बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
आत्मेत्येवोपासीत ; तदेव एतस्मिन् सर्वस्मिन् पदनीयम् आत्मतत्त्वम् , यस्मात् प्रेयः पुत्रादेः — इत्युपन्यस्तस्य वाक्यस्य व्याख्यानविषये सम्बन्धप्रयोजने अभिहिते — ‘तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) इति ; एवं प्रत्यगात्मा ब्रह्मविद्याया विषय इत्येतत् उपन्यस्तम् । अविद्यायाश्च विषयः — ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) इत्यारभ्य चातुर्वर्ण्यप्रविभागादिनिमित्तपाङ्क्तकर्मसाध्यसाधनलक्षणः बीजाङ्कुरवत् व्याकृताव्याकृतस्वभावः नामरूपकर्मात्मकः संसारः ‘त्रयं वा इदं नाम रूपं कर्म’ (बृ. उ. १ । ६ । १) इत्युपसंहृतः शास्त्रीय उत्कर्षलक्षणो ब्रह्मलोकान्तः अधोभावश्च स्थावरान्तोऽशास्त्रीयः, पूर्वमेव प्रदर्शितः — ‘द्वया ह’ (बृ. उ. १ । ३ । १) इत्यादिना । एतस्मादविद्याविषयाद्विरक्तस्य प्रत्यगात्मविषयब्रह्मविद्यायाम् अधिकारः कथं नाम स्यादिति — तृतीयेऽध्याये उपसंहृतः समस्तोऽविद्याविषयः । चतुर्थे तु ब्रह्मविद्याविषयं प्रत्यगात्मानम् ‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २ । १ । १) इति ‘ब्रह्म ज्ञपयिष्यामि’ (बृ. उ. २ । १ । १) इति च प्रस्तुत्य, तत् ब्रह्म एकम् अद्वयं सर्वविशेषशून्यं क्रियाकारकफलस्वभावसत्यशब्दवाच्याशेषभूतधर्मप्रतिषेधद्वारेण ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति ज्ञापितम् । अस्या ब्रह्मविद्याया अङ्गत्वेन सन्न्यासो विधित्सितः, जायापुत्रवित्तादिलक्षणं पाङ्क्तं कर्म अविद्याविषयं यस्मात् न आत्मप्राप्तिसाधनम् ; अन्यसाधनं हि अन्यस्मै फलसाधनाय प्रयुज्यमानं प्रतिकूलं भवति ; न हि बुभुक्षापिपासानिवृत्त्यर्थं धावनं गमनं वा साधनम् ; मनुष्यलोकपितृलोकदेवलोकसाधनत्वेन हि पुत्रादिसाधनानि श्रुतानि, न आत्मप्राप्तिसाधनत्वेन, विशेषितत्वाच्च ; न च ब्रह्मविदो विहितानि, काम्यत्वश्रवणात् — ‘एतावान्वै कामः’ (बृ. उ. १ । ४ । १७) इति, ब्रह्मविदश्च आप्तकामत्वात् आप्तकामस्य कामानुपपत्तेः, ‘येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति च श्रुतेः । केचित्तु