बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इत्यधिदैवतम् ॥ ३ ॥
अथामूर्तम् — अथाधुना अमूर्तमुच्यते । वायुश्चान्तरिक्षं च यत्परिशेषितं भूतद्वयम् — एतत् अमृतम् , अमूर्तत्वात् , अस्थितम् , अतोऽविरुध्यमानं केनचित् , अमृतम् , अमरणधर्मि ; एतत् यत् स्थितविपरीतम् , व्यापि, अपरिच्छिन्नम् ; यस्मात् यत् एतत् अन्येभ्योऽप्रविभज्यमानविशेषम् , अतः त्यत् ‘त्यत्’ इति परोक्षाभिधानार्हमेव — पूर्ववत् । तस्यैतस्यामूर्तस्य एतस्यामृतस्य एतस्य यतः एतस्य त्यस्य चतुष्टयविशेषणस्यामूर्तस्य एष रसः ; कोऽसौ ? य एष एतस्मिन्मण्डले पुरुषः — करणात्मको हिरण्यगर्भः प्राण इत्यभिधीयते यः, स एषः अमूर्तस्य भूतद्वयस्य रसः पूर्ववत् सारिष्ठः । एतत्पुरुषसारं चामूर्तं भूतद्वयम् — हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृतात् ; तस्मात् तादर्थ्यात् तत्सारं भूतद्वयम् । त्यस्य ह्येष रसः — यस्मात् यः मण्डलस्थः पुरुषो मण्डलवन्न गृह्यते सारश्च भूतद्वयस्य, तस्मादस्ति मण्डलस्थस्य पुरुषस्य भूतद्वयस्य च साधर्म्यम् । तस्मात् युक्तं प्रसिद्धवद्धेतूपादानम् — त्यस्य ह्येष रस इति ॥

आधिदैविकं मूर्तमभिधाय तादृगेवामूर्तं प्रतीकोपादानपूर्वकं स्फुटयति —

अथेत्यादिना ।

अमूर्तमुभयत्र हेतुत्वेन संबध्यते । अपरिच्छिन्नत्वमविरोधे हेतुः ।

अमूर्तत्वादीनां मिथो विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च यथेष्टं द्रष्टव्य इत्याऽऽह —

पूर्ववदिति ।

पुनरुक्तिरपि पूर्ववत् । य एष इत्यादि प्रतीकग्रहणं तस्य व्याख्यानं करणात्मक इत्यादि ।

यथा भूतत्रयस्य मण्डलं सारिष्ठमुक्तं तद्वदित्याह —

पूर्ववदिति ।

सारिष्ठत्वमनूद्य हेतुमाह —

एतदिति ।

तादर्थ्याद्भूतद्वयस्य भूतत्रयोपसर्जनस्य स्वयम्प्रधानस्य हिरण्यगर्भारम्भार्थत्वादिति यावत् । भूतद्वयं भूतत्रयोपसर्जनमिति शेषः ।

हेतुमवतार्य व्याचष्टे —

त्यस्य हीति ।

पुरुषशब्दादुपरिष्टात्सशब्दो द्रष्टव्यः । अमूर्तत्वादिविशेषणचतुष्टयवैशिष्ट्यं साधर्म्यम् ।

तत्फलमाह —

तस्मादिति ।