चक्षुषो रसत्वं प्रतिज्ञापूर्वकं प्रकटयति —
आध्यात्मिकस्येत्यादिना ।
चक्षुषः सारत्वे शरीरावयवेषु प्राथम्यं हेत्वन्तरमाह —
प्राथम्याच्चेति ।
तत्र प्रमाणमाह —
चक्षुषी एवेति ।
संभवतो जायमानस्य जन्तोश्चक्षुषी एव प्रथमे प्रधाने संभवतो जायेते । “शश्वद्ध वै रेतसः सिक्तस्य चक्षुषी एव प्रथमे संभवत” इति हि ब्राह्मणमित्यर्थः ।
चक्षुषः सारत्वे हेत्वन्तरमाह —
तेज इति ।
शरीरमात्रस्याविशेषेण निष्पादकं तत्र सर्वत्र सन्निहितमपि तेजो विशेषतश्चक्षुषि स्थितम् । “आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्”(ऐ.उ.१-२-४) इति श्रुतेः । अतस्तेजःशब्दपर्यायरसशब्दस्य चक्षुषि प्रवृत्तिरविरुद्धेति भावः ।
इतश्च तेजःशब्दपर्यायो रसशब्दश्चक्षुषि संभवतीत्याह —
तैजसं हीति ।
प्रतिज्ञार्थमुपसंहरति —
एतत्सारमिति ।
हेतुमवतार्य तस्यार्थमाह —
सतो हीति ।
चक्षुषो मूर्तत्वान्मूर्तभूतत्रयकार्यत्वं युक्तं साधर्म्याद्देहावयवेषु प्राधान्याच्च तस्याऽऽध्यात्मिकभूतत्रयसारत्वसिद्धिरित्यर्थः ॥४॥