स्वपक्षे सर्वविरोधनिरासद्वारा स्वार्थे वेदान्तानां प्रामाण्यमुक्तं संप्रति तार्किकपक्षमुत्थापयति —
तत्रेति ।
ऐक्ये शास्त्रगम्ये स्वीकृते सतीति यावत् । सर्वं प्रमाणमित्यागमवाक्यं प्रत्यक्षादि चेत्यर्थः ।
कथमैक्यावेदकमागमवाक्यं प्रत्यक्षादिना विरुध्यते तत्राऽऽह —
तथेति ।
यथा ब्रह्मैकत्वे प्रवृत्तस्य शास्त्रस्य प्रत्यक्षादिविरोधं मन्यन्ते तथा तमस्मान्प्रति चोदयन्त्यपीति योजना ।
तत्र प्रत्यक्षविरोधं प्रकटयति —
शब्दादय इति ।
संप्रत्यनुमानविरोधमाह —
तथेति ।
स्वदेहसमवेतचेष्टातुल्यचेष्टा देहान्तरे दृष्टा सा च प्रयत्नपूर्विका विशिष्टचेष्टात्वात्सम्मतवदित्यनुमानविरुद्धमद्वैतशास्त्रमित्यर्थः ।
तत्रैव प्रमाणान्तरविरोधमाह —
तथा चेति ।
मानत्रयविरोधान्न ब्रह्मैकत्वमिति प्राप्ते प्रत्याह —
ते तु कुतर्केति ।
इति दूष्यता तेषामिति शेषः ।
द्वैतग्राहिप्रमाणविरुद्धमद्वैतमिति वदतां कथं शोच्यतेति पृच्छति —
कथमिति ।
त्र ब्रह्मैकत्वे प्रत्यक्षविरोधं परिहरति —
श्रोत्रादीति ।
तथात्वे तदेकत्वाभ्युपगमविरोधः स्यादिति शेषः ।
यथा सर्वभूतस्थमेकमाकाशमित्यत्र न शब्दादिभेदग्राहिप्रत्यक्षविरोधस्तथैकं ब्रह्मेत्यत्रापि न तद्विरोधोऽस्तीत्याह —
अथेति ।
तस्य कल्पितभेदविषयत्वादिति भावः ।
अनुमानविरोधं परोक्तमनुवदति —
यच्चेति ।
या चेष्टा सा प्रयत्नपूर्विकेत्येतावता नाऽऽत्मभेदः स्वप्रयत्नपूर्वकत्वस्यापि संभवादनुपलब्धिविरोधे त्वनुमानस्यैवानुत्थानात्स्वदेहचेष्टायाः स्वप्रयत्नपूर्वकत्ववत्परदेहचेष्टायास्तद्यत्नपूर्वकत्वे चाऽऽदावेव स्वपरभेदः सिध्येत्स च नाध्यक्षात्परस्यानध्यक्षत्वान्नानुमानादन्योन्याश्रयादित्याशयवानाह —
भिन्ना इति ।
दोषान्तराभिधित्सया शङ्कयति —
अथेति ।
अस्मदर्थं पृच्छति —
के यूयमिति ।
स हि स्थूलदेहो वा करणजातं देहद्वयादन्यो वा । नाऽऽद्यः । तयोरचेतनत्वादनुमातृत्वायोगात् । न तृतीयस्तस्याविकारित्वादिति भावः ।
किंशब्दस्य प्रश्नार्थतां मत्वा पूर्ववाद्याह —
शरीरेति ।
आत्मा देहादिबहुसाधनविशिष्टोऽनुमाता क्रियाणामनेककारकसाध्यत्वादेवं विशिष्टात्मकर्तृकानुमानात्प्रतिदेहमात्मभेदधीरित्यर्थः ।
विशिष्टस्याऽऽत्मनोऽनुमानकर्तृकत्वे क्रियाणामनेककारकसाध्यत्वादिति हेतुश्चेत्तदा तव देहादेश्चैकैकस्याप्यनेकत्वं स्यादित्युत्तरमाह —
एवं तर्हीति ।
तदेव विवृणोति —
अनेकेति ।
आत्मनो देहादीनां चानुमानकारकाणां प्रत्येकमवान्तरक्रियाऽस्ति वह्न्यादिषु तथा दर्शनात्तथा चाऽऽत्मनोऽवान्तरक्रिया किमनेककारकसाध्या किंवा न ? आद्येप्यात्मातिरिक्तानेककारकसाध्या किंवा तदनतिरिक्ततत्साध्या वा ? नाऽऽद्योऽनवस्थानात् । द्वितीये त्वात्मनोऽनेकत्वापत्तेर्नैरात्म्यं स्यान्न चावान्तरक्रिया नानेककारकसाध्या प्रधानक्रियायामपि तथात्वप्रसंगात् । एतेन देहादिष्वपि कारकत्वं प्रत्युक्तमिति भावः ।
यत्त्वात्माऽऽत्मप्रतियोगिकभेदवान्वस्तु वाद्घटवदिति, तत्राऽऽत्मा प्रतिपन्नोऽप्रतिपन्नो वेति विकल्प्य द्वितीयं प्रत्याह —
