ब्राह्मणतात्पर्यमुक्त्वा तदक्षराणि योजयति —
यो हेत्यादिना ।
विशेषणस्यार्थवत्त्वार्थं भ्रातृव्यान्भिनत्ति —
भ्रातृव्या हीति ।
के पुनरत्र भ्रातृव्या विवक्ष्यन्ते तत्राऽऽह —
सप्तेति ।
कथं श्रोत्रादीनां सप्तत्वं द्वारभेदादित्याह —
विषयेति ।
कथं तेषां भ्रातृव्यत्वमित्याश्ङ्क्य विषयाभिलाषद्वारेणेत्याह —
तत्प्रभावा इति ।
तथाऽपि कथं तेषां द्वेष्टृत्वमत आह —
ते हीति ।
अथेन्द्रियाणि विषयविषयां दृष्टिं कुर्वन्त्येवाऽऽत्मविषयामपि तां करिष्यन्ति तन्न यथोक्तभ्रातृव्यत्वं तेषामिति तत्राऽऽह —
प्रत्यगिति ।
इन्द्रियाणि विषयप्रवणानि तत्रैव दृष्टिहेतवो न प्रत्यगात्मनीत्यत्र प्रमाणमाह —
काठके चेति ।
फलोक्तिमुपसंहरति —
तत्रेति ।
उक्तविशेषणेषु भ्रातृव्येषु सिद्धेष्विति यावत् ।
प्राणे वागादीनां विषक्तत्वे हेतुमाह —
पड्वीशेति ।
यथा जात्यो हयश्चतुरोऽपि पादबन्धनकीलान्पर्यायेणोत्पाट्योत्क्रामति तथा प्राणो वागादीनीति निदर्शनवशात्प्राणे विषक्तानि वागादीनि सिद्धानीत्यर्थः शरीरस्य प्राणं प्रत्याधानत्वं साधयति —
तस्य हीति ।
शरीरस्याधिष्ठानत्वं स्फुटयति —
अस्मिन्हीति ।
प्राणमात्रे विषक्तानि करणानि नोपलब्धिद्वाराणीत्यत्र प्रमाणमाह —
तथा हीति ।
देहाधिष्ठाने प्राणे विषक्तानि तान्युपलब्धिद्वाराणीत्यत्रानुभवमनुकूलयति —
शरीरेति ।
तत्रैवाजातशत्रुब्राह्मणसंवादं दर्शयति —
तच्चेति ।
शरीराश्रिते प्राणे वागादिषु विषक्तेषूपलब्धिरुपलभ्यमानत्वमिति यावत् ।
प्रत्याधानत्वं शिरसो व्युत्पादयति —
प्रदेशेति ।
बलपर्यायस्य प्राणस्य स्थूणात्वं समर्थयते —
बलेति ।
अयं मुमूर्षुरात्मा यस्मिन्काले देहमबलभावं नीत्वा सम्मोहमिव प्रतिपद्यते तदोत्क्रामतीति षष्ठे दर्शनादिति यावत् ।
बलावष्टम्भोऽस्मिन्देहे प्राण इत्यत्र दृष्टान्तमाह —
यथेति ।
भर्तृप्रपञ्चपक्षं दर्शयति —
शरीरेति ।
उक्तं हि प्राण इत्युच्छ्वासनिःश्वासकर्मा वायुः शारीरः शरीरपक्षपाती गृह्यते । एतस्यां स्थूणायां शिशुः प्राणः करणदेवता लिङ्गपक्षपाती गृह्यते । स देवः प्राण एतस्मिन्बाह्ये प्राणे बद्ध इति ।
तद्व्याख्यातुं भूमिकां करोति —
अन्नं हीति ।
त्वगसृङ्मांसमेदोमज्जास्थिशुक्रेभ्यः सप्तभ्यो धातुभ्यो जातं साप्तधातुकम् ।
तथाऽपि कथमन्नस्य दामत्वं तदाह —
तेनेति ॥१॥