किञ्च परस्यैकदेशो विज्ञानात्मेत्यत्र तदेकदेशः स्वाभाविको वा स्यादौपाधिको वेति विकल्प्याऽऽद्यं दूषयति —
न चेति ।
विपक्षे दोषमाह —
अदेशस्येति ।
द्वितीयमुत्थपयति —
अथेति ।
एकदेशस्यौपाधिकत्वपक्षे परस्मिन्विवेकवतां तदखण्डत्वबुद्धिभाजां तदेकदेशो वस्तुतः पृथग्भूत्वा व्यवहारालम्बनमिति नैव बुद्धिर्जायत औपाधिकस्य स्फटिकलौहित्यवन्मिथ्यात्वादित्युत्तरमाह —
न तदेति ।
ननु जीवे कर्ताऽहं भोक्ताऽहमिति परिच्छिन्नधीः सर्वेषामुपलभ्यते । सा च तस्य वस्तुतोऽपरिच्छिन्नब्रह्ममात्रत्वान्मञ्चक्रोशनधीवदुपचरिता । तस्मादुभयेषामुक्तात्मबुद्धिदर्शनात्मपरमात्मैकदेशत्वं जीवस्य दुर्वारमिति चोदयति —
अविवेकिनामिति ।
तत्राविवेकिनां यथोक्ता बुद्धिरुपचरिता न भवत्यतस्मिंस्तद्बुद्धित्वेनाविद्यात्वादिति परिहरति —
नेत्यादिना ।
तथाऽपि विवेकिनामीदृशधीरुपचरितेति चेत्तत्राऽऽह —
विवेकिनाञ्चेति ।
तेषां संव्यवहारोऽभिज्ञाभिवदनात्मकस्तावन्मात्रस्याऽऽलम्बनमाभासभूतोऽर्थस्तद्विषयत्वात्तद्बुद्धेरपि मिथ्याबुद्धित्वादुपचरितत्वासिद्धिरित्यर्थः ।
विवेकिनामविवेकिनाञ्चाऽऽत्मनि परिच्छिन्नधीरुपलब्धेत्येतावता न तस्य वस्तुतो ब्रह्मांशत्वादि सिध्यतीत्येतद्दृष्टान्तेन साधयति —
यथेति ।
अविवेकिनामिवेत्यपेरर्थः ।
ब्रह्मणि वस्तुतोंऽशादिकल्पना न कर्तव्येति दार्ष्टान्तिकमुपसंहरति —
अत इति ।
अंशांशिनोर्विशदीकरणमेकदेशैकदेशीति ।
अतःशब्दोपात्तमेव हेतुं स्फुटयति —
सर्वकल्पनेति ।
सर्वासां कल्पनानामपनयनमेवार्थः सारत्वेनाभीष्टस्तत्परत्वादुपनिषदां तदेकसमाधिगम्ये ब्रह्मणि न कदाचिदपि कल्पनाऽस्तीत्यर्थः ।
उपनिषदां निर्विकल्पकवस्तुपरत्वे फलितमाह —
अतो हित्वेति ।
ब्रह्मणो निर्विशेषत्वेऽप्यात्मनस्तदेकदेशस्य सविशेषत्वं किं न स्यादित्याशङ्क्याऽऽह —
नाऽऽत्मानमिति ।
आत्मा निर्विशेषश्चेत्कथं तस्मिन्व्यवहारत्रयमित्याशङ्क्याऽऽह —
तस्मादिति ।
आत्मनि सर्वो व्यवहारो नामरूपोपाधिप्रयुक्त इत्यत्र प्रमाणमाह —
रूपं रूपमिति ।
असंसारधर्मिणीत्युक्तं विशेषणं विशदयति —
न स्वत इति ।
भ्रान्त्या संसारित्वमात्मनीत्र मानमाह —
ध्यायतीति ।
कूटस्थत्वासंगत्वादिर्न्यायः । परमात्मनः सांशत्वपक्षो निराकृतः ।
ननु तस्य निरंशत्वेऽपि कुतो जीवस्य तन्मात्रत्वं तदेकदेशत्वादिसंभवादत आह —
एकदेश इति ।
कथं तर्हि ‘पादोऽस्य विश्वा भूतानि’(ऋ. १० । ८ । ९० । ३) ‘ममैवांशो जीवलोके’(भ. गी. १५ । ७) ‘अंशो नानाव्यपदेशात्’(ब्र. सू. २-३-४२.) ‘ सर्व एत आत्मनो व्युच्चरन्ति’ इति श्रुतिस्मृतिवादास्तत्राऽऽह —
अंशादीति ।