ब्रह्मविदोऽप्येषणासम्बन्धं वर्णयन्ति ; तैर्बृहदारण्यकं न श्रुतम् ; पुत्राद्येषणानामविद्वद्विषयत्वम् , विद्याविषये च — ‘येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इत्यतः ‘किं प्रजया करिष्यामः’ इति — एष विभागः तैर्न श्रुतः श्रुत्या कृतः ; सर्वक्रियाकारकफलोपमर्दस्वरूपायां च विद्यायां सत्याम् , सह कार्येण अविद्याया अनुपपत्तिलक्षणश्च विरोधः तैर्न विज्ञातः ; व्यासवाक्यं च तैर्न श्रुतम् । कर्मविद्यास्वरूपयोः विद्याविद्यात्मकयोः प्रतिकूलवर्तनं विरोधः । ‘यदिदं वेदवचनं कुरु कर्म त्यजेति च । कां गतिं विद्यया यान्ति कां च गच्छन्ति कर्मणा’ (मो. ध. २४१ । १ । २) ॥ एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे । एतावन्योन्यवैरुप्ये वर्तेते प्रतिकूलतः’ इत्येवं पृष्टस्य प्रतिवचनेन — ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१ । ७) इत्येवमादि — विरोधः प्रदर्शितः । तस्मात् न साधनान्तरसहिता ब्रह्मविद्या पुरुषार्थसाधनम् , सर्वविरोधात् , साधननिरपेक्षैव पुरुषार्थसाधनम् — इति पारिव्राज्यं सर्वसाधनसन्न्यासलक्षणम् अङ्गत्वेन विधित्स्यते ; एतावदेवामृतत्वसाधनमित्यवधारणात् , षष्ठसमाप्तौ, लिङ्गाच्च — कर्मी सन्याज्ञवल्क्यः प्रवव्राजेति । मैत्रेय्यै च कर्मसाधनरहितायै साधनत्वेनामृतत्वस्य ब्रह्मविद्योपदेशात् , वित्तनिन्दावचनाच्च ; यदि हि अमृतत्वसाधनं कर्म स्यात् , वित्तसाध्यं पाङ्क्तं कर्मेति — तन्निन्दावचनमनिष्टं स्यात् ; यदि तु परितित्याजयिषितं कर्म, ततो युक्ता तत्साधननिन्दा । कर्माधिकारनिमित्तवर्णाश्रमादिप्रत्ययोपमर्दाच्च — ‘ब्रह्म तं परादात्’ (बृ. उ. २ । ४ । ६) ‘क्षत्रं तं परादात्’ (बृ. उ. २ । ४ । ६) इत्यादेः ; न हि ब्रह्मक्षत्राद्यात्मप्रत्ययोपमर्दे, ब्राह्मणेनेदं कर्तव्यं क्षत्रियेणेदं कर्तव्यमिति विषयाभावात् आत्मानं लभते विधिः ; यस्यैव पुरुषस्य उपमर्दितः प्रत्ययः ब्रह्मक्षत्राद्यात्मविषयः, तस्य तत्प्रत्ययसन्न्यासात् तत्कार्याणां कर्मणां कर्मसाधनानां च अर्थप्राप्तश्च सन्न्यासः । तस्मात् आत्मज्ञानाङ्गत्वेन सन्न्यासविधित्सयैव आख्यायिकेयमारभ्यते ॥

