तस्य हेत्यत्र परकीयप्रक्रियां प्रत्याख्याय स्वमते तच्छब्दार्थमाह —
योऽयमिति ।
प्रकृतत्वाल्लिङ्गात्मग्रहे जीवस्यापि पाणिपेषवाक्ये तद्भावात्तस्यैवात्र तच्छब्देन ग्रहः स्यादिति शङ्कते —
नन्विति ।
प्रकृतत्वेऽपि तस्य निर्विशेषब्रह्मत्वेन ज्ञापयितुमिष्टत्वान्न वासनामयं संसाररूपं तत्त्वतो युक्तमिति परिहरति —
नैवमिति ।
इतश्च जीवस्य न वासनारूपिता किन्तु चित्तस्येत्याह —
यदि हीति ।
निषेध्यकोटिप्रवेशादिति भावः ।
नायं जीवस्याऽऽदेशः किन्तु ब्रह्मणस्तटस्थस्येति शङ्कयित्वा दूषयति —
नन्वित्यादिना ।
षष्ठावसाने विज्ञातारमरे केनेत्यात्मानमुपक्रम्य स एष नेति नेत्यात्मशब्दात्तस्यैवाऽऽदेशोपसंहारादिहापि तस्यैवाऽऽदेशो न तटस्थस्येत्यर्थः ।
इतश्च प्रत्यगर्थस्यैवायमादेश इत्याह —
विज्ञापयिष्यामीति ।
तदेव समर्थयते —
यदीति ।
कथमेतावता प्रतिज्ञार्थवत्त्वं तदाह —
येनेति ।
ज्ञनफलं कथयति —
शास्त्रेति ।
अन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेन साधयति —
अथेत्यादिना ।
विपर्यये गृहीते ब्रह्मकण्डिकाविरोधं दर्शयति —
नाऽऽत्मानमिति ।
तच्छब्देन जीवपरामर्शसंभवे फलितमाह —
तस्मादिति ।
ननु लिङ्गस्य चेदेतानि रूपाणि किमित्युपन्यस्यन्ते परमात्मरूपस्यैव वक्तव्यत्वादत आह —
सत्यस्य चेति ।
इन्द्रगोपोपमानेन कौसुम्भस्य गतत्वान्महारजनं हरिद्रेति व्याख्यातम् ।