवानां व्यूहे सत्युपचयः स्यात्तथा च परस्यावयवा यतो निर्गच्छन्ति तत्र च्छिद्रताप्राप्तिर्यत्र च ते गच्छन्ति तत्रोपचयः स्यादित्यकायमव्रणमस्थूलमनण्वह्रस्वमित्यादिवाक्यविरोधो भवेदित्यर्थः ।

परस्यैकदेशो विज्ञानमात्मेति पक्षे दुःखित्वमपि तस्य दुर्वारमापतेदिति दोषान्तरमाह —

आत्मावयवेति ।

मृल्लोहविस्फुलिङ्गदृष्टान्तश्रुतिवशात्परस्यावयवा जीवाः सिध्यन्तीत्यतो जीवानां परैकदेशत्वे नोक्तो दोषोऽवतरति युक्त्यपेक्षया श्रुतेर्बलवत्त्वादिति शङ्कते —

अग्निविस्फुलिङ्गादीति ।

शास्त्रार्थो युक्तिविरुद्धो न सिध्यतीति दूषयति —

न श्रुतेरिति ।

नञर्थं विवृणोति —

न शास्त्रमिति ।

हेतुभागमाकाङ्क्षापूर्वकं विभजते —

किं तर्हीति ।

स्मृत्यादिव्यावृत्त्यर्थमज्ञातानामित्युक्तम् ।

अस्तु शास्त्रमज्ञातार्थज्ञापकं तथाऽपि परस्य नास्ति सावयवत्वमित्यत्र किमायातमिति पृच्छति —

किञ्चात इति ।

शास्त्रस्य यथोक्तस्वभावत्वे यत्परस्य निरवयवत्वं फलति तदुच्यमानं समाहितेन श्रोतव्यमित्याह —

शृण्विति ।

तत्र प्रथमं लोकाविरोधेन शास्त्रप्रवृत्तिं दर्शयति —

यथेति ।

आदिपदेन भावाभावादि गृह्यते । पदार्थेष्वेव भोक्तृपारतन्त्र्याद्धर्मशब्दः तेषां लोकप्रसिद्धपदार्थानां दृष्टान्तानामुपन्यासेनेति यावत् । तदविरोधि लोकप्रसिद्धपदार्थाविरोधीत्यर्थः । वस्त्वन्तरं निरवयवादि दार्ष्टान्तिकम् ।

तदविरोध्येवेत्येवकारस्य व्यावर्त्यमाह —

न लौकिकेति ।

विपक्षे दोषमाह —

उपादीयमानोऽपीति ।

सामान्येनोक्तमर्थं दृष्टान्तविशेषनिविष्टतया स्पष्टयति —

न हीति ।

अग्नेरुष्णत्वमादित्यस्य तापकत्वमन्यथेत्युच्यते ।

ननु लौकिकं प्रमाणं लौकिकपदार्थाविरुद्धमेव स्वार्थं समर्पयति वैदिकं पुनरपौरुषेयं तद्विरुद्धमपि स्वार्थं प्रमापयेदलौकिकविषयत्वादत आह —

न चेति ।

ननु श्रुतेरज्ञातज्ञापकत्वे लोकानपेक्षत्वात्तद्विरोधेऽपि का हिनिस्तत्राऽऽह —

न चेति ।

लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधक इति न्यायात्तदनपेक्षा श्रुतिर्नाज्ञातं ज्ञपयितुमलमित्यर्थः ।

शास्त्रस्य लोकानुसारित्वे सिद्धे फलितमाह —

तस्मादिति ।

प्रसिद्धो न्यायो लौकिको दृष्टान्तः । न हि नित्यस्याऽऽकाशादेः सावयवत्वं परश्च नित्योऽभ्युपगतस्तन्न तस्य सावयवत्वेनांशांशित्वकल्पना वस्तुतः संभवति लोकविरोधादित्यर्थः ।

जीवस्य परांशत्वानङ्गीकारे श्रुतिस्मृत्योर्गतिर्वक्तव्येति शङ्कते —

क्षुद्रा इति ।

तयोर्गतिमाह —

नेत्यादिना ।

विस्फुलिङ्गे दर्शितं न्यायं सर्वत्रांशमात्रेऽतिदिशति —

तथा चेति ।

दृष्टान्ते यथोक्तनीत्या स्थिते दार्ष्टान्तिकमाह —

तत्रेति ।

परमात्मना सह जीवस्यैकत्वविषयं प्रत्ययमाधातुमिच्छन्तीति तथोक्ताः ।

तेषामेकत्वप्रत्ययावतारहेतुत्वे हेत्वन्तरं संगृह्णाति —

उपक्रमेति ।

तदेव स्फुटयति —

सर्वासु हीति ।

उक्तमर्थमुदाहरणनिष्ठतया विभजते —

तद्यथेति ।

इहेति प्रकृतोपनिषदुक्तिः । आदिशब्देनांशांशित्वादि गृह्यते ।

विवृतं संग्रहवाक्यमुपसंहरति —

तस्मादिति ।

तेषां स्वार्थनिष्ठत्वे दोषं वदन्नेकत्वप्रत्ययार्थत्वे हेत्वन्तरमाह —

अन्यथेति ।

‘संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्येते’ इति न्यायेनोक्तं प्रपञ्चयति —

सर्वोपनिषत्स्विति ।

किञ्च तेषां स्वार्थनिष्ठत्वे श्रुतफलाभावात्फलान्तरं कल्पनीयम् । न चैकत्वप्रत्ययविषयतया तत्फले निराकाङ्क्षेषु तेषु तत्कल्पना युक्ता ।

दृष्टे सत्यदृष्टकल्पनानवकाशादित्याह —

फलान्तरञ्चेति ।

उत्पत्त्यादिश्रुतीनां स्वार्थनिष्ठत्वासंभवे फलितमुपसंहरति —

तस्मादिति ।