संबन्धाभिधित्सया वृत्तं कीर्तयति —

आत्मेत्येवेति ।

किमित्यात्मतत्त्वमेव ज्ञातव्यं तत्राऽऽह —

तदेवेति ।

इत्थं सूत्रितस्य विद्याविषयस्य वाक्यस्य व्याख्यानमेव विषयस्तत्र विद्या साधनं साध्या मुक्तिरिति संबन्धो मुक्तिश्च फलमित्येते तदात्मानमित्यादिना दर्शिते इत्याह —

इत्युपन्यस्तस्येति ।

विद्याविषयमुक्तं निगमयति —

एवमिति ।

उक्तमर्थान्तरं स्मारयति —

अविद्यायाश्चेति ।

अन्योऽसावित्याद्यारभ्याविद्याया विषयश्च संसार उपसंहृतस्त्रयमित्यादिनेति संबन्धः संसारमेव विशिनष्टि —

चातुर्वर्ण्येति ।

चातुर्वर्ण्यं चातुराश्रम्यमिति प्रविभागादिनिमित्तं यस्य पाङ्क्तस्य कर्मणस्तस्य साध्यसाधनमित्येवमात्मक इति यावत् ।

तस्यानादित्वं दर्शयति —

बीजाङ्कुरवदिति ।

तमेव त्रिधा संक्षिपति —

नामेति ।

स चोत्कर्षापकर्षाभ्यां द्विधा भिद्यते तत्राऽऽद्यमुदाहरति —

शास्त्रीय इति ।

उत्कृष्टो हि संसारस्त्र्यन्नात्मभावः शास्त्रीयज्ञानकर्मलभ्य इत्यर्थः ।

द्वितीयं कथयति —

अधोभावश्चेति ।

निकृष्टः संसारः स्वाभाविकज्ञानकर्मसाध्य इत्यर्थः ।

किमित्यविद्याविषयो व्याख्यातो न हि स पुरुषस्योपयुज्यते तत्राऽऽह —

एतस्मादिति ।

प्रत्यगात्मैव विषयस्तस्मिन्या ब्रह्मेति विद्या तस्यामिति यावत् ।

तार्तीयमनूद्य चातुर्थिकमर्थं कथयति —

चतुर्थे त्विति ।

एवं वृत्तमनूद्योत्तरब्राह्मणतात्पर्यमाह —

अस्या इति ।

किमिति संन्यासो विधित्स्यते कर्मणैव विद्यालाभादित्याशङ्क्याऽऽह —

जायेति ।

अविद्याया विषय एव विषयो यस्येति विग्रहः । तस्मात्संन्यासो विधित्सित इति पूर्वेण संबन्धः ।

ननु प्रकृतं कर्माविद्याविषयमपि किमित्यात्मज्ञानं तादर्थ्येनानुष्ठीयमानं नोपनयति तत्राऽऽह —

अन्येति ।

तदेव दृष्टान्तेन स्पष्टयति —

न हीति ।

पाङ्क्तस्य कर्मणोऽन्यसाधनत्वमेव कथमधिगतमित्याशङ्क्याऽऽह —

मनुष्येति ।

सोऽयं मनुष्यलोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्यया देवलोक इति विशेषितत्वम् । श्रुतत्वमेव विशेषितत्वोक्तिद्वारा स्फुटीकृतमिति चकारेण द्योत्यते ।

ननु ब्रह्मविद्या स्वफले विहितं कर्मापेक्षते श्रौतसाधनत्वाद्दर्शादिवत्तथा च समुच्चयान्न कर्मसंन्याससिद्धिरत आह —

न चेति ।

कर्मणां काम्यत्वेऽपि ब्रह्मविदस्तानि किं न स्युरित्याशङ्क्याऽऽह —

ब्रह्मविदश्चेति ।

इतश्च तस्य पुत्रादिसाधनानुपपत्तिरित्याह —

येषामिति ।

समुच्चयपक्षमनुभाष्य श्रुतिविरोधेन दूषयति —

केचित्त्विति ।

श्रुतिविरोधमेव स्फोरयति —

पुत्रादीति ।

अविद्वद्विषयत्वं श्रुतं तत्प्रकारेण तेषामुपदेशादिति शेषः । किं प्रजया करिष्याम इत्यत आरभ्य येषां नोऽयमात्माऽयं लोक इति च विद्याविषये श्रुतिरिति योजना । एष विभागः श्रुत्या कृतस्तैः समुच्चयवादिभिर्न श्रुत इति संबन्धः ।

न केवलं श्रुतिविरोधादेव समुच्चयासिद्धिः किन्तु युक्तिविरोधाच्चेत्याह —

सर्वेति ।

द्वितीयश्चकारोऽवधारणार्थो नञा संबध्यते ।

स्मृतिविरोधाच्च समुच्चयासिद्धिरित्याह —

व्यासेति ।

तत्र प्रथमं पूर्वोक्तं युक्तिविरोधं स्फुटयति —

कर्मेति ।

प्रतिकूलवर्तनं निवर्त्यनिवर्तकभावः ।

संप्रति स्मृतिविरोधं स्फोरयति —

यदिदमिति ।

प्रसिद्धं वेदवचनं कुरु कर्मेत्यज्ञं प्रति यदिदमुपलभ्यते विवेकिनं प्रति च त्यजेति तत्र कां गतिमित्यादिः शिष्यस्य व्यासं प्रति प्रश्नस्तस्य बीजमाह —

