बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
‘ब्रह्म ज्ञपयिष्यामि’ (बृ. उ. २ । १ । १५) इति प्रस्तुतम् ; तत्र यतो जगज्जातम् , यन्मयम् , यस्मिंश्च लीयते, तदेकं ब्रह्म — इति ज्ञापितम् । किमात्मकं पुनः तज्जगत् जायते, लीयते च ? पञ्चभूतात्मकम् ; भूतानि च नामरूपात्मकानि ; नामरूपे सत्यमिति ह्युक्तम् ; तस्य सत्यस्य पञ्चभूतात्मकस्य सत्यं ब्रह्म । कथं पुनः भूतानि सत्यमिति मूर्तामूर्तब्राह्मणम् । मूर्तामूर्तभूतात्मकत्वात् कार्यकरणात्मकानि भूतानि प्राणा अपि सत्यम् । तेषां कार्यकरणात्मकानां भूतानां सत्यत्वनिर्दिधारयिषया ब्राह्मणद्वयमारभ्यते सैव उपनिषद्व्याख्या । कार्यकरणसत्यत्वावधारणद्वारेण हि सत्यस्य सत्यं ब्रह्म अवधार्यते । अत्रोक्तम् ‘प्राणा वै सत्यं तेषामेष सत्यम्’ (बृ. उ. २ । १ । २०) इति ; तत्र के प्राणाः, कियत्यो वा प्राणविषया उपनिषदः का इति च — ब्रह्मोपनिषत्प्रसङ्गेन करणानां प्राणानां स्वरूपमवधारयति — पथिगतकूपारामाद्यवधारणवत् ॥

वृत्तवर्तिष्यमाणयोः संगतिं वक्तुं वृत्तं कीर्तयति —

ब्रह्मेति ।

ब्रह्म ते ब्रवाणीति प्रक्रम्य व्येव त्वा ज्ञापयिष्यामीति प्रतिज्ञाय जगतो जन्मादयो यतस्तदद्वितीयं ब्रह्मेति व्याख्यातमित्यर्थः ।

जन्मादिविषयस्य जगतः स्वरूपं पृच्छति —

किमात्मकमिति ।

विप्रतिपत्तिनिरासार्थं तत्स्वरूपमाह —

पञ्चेति ।

कथं तर्हि नामरूपकर्मात्मकं जगदित्युक्तं तत्राऽऽह —

भूतानिति ।

तत्र गमकमाह —

नामरूपे इति ।

भूतानां सत्यत्वे कथं ब्रह्मणः सत्यत्ववाचोयुक्तिरित्याशङ्क्याऽऽह —

तस्येति ।

तत्सत्यमित्यवधारणाद्बाध्येषु भूतेषु सत्यत्वासिद्धिरिति शङ्कयित्वा समाधत्ते —

कथमित्यादिना ।

सच्च त्यच्च सत्यमिति व्युत्पत्त्या भूतानि सत्यशब्दवाच्यानि विवक्ष्यन्ते चेत्कथं तर्हि कार्यकारणसंघातस्य प्राणानां च सत्यत्वमुक्तं तत्राऽऽह —

मूर्तेति ।

यथोक्तभूतस्वरूपत्वात्कार्यकरणानां तदात्मकानि भूतानि सत्यानीत्यङ्गीकारात्कार्यकरणानां सत्यत्वं प्राणा अपि तदात्मकाः सत्यशब्दवाच्या भवन्तीति प्राणा वै सत्यमित्यविरुद्धमित्यर्थः ।

एवं पातनिकां कृत्वोत्तरब्राह्मणद्वयस्य विषयमाह —

तेषामिति ।

उपनिषद्व्याख्यानाय ब्राह्मणद्वयमित्युक्तिविरुद्धमेतदित्याशङ्क्याऽऽह —

सैवेति ।

कार्यकरणात्मकानां भूतानां स्वरूपनिर्धारणैवोपनिषद्व्याख्येत्यत्र हेतुमाह —

कार्येति ।

ब्राह्मणद्वयमेवमवतार्य शिशुब्राह्मणस्यावान्तरसंगतिमाह —

अत्रेत्यादिना ।

उपनिषदः काः, कियत्यो वेत्युपसंख्यातव्यमित्याकाङ्क्षायामिति शेषः ।

ब्रह्म चेदवधारयितुमिष्टं तर्हि तदेवावधार्यतां किमिति मध्ये करणस्वरूपमवधार्यते तत्राऽऽह —

पथीति ।