बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥
सर्वमेतत् तार्किकैः सह सामञ्जस्यकल्पनया रमणीयं पश्यन्ति, न उपनिषत्सिद्धान्तं सर्वन्यायविरोधं च पश्यन्ति ; कथम् ? उक्ता एव तावत् सावयवत्वे परमात्मनः संसारित्वसव्रणत्वकर्मफलदेशसंसरणानुपपत्त्यादयो दोषाः ; नित्यभेदे च विज्ञानात्मनः परेण एकत्वानुपपत्तिः । लिङ्गमेवेति चेत् परमात्मन उपचरितदेशत्वेन कल्पितं घटकरकभूछिद्राकाशादिवत् , तथा लिङ्गवियोगेऽपि परमात्मदेशाश्रयणं वासनायाः । अविद्यायाश्च स्वत उत्थानम् ऊषरवत् — इत्यादिकल्पनानुपपन्नैव । न च वास्यदेशव्यतिरेकेण वासनाया वस्त्वन्तरसञ्चरणं मनसापि कल्पयितुं शक्यम् । न च श्रुतयो अवगच्छन्ति — ‘कामः सङ्कल्पो विचिकित्सा’ (बृ. उ. १ । ५ । ३) ‘हृदये ह्येव रूपाणि’ (बृ. उ. ३ । ९ । २०) ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) ‘कामा येऽस्य हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७) ‘तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य’ (बृ. उ. ४ । ३ । २२) इत्याद्याः । न च आसां श्रुतीनां श्रुतादर्थान्तरकल्पना न्याय्या, आत्मनः परब्रह्मत्वोपपादनार्थपरत्वादासाम् , एतावन्मात्रार्थोपक्षयत्वाच्च सर्वोपनिषदाम् । तस्मात् श्रुत्यर्थकल्पनाकुशलाः सर्व एव उपनिषदर्थमन्यथा कुर्वन्ति । तथापि वेदार्थश्चेत्स्यात् , कामं भवतु, न मे द्वेषः । न च ‘द्वे वाव ब्रह्मणो रूपे’ इति राशित्रयपक्षे समञ्जसम् ; यदा तु मूर्तामूर्ते तज्जनितवासनाश्च मूर्तामूर्ते द्वे रूपे, ब्रह्म च रूपि तृतीयम् , न चान्यत् चतुर्थमन्तराले — तदा एतत् अनुकूलमवधारणम् , द्वे एव ब्रह्मणो रूपे इति ; अन्यथा ब्रह्मैकदेशस्य विज्ञानात्मनो रूपे इति कल्प्यम् , परमात्मनो वा विज्ञानात्मद्वारेणेति ; तदा च रूपे एवेति द्विवचनमसमञ्जसम् ; रूपाणीति वासनाभिः सह बहुवचनं युक्ततरं स्यात् — द्वे च मूर्तामूर्ते वासनाश्च तृतीयमिति । अथ मूर्तामूर्ते एव परमात्मनो रूपे, वासनास्तु विज्ञानात्मन इति चेत् — तदा विज्ञानात्मद्वारेण विक्रियमाणस्य परमात्मनः — इतीयं वाचो युक्तिरनर्थिका स्यात् , वासनाया अपि विज्ञानात्मद्वारत्वस्य अविशिष्टत्वात् ; न च वस्तु वस्त्वन्तरद्वारेण विक्रियत इति मुख्यया वृत्त्या शक्यं कल्पयितुम् ; न च विज्ञानात्मा परमात्मनो वस्त्वन्तरम् , तथा कल्पनायां सिद्धान्तहानात् । तस्मात् वेदार्थमूढानां स्वचित्तप्रभवा एवमादिकल्पना अक्षरबाह्याः ; न ह्यक्षरबाह्यो वेदार्थः वेदार्थोपकारी वा, निरपेक्षत्वात् वेदस्य प्रामाण्यं प्रति । तस्मात् राशित्रयकल्पना असमञ्जसा ॥

तदेतद्दूषयितुमुपक्रमते —

सर्वमेतदिति ।

तार्किकैः सह सन्धिकरणादिकमेतत्सर्वमधिकृत्य सामञ्जस्येन पूर्वोक्तानां कल्पनानामापातेन रमणीयत्वमनुभवन्तीति यावत् ।

यथोक्तकल्पनानां श्रुतिन्यायानुसारित्वाभावात्त्याज्यत्वं सूचयति —

नेत्यादिना ।

कर्मद्वयं प्रत्येकं क्रियापदेन संबध्यते । नञश्चोभयत्रान्वयः ।

कथं यथोक्तकल्पनानामापातरमणीयत्वेन श्रुतिन्यायबाह्यत्वमिति पृच्छति —

कथमिति ।

यदुक्तं परस्यैकदेशो विज्ञानात्मेति तत्र तदेकदेशत्वं वास्तवमवास्तवं वा प्रथमे स परस्मादभिन्नो भिन्नो वेति विकल्प्याऽऽद्यं दूषयति —

