स्वार्थविघातकत्वादप्रामाण्यमुपनिषदामित्येतन्निराकृत्य चोद्यन्तरमनूद्य निराकरोति —
यच्चेत्यादिना ।
तस्मिन्नितीष्टार्थप्रापकसाधनोक्तिः ।
ननूपनिषद्वाक्यं ब्रह्मात्मैकत्वं साक्षात्प्रतिपादयदर्थात्कर्मकाण्डप्रामाण्यविघातकमिति चेत्तत्र तदप्रामाण्यमनुपपत्तिलक्षणं विपर्यासलक्षणं वेति विकल्प्याऽऽद्यमनूद्य दूषयति —
न चेति ।
विदितपदतदर्थसंगतेर्वाक्यार्थन्यायविदस्तदर्थेषु प्रमोत्पत्तिदर्शनादित्यर्थः ।
स्वार्थे प्रमामुत्पादयति वाक्यं मानान्तरविरोधादप्रमाणमित्याशङ्क्याऽऽह —
असाधारणे चेदिति ।
स्वगोचरशूरत्वात्प्रमाणानामित्यर्थः ।
विमतं न प्रमोत्पादकं प्रमाणाहृतविषयत्वादनुष्णाग्निवाक्यवदिति शङ्कते —
ब्रह्मेति ।
प्रत्यक्षविरोधादनुमानमनवकाशमिति परिहरति —
नेत्यादिना ।
इतश्च कर्मकाण्डस्य नाप्रामाण्यमिति वदन् द्वितीयं प्रत्याह —
अपि चेति ।
यथाप्राप्तस्येत्यस्यैव व्याख्यानमविद्याप्रत्युपस्थापितस्येति । साध्यसाधनसंबन्धबोधकस्य कर्मकाण्डस्य न विपर्यासो मिथ्यार्थत्वेऽपि तस्यार्थक्रियाकारित्वसामर्थ्यानपहारात्प्रामाण्योपपत्तेरिति भावः ।
ननु कर्मकाण्डस्य मिथ्यार्थत्वे मिथ्याज्ञानप्रभवत्वादनर्थनिष्ठत्वेनाप्रवर्तकत्वादप्रामाण्यमित्यत आह —
यथेति ।
विमतमप्रमाणं मिथ्यार्थत्वाद्विप्रलम्भकवाक्यवदित्याशङ्क्य व्यभिचारमाह —
यथाकाम्येष्विति ।
अग्निहोत्रादिषु काम्येषु कर्मसु मिथ्याज्ञानजनितं मिथ्याभूतं काममुपादाय शास्त्रप्रवृत्तिवन्नित्येष्वपि तेषु साधनमसदेवाऽऽदाय शास्त्रं प्रवर्ततां तथापि बुद्धिमन्तो न प्रवर्तिष्यन्ते वेदान्तेभ्यस्तन्मिथ्यात्वावगमादित्याशङ्क्याऽऽह —
न चेति ।
अविद्यावतां कर्मसु प्रवृत्तिमाक्षिपति —
विद्यावतामेवेति ।
द्रव्यदेवतादिज्ञानं वा कर्मसु प्रवर्तकमिति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति —
नेत्यादिना ।
कर्मकाण्डप्रामाण्यानुपपत्तिरित्याद्यामर्थापत्तिं निराकृत्य द्वितीयामर्थापत्तिमतिदेशेन निराकरोति —
एतेनेति ।
कर्मकाण्डस्याज्ञं प्रति सार्थकत्वोपपादनेनेति यावत् ।
ननु कर्मकाण्डं साध्यसाधनसंबन्धं बोधयत्प्रवृत्त्यादिपरमतो रागादिवशात्तदयोगाच्छास्त्रीयप्रवृत्त्यादिविषयस्य द्वैतस्य सत्यत्वमन्यथा तद्विषयत्वानुपपत्तिरित्यर्थापत्त्यन्तरमायातमिति तत्राऽऽह —
पुरुषेच्छेति ।
न प्रवृत्तिनिवृत्ती शास्त्रवशादिति शेषः ।
तदेव स्फुटयति —
अनेका हीति ।
शास्त्रस्याकारकत्वात्प्रवर्तकत्वाद्यभावमुक्त्वा तत्रैव युक्त्यन्तरमाह —
दृश्यन्ते हीति ।
तर्हि शास्त्रस्य किं कृत्यमित्याशङ्क्याऽऽह —
तस्मादिति ।
तत्र संबन्धविशेषोपदेशे सतीति यावत् ।
यथारुचि पुरुषाणाम्प्रवृत्तिश्चेत्परमपुरुषार्थं कैवल्यमुद्दिश्य सम्यग्ज्ञानसिद्धये तदुपायश्रवणादिषु संन्यासपूर्विका प्रवृत्तिर्बुद्धिपूर्वकारिणामुचितेत्याशङ्क्याऽऽह —
तथेति ।
रागादिवैचित्र्यानुसारेणेति यावत् । उक्तं हि –
“अपि वृन्दावने शून्ये शृगालत्वं स इच्छति ।
न तु निर्विषयं मोक्षं गन्तुमर्हति गौतम ॥” इत्यादि ।
तर्हि कथं पुरुषार्थविवेकसिद्धिस्तत्राऽऽह —
यस्येति ।
पुरुषार्थदर्शनकार्यमाह —
तदनुरूपाणीति ।
स्वाभिप्रायानुसारेण पुरुषाणाम्पुरुशार्थप्रतिपत्तिरित्यत्र गमकमाह —
तथाचेति ।
यथा दकारत्रये प्रजापतिनोक्तदेवादयः स्वाभिप्रायेण दमाद्यर्थत्रयं जगृहुस्तथा स्वाभिप्रायवशादेव पुरुषाणां पुरुषार्थप्रतिपत्तिरित्यर्थवादतोऽवगतमित्यर्थः ।
पूर्वोक्तकाण्डयोरविरोधमुपसंहरति —
तस्मादिति ।
एकस्य वाक्यस्य द्व्यर्थत्वायोगादिति यावत् ।
अर्थाद्बाधकत्वमाशङ्क्याऽऽह —
न चेति ।
एतावता वेदान्तानां ब्रह्मैकत्वज्ञापकत्वमात्रेणेत्यर्थः ।
वेदान्तानामबाधकत्वेऽपि कर्मकाण्डस्य तत्प्रामाण्यनिवर्तकत्वमस्तीत्याशङ्क्याऽऽह —
नापीति ।