न्यायागमाभ्यां जीवेश्वरयोरंशांशित्वादिकल्पनां निराकृत्य वेदान्तानामैक्यपरत्वे स्थिते सति द्वैतासिद्धिः फलतीत्याह —
सर्वोपनिषदामिति ।
एकत्वज्ञानस्य सनिदानद्वैतध्वंसित्वमथशब्दार्थः । प्रकृतं ज्ञानं तत्पदेन परामृश्यते । इत्यद्वैतमेव तत्त्वमिति शेषः ।
किमर्थमिति प्रश्नं मन्वानो द्वैतिनां मतमुत्थापयति —
कर्मकाण्डेति ।
वेदान्तानामैक्यपरत्वेऽपि कथं तत्प्रामाण्यविरोधप्रसंगस्तत्राऽऽह —
कर्मेति ।
तथाऽपि कथं विरोधावकाशः स्यादित्याशङ्क्याऽऽह —
विज्ञानात्मेति ।
केवलाद्वैतपक्षे कर्मकाण्डविरोधमुक्त्वा तत्रैव ज्ञानकाण्डविरोधमाह —
कस्य वेति ।
परस्य नित्यमुक्तत्वादन्यस्य स्वतः परतो वा बद्धस्याभावाच्छिष्याभावस्तथा चाधिकार्यभावादुपनिषदारम्भासिद्धिरित्यर्थः ।
कर्मकाण्डास्य काण्डान्तरस्य च प्रामाण्यानुपपत्तिर्विज्ञानात्माभेदं कल्पयतीत्यर्थापत्तिद्वयमुक्तं तत्र द्वितीयामर्थापत्तिं प्रपञ्चयति —
अपि चेति ।
का पुनरुपदेशस्यानुपपत्तिस्तत्राऽऽह —
बद्धस्येति ।
तदभाव इत्यत्र तच्छब्दो बद्धमधिकरोति । निर्विषयं निरधिकारम् । किञ्च यद्यर्थापत्तिद्वयमुक्त्वा विधयोत्तिष्ठति तर्हि भेदस्य दुर्निरूपत्वात्कथं कर्मकाण्डं प्रमाणमिति यद्ब्रह्मवादिना कर्मवादी चोद्यते तद्ब्रह्मवादस्य कर्मवादेन तुल्यम् । ब्रह्मवादेऽपि शिष्यशासित्रादिभेदाभावे कथमुपनिषत्प्रामाण्यमित्याक्षेप्तुं सुकरत्वाद्यश्चोपनिषदां प्रतीयमानं शिष्यशासित्रादिभेदमाश्रित्य प्रामाण्यमिति परिहारः स कर्मकाण्डस्यापि समानः ।
तत्रापि प्रातीतिकभेदमादाय प्रामाण्यस्य सुप्रतिपन्नत्वात् न च भेदप्रतीतिर्भ्रान्तिर्बाधाभावादित्यभिप्रेत्याऽऽह —
एवं तर्हीति ।
चोद्यसाम्यं विवृणोति —
येनेति ।
इति चोद्यसाम्यात्परिहारस्यापि साम्यमिति शेषः ।
ननु कर्मकाण्डं भेदपरं ब्रह्मकाण्डमभेदपरं प्रतिभाति न च वस्तुनि विकल्पः संभवत्यतोऽन्यतरस्याऽप्रामाण्यमत आह —
एवं तर्हीति ।
तुल्यमुपनिषदामपि स्वार्थाविघातकत्वमित्याशङ्क्याऽऽह —
उपनिषदामिति ।
स्वार्थः शब्दशक्तिवशात्प्रतीयमानः सृष्ट्यादिभेदः ।
यत्तूच्यते कर्मकाण्डस्य व्यावहारिकं प्रामाण्यं न तात्त्विकम् , तात्त्विकं तु काण्डान्तरस्येति तत्राऽऽह —
न हीति ।
यद्धि प्रामाण्यस्य व्यावहारिकत्वं तदेव तस्य तात्त्विकत्वं न हि प्रमाणं तत्त्वं च नाऽऽवेदयति व्याघातादित्यभिप्रेत्य दृष्टान्तमाह —
न हीति ।
स्वार्थविघातात्कर्मकाण्डविरोधाच्चोपनिषदामप्रामाण्यमित्युक्तमुपसंहर्तुमितिशब्दः ।
उपनिषदप्रामाण्ये हेत्वन्तरमाह —
प्रत्यक्षादीति ।
प्रत्यक्षादीनि निश्चितानि भेदप्रतिपत्त्यर्थानि प्रमाणानि तैरिति विग्रहः ।
अध्ययनविध्युपादापितानां कुतस्तासामप्रामाण्यमित्याशङ्क्याऽऽह —
अन्यार्थता वेति ।