बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षन्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनका तयादित्यो यत्कृष्णं तेनाग्निर्यच्छुक्लं तेनेन्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया नास्यान्नं क्षीयते य एवं वेद ॥ २ ॥
इदानीं तस्यैव शिशोः प्रत्याधान ऊढस्य चक्षुषि काश्चनोपनिषद उच्यन्ते —

यो हि शिशुमित्यादौ सूत्रितशिश्वादिपदार्थान्व्याख्यायानन्तरसन्दर्भस्य तात्पर्यं दर्शयन्नुत्तरवाक्यमुपादाय व्याकरोति —

इदानीमित्यादिना ।

तनु यत्र मन्त्रेणोपस्थानं क्रियते तत्रैवोपपूर्वस्य तिष्ठतेरात्मनेपदं भवति । उक्तं हि – ‘उपान्मन्त्रकरणे’ (पा.सू.१।३।२५) इति । दृश्यते चाऽऽदित्यं गायत्र्योपतिष्ठत इति ।