बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥
ब्रह्मण उपाधिभूतयोर्मूर्तामूर्तयोः कार्यकरणविभागेन अध्यात्माधिदैवतयोः विभागो व्याख्यातः सत्यशब्दवाच्ययोः । अथेदानीं तस्य हैतस्य पुरुषस्य करणात्मनो लिङ्गस्य रूपं वक्ष्यामः वासनामयं मूर्तामूर्तवासनाविज्ञानमयसंयोगजनितं विचित्रं पटभित्तिचित्रवत् मायेन्द्रजालमृगतृष्णिकोपमं सर्वव्यामोहास्पदम् — एतावन्मात्रमेव आत्मेति विज्ञानवादिनो वैनाशिका यत्र भ्रान्ताः, एतदेव वासनारूपं पटरूपवत् आत्मनो द्रव्यस्य गुण इति नैयायिका वैशेषिकाश्च सम्प्रतिपन्नाः, इदम् आत्मार्थं त्रिगुणं स्वतन्त्रं प्रधानाश्रयं पुरुषार्थेन हेतुना प्रवर्तत इति साङ्ख्याः ॥

तस्य हेत्यादेर्वृत्तानुवादपूर्वकं संबन्धमाह —

ब्रह्मण इति ।

विभागो विशेषः । तस्याधिदैवं प्रकृतस्यैतस्याध्यात्मं सन्निहितस्यामूर्तरसभूतान्तःकरणस्यैव रागादिवासनेति वक्तुं तस्येत्यादि वाक्यमित्यर्थः ।

कथमिदं रूपं लिङ्गस्य प्राप्तमिति तदाह —

मूर्तेति ।

मूर्तामूर्तवासनाभिर्विज्ञानमयसंयोगेन च जनितं बुद्धे रूपमिति यावत् ।

नेदमात्मनो रूपं तस्यैकरसस्यानेकरूपत्वानुपपत्तेरिति विशिनष्टि —

विचित्रमिति ।

वास्तवत्वशङ्कां वारयति —

मायेति ।

वैचित्र्यमनुसृत्यानेकोदाहरणम् ।

अन्तःकरणस्यैव रागादिवासनाश्चेत्कथं पुरुषस्तन्मयो दृश्यते तत्राऽऽह —

सर्वेति ।

तदेव व्याकुर्वन्विज्ञानवादिनां भ्रान्तिमाह —

एतावन्मात्रमिति ।

बुद्धिमात्रमेवाहंवृत्तिविशिष्टं स्वरसभङ्गुरं रागादिकलुषितमात्मा न्यायः स्थायी क्षणिको वेति यत्र ते भ्रान्तास्तस्य रूपं वक्ष्याम इति संबन्धः ।

तार्किकाणामपि बौद्धवद्भ्रान्तिमुद्भावयति —

एतदेवेति ।

अन्तःकरणमेवाहन्धीग्राह्यं रागादिधर्मकमात्मा तस्य वासनामयं रूपं पटस्य शौक्ल्यवद्गुणः स च संसार इति यत्र तार्किका भ्रान्तास्तस्य रूपं वक्ष्याम इति पूर्ववत् ।

साङ्ख्यानां भ्रान्तिमाह —

इदमति ।

कथमस्य त्रिगुणत्वादिकं सिध्यति तत्राऽऽह —

प्रधानाश्रयमिति ।

केन प्रकारेणान्तःकरणमात्मार्थमिष्यते तत्राऽऽह —

पुरुषार्थेनेति ।

नान्तःकरणमेवाऽऽत्मा किन्त्वन्यः सर्वगतः सर्वविक्रियाशून्यः स्वप्रकाशस्तस्य भोगापवर्गानुगुण्येन प्रधानात्मकमन्तःकरणं तत्सधर्मकं प्रवर्तत इति यत्र कापिला भ्राम्यन्ति तस्य रूपं वक्ष्याम इति संबन्धः ।