बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि । अयं वाव शिशुर्योऽयं मध्यमः प्राणस्तस्येदमेवाधानमिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ १ ॥
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद, तस्येदं फलम् ; किं तत् ? सप्त सप्तसङ्ख्याकान् ह द्विषतः द्वेषकर्तॄन् भ्रातृव्यान् भ्रातृव्या हि द्विविधा भवन्ति, द्विषन्तः अद्विषन्तश्च — तत्र द्विषन्तो ये भ्रातृव्याः तान् द्विषतो भ्रातृव्यान् अवरुणद्धि ; सप्त ये शीर्षण्याः प्राणा विषयोपलब्धिद्वाराणि तत्प्रभवा विषयरागाः सहजत्वात् भ्रातृव्याः । ते हि अस्य स्वात्मस्थां दृष्टिं विषयविषयां कुर्वन्ति ; तेन ते द्वेष्टारो भ्रातृव्याः, प्रत्यगात्मेक्षणप्रतिषेधकरत्वात् ; काठके चोक्तम् — ‘पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्’ (क. उ. २ । १ । १) इत्यादि ; तत्र यः शिश्वादीन्वेद, तेषां याथात्म्यमवधारयति, स एतान् भ्रातृव्यान् अवरुणद्धि अपावृणोति विनाशयति । तस्मै फलश्रवणेनाभिमुखीभूतायाह — अयं वाव शिशुः । कोऽसौ ? योऽयं मध्यमः प्राणः, शरीरमध्ये यः प्राणो लिङ्गात्मा, यः पञ्चधा शरीरमाविष्टः — बृहन्पाण्डरवासः सोम राजन्नित्युक्तः, यस्मिन् वाङ्मनःप्रभृतीनि करणानि विषक्तानि — पड्वीशशङ्कुनिदर्शनात् स एष शिशुरिव, विषयेष्वितरकरणवदपटुत्वात् ; शिशुं साधानमित्युक्तम् ; किं पुनस्तस्य शिशोः वत्सस्थानीयस्य करणात्मन आधानम् तस्य इदमेव शरीरम् आधानं कार्यात्मकम् — आधीयतेऽस्मिन्नित्याधानम् ; तस्य हि शिशोः प्राणस्य इदं शरीरमधिष्ठानम् ; अस्मिन्हि करणान्यधिष्ठितानि लब्धात्मकानि उपलब्धिद्वाराणि भवन्ति, न तु प्राणमात्रे विषक्तानि ; तथा हि दर्शितमजातशत्रुणा — उपसंहृतेषु करणेषु विज्ञानमयो नोपलभ्यते, शरीरदेशव्यूढेषु तु करणेषु विज्ञानमय उपलभमान उपलभ्यते — तच्च दर्शितं पाणिपेषप्रतिबोधनेन । इदं प्रत्याधानं शिरः ; प्रदेशविशेषेषु — प्रति — प्रत्याधीयत इति प्रत्याधानम् । प्राणः स्थूणा अन्नपानजनिता शक्तिः — प्राणो बलमिति पर्यायः ; बलावष्टम्भो हि प्राणः अस्मिन् शरीरे — ‘स यत्रायमात्माबल्यं न्येत्य सम्मोहमिव’ (बृ. उ. ४ । ४ । १) इति दर्शनात् — यथा वत्सः स्थूणावष्टम्भः एवम् । शरीरपक्षपाती वायुः प्राणः स्थूणेति केचित् । अन्नं दाम — अन्नं हि भुक्तं त्रेधा परिणमते ; यः स्थूलः परिणामः, स एतद्द्वयं भूत्वा, इमामप्येति — मूत्रं च पुरीषं च ; यो मध्यमो रसः, स रसो लोहितादिक्रमेण स्वकार्यं शरीरं साप्तधातुकमुपचिनोति ; स्वयोन्यन्नागमे हि शरीरमुपचीयते, अन्नमयत्वात् ; विपर्ययेऽपक्षीयते पतति ; यस्तु अणिष्ठो रसः — अमृतम् ऊर्क् प्रभावः — इति च कथ्यते, स नाभेरूर्ध्वं हृदयदेशमागत्य, हृदयाद्विप्रसृतेषु द्वासप्ततिनाडीसहस्रेष्वनुप्रविश्य, यत्तत् करणसङ्घातरूपं लिङ्गं शिशुसंज्ञकम् , तस्य शरीरे स्थितिकारणं भवति बलमुपजनयत् स्थूणाख्यम् ; तेन अन्नम् उभयतः पाशवत्सदामवत् प्राणशरीरयोर्निबन्धनं भवति ॥

