बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेष श्लोको भवति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपम् । तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपमिति प्राणा वै यशो विश्वरूपं प्राणानेतदाह तस्यासत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणानेतदाह वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ ३ ॥
तत् तत्र एतस्मिन्नर्थे एष श्लोकः मन्त्रो भवति — अर्वाग्बिलश्चमस इत्यादिः । तत्र मन्त्रार्थमाचष्टे श्रुतिः — अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति । कः पुनरसावर्वाग्बिलश्चमस ऊर्ध्वबुध्नः ? इदं तत् ; शिरः चमसाकारं हि तत् ; कथम् ? एष हि अर्वाग्बिलः मुखस्य बिलरूपत्वात् , शिरसो बुध्नाकारत्वात् ऊर्ध्वबुध्नः । तस्मिन् यशो निहितं विश्वरूपमिति — यथा सोमः चमसे, एवं तस्मिन् शिरसि विश्वरूपं नानारूपं निहितं स्थितं भवति । किं पुनस्तत् ? यशः — प्राणा वै यशो विश्वरूपम् — प्राणाः श्रोत्रादयः वायवश्च मरुतः सप्तधा तेषु प्रसृताः यशः — इत्येतदाह मन्त्रः, शब्दादिज्ञानहेतुत्वात् । तस्यासत ऋषयः सप्त तीर इति — प्राणाः परिस्पन्दात्मकाः, त एव च ऋषयः, प्राणानेतदाह मन्त्रः । वागष्टमी ब्रह्मणा संविदानेति — ब्रह्मणा संवादं कुर्वन्ती अष्टमी भवति ; तद्धेतुमाह — वाग्घ्यष्टमी ब्रह्मणा संवित्त इति ॥

रुद्रादिशब्दानां देवताविषयत्वान्मन्त्रस्यापि तद्विषयतेत्याशङ्क्य चक्षुषि रुद्रादिगणस्योक्तत्वादिन्द्रियसंबन्धात्तस्य करणग्रामत्वप्रतीतेस्तद्विषयः श्लोको न प्रसिद्धदेवताविषय इत्यभिप्रेत्याह —

तत्तत्रेति ।

मन्त्रस्य व्याख्यानसापेक्षत्वं तत्रोच्युते ।

शिरश्चमसाकारत्वमस्पष्टमित्याशङ्क्य समाधत्ते —

कथमित्यादिना ।

वागष्टमीत्युक्तं तस्याः सप्तमत्वेनोक्तत्वान्न चैकस्या द्वित्वमित्याशङ्क्याऽऽह —

ब्रह्मणेति ।

शब्दराशिर्ब्रह्म तेन संवादः संसर्गस्तं गच्छन्ती शब्दरीशिमुच्चारयन्ती वागष्टमी स्यादिति यावत् ।

तथाऽपि सप्तमत्वं विहाय कथमष्टमत्वं तत्राऽऽह —

तद्धेतुमिति ।

वक्तृत्वात्तृत्वभेदेन द्विधा वागिष्टा । तत्र वक्तृत्वेनाष्टमी सप्तमी चात्तृत्वेनेत्यविरोधः रसना तूपलब्धिहेतुरिति भावः ॥३॥