बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥
औपनिषदम्मन्या अपि केचित्प्रक्रियां रचयन्ति — मूर्तामूर्तराशिरेकः, परमात्मराशिरुत्तमः, ताभ्यामन्योऽयं मध्यमः किल तृतीयः कर्त्रा भोक्त्रा विज्ञानमयेन अजातशत्रुप्रतिबोधितेन सह विद्याकर्मपूर्वप्रज्ञासमुदायः ; प्रयोक्ता कर्मराशिः, प्रयोज्यः पूर्वोक्तो मूर्तामूर्तभूतराशिः साधनं चेति । तत्र च तार्किकैः सह सन्धिंं कुर्वन्ति । लिङ्गाश्रयश्च एष कर्मराशिरित्युक्त्वा, पुनस्ततस्त्रस्यन्तः साङ्ख्यत्वभयात् — सर्वः कर्म राशिः — पुष्पाश्रय इव गन्धः पुष्पवियोगेऽपि पुटतैलाश्रयो भवति, तद्वत् — लिङ्गवियोगेऽपि परमात्मैकदेशमाश्रयति, सपरमात्मैकदेशः किल अन्यत आगतेन गुणेन कर्मणा सगुणो भवति निर्गुणोऽपि सन् , स कर्ता भोक्ता बध्यते मुच्यते च विज्ञानात्मा — इति वैशेषिकचित्तमप्यनुसरन्ति ; स च कर्मराशिः भूतराशेरागन्तुकः, स्वतो निर्गुण एव परमात्मैकदेशत्वात् , स्वत उत्थिता अविद्या अनागन्तुकापि ऊषरवत् अनात्मधर्मः — इत्यनया कल्पनया साङ्ख्यचित्तमनुवर्तन्ते ॥

यत्र विचित्रा विपश्चितां भ्रान्तिस्तदन्तःकरणं तस्य हेत्यत्रोच्यते नाऽऽत्मेति स्वपक्षमुक्त्वा भर्तृप्रपञ्चपक्षमुत्थापयति —

औपनिषदंमन्या इति ।

कीदृशी प्रक्रियेत्युक्ते राशित्रयकल्पनां वदन्नादावधमं राशिं दर्शयति —

मूर्तेति ।

उत्कृष्टराशिमाचष्टे —

परमात्मेति ।

राश्यन्तरमाह —

ताभ्यामिति ।

तान्येतानि त्रीणि वस्तूनि मूर्तामूर्तमाहारजनादिरूपमात्मतत्त्वमिति परोक्तिमाश्रित्य राशित्रयकल्पनामुक्त्वा मध्यमाधमराशेर्विशेषमाह —

प्रयोक्तेति ।

उत्पादकत्वं प्रयोक्तृत्वम् । कर्मग्रहणं विद्यापूर्वप्रज्ञयोरुपलक्षणम् ।

साधनं ज्ञानकर्मकारणं कार्यकरणजातं तदपि प्रयोज्यमित्याह —

साधनञ्चेति ।

इतिशब्दो रात्रित्रयकल्पनासमाप्त्यर्थः ।

परकीयकल्पनान्तरमाह —

तत्रेति ।

रात्रित्रये कल्पिते सतीति यावत् ।

सन्धिकरणमेव स्फोरयति —

लिङ्गाश्रयश्चेति ।

तत इत्युक्तिपरामर्शः । साङ्ख्यत्वभयात्त्रस्यन्तो वैशेषिकचित्तमप्यनुसरन्तीति संबन्धः ।

कथं तच्चित्तानुसरणं तदुपपादयति —

कर्मराशिरिति ।

कथं निर्गुणमात्मानं कर्मराशिराश्रयतीत्याशङ्क्याऽऽह —

सपरमात्मैकदेश इति ।

अन्यत इति कार्यकरणात्मकाद्भूतराशेरिति यावत् ।

यदा भूतराशिनिष्ठं कर्मादि तद्द्वाराऽऽत्मन्यागच्छति तदा स कर्तृत्वादिसंसारमनुभवतीत्याह —

स कर्तेति ।

स्वतस्तस्य कर्मादिसंबन्धत्वेन संसारित्वं स्यादिति चेन्नेत्याह —

स चेति ।

निर्गुण एव विज्ञानात्मेति शेषः ।

साङ्ख्यचित्तानुसारार्थमेव परेषां प्रक्रियान्तरमाह —

स्वत इति ।

नैसर्गिक्यप्यविद्या परस्मादेवाभिव्यक्ता सती तदेकदेशं विकृत्य तस्मिन्नेवान्तःकरणाख्ये तिष्ठतीति वदन्तोऽनात्मधर्मोऽविद्येत्युक्त्या साङ्ख्यचित्तमप्यनुसरन्तीत्यर्थः ।

अविद्या परस्मादुत्पन्ना चेत्तमेवाऽऽश्रयेन्न तदेकदेशमित्याशङ्क्याऽऽह —

ऊषरवदिति ।

यथा पृथिव्या जातोऽप्यूषरदेशस्तदेकदेशमाश्रयत्येवमविद्या परस्माज्जाताऽपि तदेकदेशमाश्रयिष्यतीत्यर्थः ।