ब्राह्मणतात्पर्यमुक्त्वा तदक्षराणि योजयति —

यो हेत्यादिना ।

विशेषणस्यार्थवत्त्वार्थं भ्रातृव्यान्भिनत्ति —

भ्रातृव्या हीति ।

के पुनरत्र भ्रातृव्या विवक्ष्यन्ते तत्राऽऽह —

सप्तेति ।

कथं श्रोत्रादीनां सप्तत्वं द्वारभेदादित्याह —

विषयेति ।

कथं तेषां भ्रातृव्यत्वमित्याश्ङ्क्य विषयाभिलाषद्वारेणेत्याह —

तत्प्रभावा इति ।

तथाऽपि कथं तेषां द्वेष्टृत्वमत आह —

ते हीति ।

अथेन्द्रियाणि विषयविषयां दृष्टिं कुर्वन्त्येवाऽऽत्मविषयामपि तां करिष्यन्ति तन्न यथोक्तभ्रातृव्यत्वं तेषामिति तत्राऽऽह —

प्रत्यगिति ।

इन्द्रियाणि विषयप्रवणानि तत्रैव दृष्टिहेतवो न प्रत्यगात्मनीत्यत्र प्रमाणमाह —

काठके चेति ।

फलोक्तिमुपसंहरति —

तत्रेति ।

उक्तविशेषणेषु भ्रातृव्येषु सिद्धेष्विति यावत् ।

प्राणे वागादीनां विषक्तत्वे हेतुमाह —

पड्वीशेति ।

यथा जात्यो हयश्चतुरोऽपि पादबन्धनकीलान्पर्यायेणोत्पाट्योत्क्रामति तथा प्राणो वागादीनीति निदर्शनवशात्प्राणे विषक्तानि वागादीनि सिद्धानीत्यर्थः शरीरस्य प्राणं प्रत्याधानत्वं साधयति —

तस्य हीति ।

शरीरस्याधिष्ठानत्वं स्फुटयति —

अस्मिन्हीति ।

प्राणमात्रे विषक्तानि करणानि नोपलब्धिद्वाराणीत्यत्र प्रमाणमाह —

तथा हीति ।

देहाधिष्ठाने प्राणे विषक्तानि तान्युपलब्धिद्वाराणीत्यत्रानुभवमनुकूलयति —

शरीरेति ।

तत्रैवाजातशत्रुब्राह्मणसंवादं दर्शयति —

तच्चेति ।

शरीराश्रिते प्राणे वागादिषु विषक्तेषूपलब्धिरुपलभ्यमानत्वमिति यावत् ।

प्रत्याधानत्वं शिरसो व्युत्पादयति —

प्रदेशेति ।

बलपर्यायस्य प्राणस्य स्थूणात्वं समर्थयते —

बलेति ।

अयं मुमूर्षुरात्मा यस्मिन्काले देहमबलभावं नीत्वा सम्मोहमिव प्रतिपद्यते तदोत्क्रामतीति षष्ठे दर्शनादिति यावत् ।

बलावष्टम्भोऽस्मिन्देहे प्राण इत्यत्र दृष्टान्तमाह —

यथेति ।

भर्तृप्रपञ्चपक्षं दर्शयति —

शरीरेति ।

उक्तं हि प्राण इत्युच्छ्वासनिःश्वासकर्मा वायुः शारीरः शरीरपक्षपाती गृह्यते । एतस्यां स्थूणायां शिशुः प्राणः करणदेवता लिङ्गपक्षपाती गृह्यते । स देवः प्राण एतस्मिन्बाह्ये प्राणे बद्ध इति ।

तद्व्याख्यातुं भूमिकां करोति —

अन्नं हीति ।

त्वगसृङ्मांसमेदोमज्जास्थिशुक्रेभ्यः सप्तभ्यो धातुभ्यो जातं साप्तधातुकम् ।

तथाऽपि कथमन्नस्य दामत्वं तदाह —

तेनेति ॥१॥