स्वमतमुक्त्वा भर्तृप्रपञ्चमतमाह —
रस इति ।
त्यस्य हीत्यादी रसशब्देन भूतद्वयकारणमुक्तं न च तच्चेतनादन्यत् । न च जीवः, तथाऽसामर्थ्यात् । नापि परः, कौटस्थ्यात् । तस्माच्चेतनः सूत्रक्षेत्रज्ञस्तथेत्यर्थः ।
सोऽपि कथं भूतद्वयकारणमत आह —
तत्रेति ।
परकीयपक्षः सप्तम्यर्थः । तत्कर्मणस्तत्रासाधाराण्यमसंप्रतिपन्नमित्यभिप्रेत्य किलेत्युक्तम् । यथाऽऽहुः – यो ह्येतस्मिन्मण्डले विज्ञानात्मैष खल्वविद्याकर्मपूर्वप्रज्ञापरिष्कृतो विज्ञानात्मत्वमापद्यते तदेतत्कर्मरूपं विज्ञानात्मनस्तद्वाय्वन्तरिक्षप्रयोक्तृ भवतीति ।
ननु हिरण्यगर्भदेहस्य पञ्चभूतात्मकत्वाद्भूतद्वयोत्पत्तावपीतरभूतोत्पत्तिं विना कुतोऽस्य भोगः सिध्यतीत्यत आह —
तत्कर्मेति ।
वाय्वन्तरिक्षाधारं तद्रूपपरिणतमिति यावत् । वाय्वन्तरिक्षयोर्भूतत्रयोपसर्जनयोरिति शेषः । प्रयोक्ता हिरण्यगर्भविज्ञानात्मा ।
निराकरोति —
तन्नेति ।
कथं मूर्तरसेन सह यथोक्तामूर्तरसस्यातुल्यतेत्याशङ्क्याऽऽह —
मूर्तस्येति ।
अमूर्तश्चासौ रसश्चेत्यमूर्तरसस्तेनेति यावत् । अमूर्तरसस्य चेतनत्वे तु रसयोर्वैजात्यं स्यादिति भावः ।
अस्तु तयोर्वैजात्यं नेत्याह —
यथाहीति ।
मूर्तं मर्त्यं स्थितं सदिति मूर्तस्य धर्मचतुष्टयममूर्तममृतं व्यापि त्यदित्यमूर्तस्य विभजनमसंकीर्णत्वेन प्रदर्शनं यथा रसवतोर्मूर्तामूर्तयोस्तुल्यत्वमुक्तं तथा रसयोरपि तयोस्तुल्येनैव प्रकारेण प्रदर्शनमुचितं नत्वमूर्तरसश्चेतनो मूर्तरसस्त्वचेतन इति युक्तो विभागोऽर्धजरतीयस्याप्रामाणिकत्वादित्याह —
तथेति ।
अर्धवैशसं परिहर्तुं शङ्कते —
मूर्तरसेऽपीति ।
अमूर्तरसवन्मूर्तरसशब्देनापि चेतनस्यैव ब्रह्मणो मण्डलापन्नस्य ग्रहणमित्येतद्दूषयति —
अत्यल्पमिति ।
मण्डलस्य चेतनकार्यतया चेतनत्वे सर्वस्य तत्कार्यतया तन्मात्रत्वाद्रसयोश्चेतनतेति विशेषणानर्थक्यमित्यर्थः ।
मण्डलाधारस्य चेतनत्वं पुरुषशब्दश्रुतिवशादेष्टव्यमिति शङ्कते —
पुरुषशब्द इति ।
अनुपपत्तिं परिहरति —
नेत्यादिना ।
तदेव व्याकरोति —
न वा इति ।
इत्थं विभक्ताः सन्तो नैव शक्ष्यामो व्यवहारं प्रजनयितुमित्यालोच्य त्वक्चक्षुःश्रोत्रजिह्वाघ्राणवाङ्मनोरूपानिमान्सप्त पुरुषानेकं पुरुषं संहतं लिङ्गं करवामेति च निश्चित्यामी प्राणाः सप्त पुरुषानुक्तानेकं पुरुषं लिङ्गात्मानं कृतवन्त इत्यर्थः । आदिशब्देन लौकिकमपि दर्शनं संगृह्यते । श्रुत्यन्तरं तैत्तिरीयकम् । पुरुषशब्दप्रयोगः स वा एष पुरुषोऽन्नरसमय इत्यादिः ।
परकीयं व्याख्यानं प्रत्याख्याय प्रकृतं श्रुतिव्याख्यानमनुवर्तयति —
इत्यधिदैवतमिति ॥३॥