बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ २ ॥
तत्र चतुष्टयविशेषणविशिष्टं मूर्तम् , तथा अमूर्तं च ; तत्र कानि मूर्तविशेषणानि कानि चेतराणीति विभज्यते । तदेतन्मूर्तं मूर्छितावयवम् इतरेतरानुप्रविष्टावयवं घनं संहतमित्यर्थः । किं तत् ? यदन्यत् ; कस्मादन्यत् ? वायोश्चान्तरिक्षाच्च भूतद्वयात् — परिशेषात्पृथिव्यादिभूतत्रयम् ; एतन्मर्त्यम् — यदेतन्मूर्ताख्यं भूतत्रयम् इदं मर्त्यं मरणधर्मि ; कस्मात् ? यस्मात्स्थितमेतत् ; परिच्छिन्नं ह्यर्थान्तरेण सम्प्रयुज्यमानं विरुध्यते — यथा घटः स्तम्भकुड्यादिना ; तथा मूर्तं स्थितं परिच्छिन्नम् अर्थान्तरसम्बन्धि ततोऽर्थान्तरविरोधान्मर्त्यम् ; एतत्सत् विशेष्यमाणासाधारणधर्मवत् , तस्माद्धि परिच्छिन्नम् , परिच्छिन्नत्वान्मर्त्यम् , अतो मूर्तम् ; मूर्तत्वाद्वा मर्त्यम् , मर्त्यत्वात्स्थितम् , स्थितत्वात्सत् । अतः अन्योन्याव्यभिचारात् चतुर्णां धर्माणां यथेष्टं विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च दर्शयितव्यः । सर्वथापि तु भूतत्रयं चतुष्टयविशेषणविशिष्टं मूर्तं रूपं ब्रह्मणः । तत्र चतुर्णामेकस्मिन्गृहीते विशेषणे इतरद्गृहीतमेव विशेषणमित्याह — तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थितस्य, एतस्य सतः — चतुष्टयविशेषणस्य भूतत्रयस्येत्यर्थः — एष रसः सार इत्यर्थः ; त्रयाणां हि भूतानां सारिष्ठः सविता ; एतत्साराणि त्रीणि भूतानि, यत एतत्कृतविभज्यमानरूपविशेषणानि भवन्ति ; आधिदैविकस्य कार्यस्यैतद्रूपम् — यत्सविता यदेतन्मण्डलं तपति ; सतो भूतत्रयस्य हि यस्मात् एष रस इति एतद्गृह्यते ; मूर्तो ह्येष सविता तपति, सारिष्ठश्च । यत्तु आधिदैविकं करणं मण्डलस्याभ्यन्तरम् , तद्वक्ष्यामः ॥

तत्रेति निर्धारणार्था सप्तमी । तत्र प्रत्येकं मूर्तामूर्तचतुष्टयविशेषणत्वे सतीति यावत् । कथं स्थितत्वे मर्त्यत्वं तत्राऽऽह —

परिच्छिन्नं हीति ।

तदेव दृष्टान्तेन स्पष्टयति —

यथेत्यादिना ।

अतो मर्त्यत्वान्मूर्तत्वमिति शेषः । मूर्तत्वमर्त्यत्वयोरन्योन्यहेतुहेतुमद्भावं द्योतयितुं वाशब्दः ।

कथं पुनश्चतुर्षु धर्मेषु विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च निश्चेतव्यस्तत्राऽऽह —

अन्योन्येति ।

रूपरूपिभावस्यापि व्यवस्थाभावमाशङ्क्याऽऽह —

सर्वथाऽपीति ।

तस्यैतस्यैष रस इत्येव वक्तव्ये किमिति मूर्तस्येत्यादिना विशेषणचतुष्टयमनूद्यते तत्राऽऽह —

तत्रेति ।

सारत्वं साधयति —

त्रयाणां हीति ।

तत्र प्रतिज्ञामनूद्य हेतुमाह —

एतदिति ।

एतेन सवितृमण्डलेन कृतानि विभज्यमानान्यसंकीर्णानि शुक्लं कृष्णं लोहितमित्येतानि रूपाणि विशेषणानि येषां पृथिव्यप्तेजसां तानि तथा ततो भूतत्रयकार्यमध्ये सवितृमण्डलस्य प्राधान्यमित्यर्थः ।

य एष तपतीत्यस्यार्थमाह —

आधिदैविकस्येति ।

हेतुवाक्यमादाय तस्य तात्पर्यमाह —

सत इति ।

मण्डलमेवैतच्छब्दार्थः ।

मण्डलपरिग्रहे हेतुमाह —

मूर्तो हीति ।

मूर्तग्रहणस्योपलक्षणत्वाच्चतुर्णामन्वयो हेत्वर्थः ।

अतश्च मण्डलात्मा सविता भूतत्रयकार्यमध्ये भवति प्रधानं कार्यकारणयोरैकरूप्यस्यौत्सर्गिकत्वादित्याह —

सारिष्ठश्चेति ।

मण्डलं चेदाधिदैविकं कार्यं किं पुनस्तथाविधं करणमिति तदाह —

यत्त्विति ॥२॥