बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
इमावेव गोतमभरद्वाजावयमेव गोतमोऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवं वेद ॥ ४ ॥
के पुनस्तस्य चमसस्य तीर आसत ऋषय इति — इमावेव गोतमभरद्वाजौ कर्णौ — अयमेव गोतमः अयं भरद्वाजः दक्षिणश्च उत्तरश्च, विपर्ययेण वा । तथा चक्षुषी उपदिशन्नुवाच — इमावेव विश्वामित्रजमदग्नी दक्षिणं विश्वामित्रः उत्तरं जमदग्निः, विपर्ययेण वा । इमावेव वसिष्ठकश्यपौ — नासिके उपदिशन्नुवाच ; दक्षिणः पुटो भवति वसिष्ठः ; उत्तरः कश्यपः — पूर्ववत् । वागेव अत्रिः अदनक्रियायोगात् सप्तमः ; वाचा ह्यन्नमद्यते ; तस्मादत्तिर्हि वै प्रसिद्धं नामैतत् — अत्तृत्वादत्तिरिति, अत्तिरेव सन् यदत्रिरित्युच्यते परोक्षेण । सर्वस्य एतस्यान्नजातस्य प्राणस्य, अत्रिनिर्वचनविज्ञानादत्ता भवति । अत्तैव भवति नामुष्मिन्नन्येन पुनः प्रत्यद्यते इत्येतदुक्तं भवति — सर्वमस्यान्नं भवतीति । य एवम् एतत् यथोक्तं प्राणयाथात्म्यं वेद, स एवं मध्यमः प्राणो भूत्वा आधानप्रत्याधानगतो भोक्तैव भवति, न भोज्यम् ; भोज्याद्व्यावर्तत इत्यर्थः ॥

विपर्ययेण वेत्येतत्पूर्ववदित्युच्यते । अत्रिः सप्तम इति संबन्धः । अत्रित्वे हेतुरदनक्रियायोगादिति । हेतुं साधयति —

वाचा हीति ।

साध्यमर्थं निगमयति —

तस्मादिति ।

तर्हि कथमत्रिरिति व्यपदेश्यतेऽत आह —

अत्तिरेवेति ।

प्राणस्य यदन्नजातमेतस्य सर्वस्यात्ता भवत्यत्रिनिर्वचनविज्ञानादिति संबन्धः ।

सर्वमस्येत्यादिवाक्यमर्थोक्तिपूर्वकं प्रकटयति —

अत्तैवेति ।

न केवलमत्रिनिर्वचनविज्ञानकृतमेतत्फलं किन्तु प्राणयाथात्म्यवेदनप्रयुक्तमित्याह —

य एवमिति ॥४॥