यो हीति ।
प्रतिपन्नत्वपक्षेऽपि भेदेनाभेदेन वा तत्प्रतिपत्तिरुभयथाऽपि नानुमानप्रवृत्तिरित्याह —
तत्रेति ।
इतश्चाऽऽत्मभेदानुमानानुत्थानमित्याह —
केनेति ।
किंशब्दस्याऽऽक्षेपार्थत्वं स्फुटयति —
न हीति ।
जन्मादीनां प्रतिनियमादिलिङ्गवशादात्मभेदः सेत्स्यति चेन्नेत्याह —
यानीति ।
आत्मनः सजातीयभेदे लिङ्गाभावं दृष्टान्तेन साधयति —
यदेति ।
किञ्चौपाधिको वा स्वाभाविको वाऽत्मभेदः साध्यते ? नाऽऽद्यः सिद्धसाध्यत्वादित्यभिप्रात्याह —
नहीति ।
न द्वितीय इत्याह —
स्वतस्त्विति ।
आत्मा द्रव्यत्वातिरिक्तापरजातीयोऽश्रावणविशेषगुणवत्त्वाद्घटवदित्यनुमानान्तरमाशङ्क्यान्यतरासिद्धिं दर्शयति —
यद्यदिति ।
ताभ्यामात्मनोऽन्यत्वाभ्युपगमे मानमुपन्यस्यति —
आकाश इति ।
तत्रैवोपपत्तिमाह —
उत्पत्तीति ।
अनुमानाविरोधमुपसंहरति —
अत इति ।
आगमविरोधमुक्तन्यायातिदेशेन निराकरोति —
एतेनेति ।
औपाधिकभेदाश्रयत्वेन व्यवहारस्योपपन्नत्वोपदर्शनेनेति यावत् ।
प्रत्यक्षानुमानागमैरद्वैतस्याविरोधेऽपि स्याद्विरोधोऽर्थापत्त्येति चेदत आह —
यदुक्तमिति ।
उपदेशो यस्मै क्रियते यस्य चोपदेशग्रहणप्रयुक्तं फलं तयोर्ब्रह्मैकत्वे सत्युपदेशानर्थक्यमित्यनुवादार्थः ।
किं क्रियाणामनेककारकसाध्यत्वादेवं चोद्यते किंवा ब्रह्मणो नित्यमुक्तत्वादिति विकल्प्याऽऽद्यं दूषयति —
तदपीति ।
तासामनेककारकसाध्यत्वस्य प्रत्यु (पर्यु)दस्तत्वादिति भावः ।
यदि ब्रह्मणो नित्यमुक्तत्वाभिप्रायेणोपदेशानर्थक्यं चोद्यते तत्र नित्यमुक्ते ब्रह्मणि ज्ञातेऽज्ञाते वा तदानर्थक्यं चोद्यत इति विकल्प्याऽऽद्यमङ्गीकरोति —
एकस्मिन्निति ।
द्वतीयमुत्थापयति —
अथेति ।
उपदेशस्तावदनेकेषां कारकाणां साध्यतया विषयस्तदानर्थक्यमज्ञाते नित्यमुक्ते ब्रह्मणि चोद्यते चेदित्यर्थः ।
सर्वैरात्मवादिभिरुपदेशस्य ज्ञानार्थमिष्टत्वात्तद्विरोधादज्ञाते ब्रह्मणि तदानर्थक्यचोद्यमनुपपन्नमित्याह —
न स्वत इति ।
अद्वैते विरोधान्तराभावेऽपि तार्किकसमयविरोधोऽस्तीत्याशङ्क्याऽऽह —
तस्मादिति ।
प्रमाणविरोधाभावस्तच्छब्दार्थः । आर्यमर्यादां भिन्दानाश्चाटा विवक्ष्यन्ते । भटास्तु सेवका मिथ्याभाषिणस्तेषां सर्वेषां राजानस्तार्किकास्तैरप्रवेश्यमानाक्रमणीयमिदं ब्रह्मात्मैकत्वमिति यावत् ।
शास्त्रादिप्रसादशून्यैरागम्यत्वे प्रमाणमाह —
कस्तमिति ।
देवतादेर्वरप्रसादेन लभ्यमित्यत्र श्रुतिस्मृतिवादाः सन्ति तेभ्यश्च शास्त्रादिप्रसादहीनैरलभ्यं तत्त्वमिति निश्चितमित्यर्थः ।
शास्त्रादिप्रसादवतामेव तत्त्वं सुगममित्यत्र श्रौतं स्मार्तञ्च लिङ्गान्तरं दर्शयति —
तदेजतीति ।
ब्रह्मणोऽद्वितीयत्वे सर्वप्रकारविरोधाभावे फलितमाह —
तस्मादिति ।
संसारिणो ब्रह्मणोऽर्थान्तरत्वाभावे श्रुतीनामानुकूल्यं दर्शयति —
तस्मादिति ।
अद्वैते श्रुतिसिद्धे विचारनिष्पन्नमर्थमुपसंहरति —
तस्मात्परस्येति ॥२०॥