बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षन्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनका तयादित्यो यत्कृष्णं तेनाग्निर्यच्छुक्लं तेनेन्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया नास्यान्नं क्षीयते य एवं वेद ॥ २ ॥
तमेताः सप्ताक्षितय उपतिष्ठन्ते — तं करणात्मकं प्राणं शरीरेऽन्नबन्धनं चक्षुष्यूढम् एताः वक्ष्यमाणाः सप्त सप्तसङ्ख्याकाः अक्षितयः, अक्षितिहेतुत्वात् , उपतिष्ठन्ते । यद्यपि मन्त्रकरणे तिष्ठतिरुपपूर्वः आत्मनेपदी भवति, इहापि सप्त देवताभिधानानि मन्त्रस्थानीयानि करणानि ; तिष्ठतेः अतः अत्रापि आत्मनेपदं न विरुद्धम् । कास्ता अक्षितय इत्युच्यन्ते — तत् तत्र या इमाः प्रसिद्धाः, अक्षन् अक्षणि लोहिन्यः लोहिताः राजयः रेखाः, ताभिः द्वारभूताभिः एनं मध्यमं प्राणं रुद्रः अन्वायत्तः अनुगतः ; अथ याः अक्षन् अक्षणि आपः धूमादिसंयोगेनाभिव्यज्यमानाः, ताभिः अद्भिर्द्वारभूताभिः पर्जन्यो देवतात्मा अन्वायत्तः अनुगत उपतिष्ठत इत्यर्थः । स च अन्नभूतोऽक्षितिः प्राणस्य, ‘पर्जन्ये वर्षत्यानन्दिनः प्राणा भवन्ति’ (प्र. उ. २ । १०) इति श्रुत्यन्तरात् । या कनीनका दृक्शक्तिः तया कनीनकया द्वारेण आदित्यो मध्यमं प्राणमुपतिष्ठते । यत्कृष्णं चक्षुषि, तेन एनमग्निरुपतिष्ठते । यच्छुक्लं चक्षुषि, तेन इन्द्रः । अधरया वर्तन्या पक्ष्मणा एनं पृथिवी अन्वायत्ता, अधरत्वसामान्यात् । द्यौः उत्तरया, ऊर्ध्वत्वसामान्यात् । एताः सप्त अन्नभूताः प्राणस्य सन्ततमुपतिष्ठन्ते — इत्येवं यो वेद, तस्यैतत्फलम् — नास्यान्नं क्षीयते, य एवं वेद ॥

न चात्र मन्त्रेण किञ्चित्क्रियते किन्त्वन्नाक्षयहेतुत्वात्प्राणस्य सप्ताक्षितय इत्युपनिषदो विवक्ष्यन्ते तत्राऽऽह —

यद्यपीति ।

मन्त्रेण कस्यचिदनुष्ठानस्य करणे विवक्षिते तिष्ठतिरुपपूर्वो यद्यप्यात्मनेपदी भवति तथाऽऽप्यत्र सप्त रुद्रादिदेवतानामानि मन्त्रवदवस्थितानि तैश्च करणान्युपासनानुष्ठानान्यत्र क्रियन्ते । अतस्तिष्ठतेरुपपूर्वस्याऽऽत्मनेपदविरुद्धमिति योजना । लोहितरेखाभी रुद्रस्य प्राणं प्रत्यनुगतेरनन्तरमित्यथशब्दार्थः ।

पर्जन्यस्यान्नद्वारा प्राणाक्षयहेतुत्वे प्रमाणमाह —

पर्जन्य इति ।

कथं पुनरेतेषां प्राणं प्रत्यक्षितव्यं सर्वेषां सिध्यति तत्राऽऽह —

एता इति ।

संप्रत्युपास्तिफलमाह —

इत्येवमिति ॥२॥