उक्ता एवेति ।

आदिशब्देन श्रुतिस्मृतिविरोधो गृह्यते ।

कल्पान्तरं प्रत्याह —

नित्यभेदे चेति ।

भेदाभेदयोर्विरुद्धत्वादनुपपत्तिश्चकारार्थः ।

लिङ्गोपाधिरात्मा परस्यांश इति कल्पान्तरं शङ्कते —

लिङ्गभेद इति ।

उपचरितत्वं कल्पितत्वम् ।

लिङ्गोपाधिना कल्पितः परांशो जीवात्मेत्युक्ते स्वापादौ लिङ्गध्वंसे नाऽऽत्मेति स्याल्लिङ्गाभावे तदधीनजीवाभात्ततश्च तद्वियोगेऽपि लिङ्गस्था वासना जीवे तिष्ठतीति प्रक्रियाऽनुपपन्नेति दूषयति —

तथेति ।

यत्तु परस्मादविद्यायाः समुत्थानमिति तन्निराकरोति —

अविद्यायाश्चेति ।

आदिपदेनानात्मधर्मत्वमविद्याया गृह्यते । परस्मादविद्योत्पत्तौ तस्यैव संसारः स्यात्, तयोरैकाधिकरण्यात् । अतश्चाविद्यायां सत्यां न मुक्तिर्न च तस्यां नष्टायां तत्सिद्धिः कारणे स्थिते कार्यस्यात्यन्तनाशायोगात् । कार्याविद्यानाशे तत्कारणपराभावस्तथा च मोक्षिणोऽभावान्मोक्षासिद्धिः । न चानात्मधर्मोऽविद्या, विद्याया अपि तद्धर्मत्वप्रसंगात्तयोरेकाश्रयत्वादिति भावः ।

यत्तु लिङ्गोपरमे तद्गता वासनाऽऽत्मन्यस्तीति तत्राऽऽह —

न चेति ।

पुटकादौ तु पुष्पाद्यवयवानामेवानुवृत्तिरिति भावः ।

इतश्च वासनाया जीवाश्रयत्वमसंगतमित्याऽऽह —

न चेति ।

ननु जीवे समवायिकारणे मनःसंयोगादसमवायिकारणात्कामाद्युत्पत्तिरित्युदाहृतश्रुतिषु विवक्ष्यते तत्राऽऽह —

न चाऽऽसामिति ।

दृश्यमानसंसारमौपाधिकमभिधाय जीवस्य ब्रह्मत्वोपपादने तात्पर्यं श्रुतीनामुपक्रमोपसंहारैकरूप्यादिभ्यो गम्यते तन्नार्थान्तरकल्पनेत्यर्थः ।

इतश्च यथोक्तश्रुतीनां नार्थान्तरकल्पनेत्याह —

एतावन्मात्रेति ।

सर्वासामुपनिषदामेकरसेऽर्थे पर्यवसानं फलवत्त्वादिलिङ्गेभ्यो गम्यते तत्कथमुक्तश्रुतीनामर्थान्तरकल्पनेत्यर्थः ।

ननूपनिषदामैक्यादर्थान्तरमपि प्रतिपाद्यं व्याख्यातारो वर्णयन्ति तत्कथमर्थान्तरकल्पनानुपपत्तिरत आह —

तस्मादिति ।

सर्वोपनिषदात्मैक्यपरत्वप्रतिभासस्तच्छब्दार्थः ।

ननु परैरुच्यमानोऽपि वेदार्थो भवत्येव किमित्यसौ द्वेषादेव त्यज्यते तत्राऽऽह —

तथाऽपीति ।

न चार्थान्तरस्य वेदार्थत्वं तत्र तात्पर्यलिङ्गाभावादिति भावः ।

लिङ्गवियोगेऽपि पुंसि वासनाऽस्तीत्येतन्निराकृत्य राशित्रयकल्पनां निराकरोति —

न चेति ।

कथं सिद्धान्तेऽपि वावशब्दादिसामञ्जस्यं तत्राऽऽह —

यदेति ।

राशित्रयपक्षे जीवस्य रूपमध्येऽन्तर्भावे निषेध्यकोटिनिवेशः स्याद्रूपिमध्येऽन्तर्भावे श्रुतिः शिक्षणीयेत्याह —

अन्यथेति ।

भवत्वेवं श्रुतेः शिक्षेति तत्राऽऽह —

तदेति ।

रूपिमध्ये जीवान्तर्भावकल्पनायामिति यावत् ।

विषयभेदेनोपक्रमाविरोधं चोदयचति —

अथेति ।

इत्थं व्यवस्थायां जीवद्वारा विक्रियमाणस्य परस्य रूपे मूर्तामूर्ते इत्युक्तिरयुक्ता वासनाकर्मादेरपि तद्द्वारा तत्संबन्धाविशेषादिति दूषयति —

तदेति ।

विज्ञानात्मद्वारा परस्य विक्रियमाणत्वमङ्गीकृत्योक्तं तदेव नास्तीत्याह —

न चेति ।

तथाभूतस्यान्यथाभूतस्य च विक्रियाया दुरुपपादत्वादित्यर्थः ।

किञ्च जीवस्य ब्रह्मणो वस्त्वन्तरत्वमात्यन्तिकमनात्यन्तिकं वा नाऽऽद्य इत्याह —

न चेति ।

न द्वितीयो भेदाभेदनिरासादिति द्रष्टव्यम् ।

परपक्षदूषणमुपसंहरति —

तस्मादिति ।

एवमादिकल्पना राशित्रयं जीवस्य कामाद्याश्रयत्वमित्याद्याः ।

अक्षरबाह्यत्वे फलितमाह —

न हीति ।

वेदार्थोपकारित्वाभावे सिद्धमर्थं कथयति —

तस्मादिति ।