बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यच्च ॥ १ ॥
तत्र प्राणा वै सत्यमित्युक्तम् । याः प्राणानामुपनिषदः, ताः ब्रह्मोपनिषत्प्रसङ्गेन व्याख्याताः — एते ते प्राणा इति च । ते किमात्मकाः कथं वा तेषां सत्यत्वमिति च वक्तव्यमिति पञ्चभूतानां सत्यानां कार्यकरणात्मकानां स्वरूपावधारणार्थम् इदं ब्राह्मणमारभ्यते — यदुपाधिविशेषापनयद्वारेण ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति ब्रह्मणः सतत्त्वं निर्दिधारयिषितम् । तत्र द्विरूपं ब्रह्म पञ्चभूतजनितकार्यकरणसम्बद्धं मूर्तामूर्ताख्यं मर्त्यामृतस्वभावं तज्जनितवासनारूपं च सर्वज्ञं सर्वशक्ति सोपाख्यं भवति । क्रियाकारकफलात्मकं च सर्वव्यवहारास्पदम् । तदेव ब्रह्म विगतसर्वोपाधिविशेषं सम्यग्दर्शनविषयम् अजरम् अमृतम् अभयम् , वाङ्मनसयोरप्यविषयम् अद्वैतत्वात् ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति निर्दिश्यते । तत्र यदपोहद्वारेण ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति निर्दिश्यते ब्रह्म, ते एते द्वे वाव — वावशब्दोऽवधारणार्थः — द्वे एवेत्यर्थः — ब्रह्मणः परमात्मनः रूपे — रूप्यते याभ्याम् अरूपं परं ब्रह्म अविद्याध्यारोप्यमाणाभ्याम् । के ते द्वे ? मूर्तं चैव मूर्तमेव च ; तथा अमूर्तं च अमूर्तमेव चेत्यर्थः । अन्तर्णीतस्वात्मविशेषणे मूर्तामूर्ते द्वे एवेत्यवधार्येते ; कानि पुनस्तानि विशेषणानि मूर्तामूर्तयोरित्युच्यन्ते — मर्त्यं च मर्त्यं मरणधर्मि, अमृतं च तद्विपरीतम् , स्थितं च — परिच्छिन्नं गतिपूर्वकं यत्स्थास्नु, यच्च — यातीति यत् — व्यापि अपरिच्छिन्नं स्थितविपरीतम् , सच्च — सदित्यन्येभ्यो विशेष्यमाणासाधारणधर्मविशेषवत् , त्यच्च — तद्विपरीतम् ‘त्यत्’ इत्येव सर्वदा परोक्षाभिधानार्हम् ॥

संबन्धं वक्तुं वृत्तं कीर्तयति —

तत्रेति ।

अजातशत्रुब्राह्मणावसानं सप्तम्यर्थः । उपनिषदो रुद्याद्यभिदानानि । चकारादुक्तमित्यनुषङ्गः ।

उत्तरब्राह्मणतात्पर्यमाह —

ते किमात्मका इति ।

ब्रह्मणो निर्धारणीयत्वात्किमिति भूतानां सतत्त्वं निर्धार्यते तत्राऽऽह —

यदुपाधीति ।

तेषामुपाधिभूतानां स्वरूपावधारणार्थं ब्राह्मणमिति संबन्धः । सत्यस्य सत्यमित्यत्र षष्ट्यन्तसत्यशब्दितं हेयं प्रथमान्तसत्यशब्दितमुपादेयं तयोराद्यस्वरूपोक्त्यर्थमथेत्यतः प्राक्तनं वाक्यं तदूर्ध्वमाब्राह्मणसमाप्तेरादेयनिरूपणार्थमिति समुदायार्थः ।

सविशेषमेव ब्रह्म न निर्विशेषमिति केचित्तान्निराकर्तुं विभजते —

तत्रेति ।

ब्राह्मणार्थे पूर्वोक्तरीत्या स्थिते सतीति यावत् ।

‘द्वे वाव’ इत्यादिश्रुतेः सोपाधिकं ब्रह्मरूपं विवृणोति —

पञ्चभूतेति ।

शब्दप्रत्ययविषयत्वं सोपाख्यत्वम् ।

निरुपाधिकं ब्रह्मरूपं दर्शयति —

तदेवेति ।

एवं भूमिकामारचय्याक्षराणि व्याकरोति —

तत्रेत्यादिना ।

द्वैरूप्ये सतीति यावत् । अमूर्तं चेत्यत्र चकारादेवकारानुषक्तिः ।

विवक्षितब्रह्मणो रूपद्वयमवधारितं चेन्मर्त्यत्वादीनि वक्ष्यमाणविशेषणान्यवधारणविरोधादयुक्तानीत्याशङ्काऽऽह —

अन्तर्णीतेति ।

मूर्तामूर्तयोरन्तर्भावितानि स्वात्मनि यानि विशेषणानि तान्याकाङ्क्षाद्वारा दर्शयति —

कानि पुनरित्यादिना ।

यद्गतिपूर्वकं स्थास्नु तत्परिच्छिषं स्थितमिति योजना । विशेष्यमाणत्वं प्रत्यक्षेणोपलभ्यमानत्वम् ॥१॥