एताविति ।

विद्याकर्माख्यावुपायौ परस्परविरुद्धत्वे वर्तेते साभिमानत्वनिरभिमानत्वादिपुरस्कारेण प्रातिकूल्यात्समुच्चयानुपपत्तेर्यथोक्तस्य प्रश्नस्य सावकाशत्वमित्यर्थः । इत्येवं पृष्ठस्य भगवतो व्यासस्येति शेषः । विरोधो ज्ञानकर्मणोः समुच्चयस्येति वक्तव्यम् ।

समुच्चयानुपपत्तिमुपसंहरति —

तस्मादिति ।

कथं तर्हि ब्रह्मविद्या पुरुषार्थसाधनमिति तत्राऽऽह —

सर्वविरोधादिति ।

सर्वस्य क्रियाकारकफलभेदात्मकस्य द्वैतेन्द्रजालस्य ब्रह्मविद्यया विरोधादिति यावत् ।

एकाकिनी ब्रह्मविद्या मुक्तिहेतुरिति स्थिते फलितमाह —

इति पारिव्राज्यमिति ।

न केवलं संन्यासस्य श्रवणादिपौष्कल्यदृष्टद्वारेण विद्यापरिपाराकाङ्गत्वं श्रुत्यादिवशादवगम्यते किन्तु लिङ्गादपीत्याह —

एतावदेवेति ।

तत्रैव लिङ्गान्तरमाह —

षष्ठसमाप्तविति ।

एतच्चोभयतः संबध्यते । यदि कर्मसहितं ज्ञानं मुक्तिहेतुस्तदा किमिति कर्मणः सतो याज्ञवल्क्यस्य पारिव्राज्यमुच्यते तस्मात्तत्त्यागस्तदङ्गत्वेन विधित्सत इत्यर्थः ।

तत्रैव लिङ्गान्तरमाह —

मैत्रेय्यै चेति ।

न हि मैत्रेयी भर्तरि त्यक्तकर्मणि स्वयं कर्माधिकर्तुमर्हति पतिद्वारमन्तरेण भार्यायास्तदनधिकारात् । यथा च तस्यै कर्मशून्यायै मुक्तेः साधनत्वेन विद्योपदेशात्कर्मत्यागस्तदङ्गत्वेन ध्वनित इत्यर्थः ।

तत्रैव हेत्वन्तरमाह —

वित्तेति ।

किमहं तेन कुर्यामिति वित्तं निन्द्यते । अतश्च तत्साध्यं कर्म ज्ञानसहायत्वेन मुक्तौ नोपकरोतीत्यर्थः ।

तदेव विवृणोति —

यदि हीति ।

तन्निन्दावचनमित्यत्र तच्छब्देन वित्तमुच्यते ।

त्वत्पक्षे वा कथं निन्दावचनमिति तत्राऽऽह —

यदि त्विति ।

किञ्च ब्राह्मणोऽहं क्षत्रियोऽहमित्याद्यभिमानस्य कर्मानुष्ठाननिमित्तस्य निन्दया सर्वमिदमात्मैवेति प्रत्यये श्रुतेस्तात्पर्यदर्शनाद्विद्यालिङ्गत्वेन संन्यासो विधित्सत इत्याह —

कर्माधिकारेति ।

ननु जाग्रति विधौ कर्मानुष्ठानमशक्यमपहारयितुमत आह —

न हीति ।

ननु वर्णाश्रमाभिमानवतः संन्यासोऽपीष्यते स कथं तदभावे तत्राऽऽह —

यस्यैवेति ।

अर्थप्राप्तश्चेत्यवधारणार्थश्चकारः । प्रयोजकज्ञानवतो वैधसंन्यासाभ्युपगमादविरोध इति भावः ।

आत्मज्ञानाङ्गत्वं संन्यासस्य श्रुतिस्मृतिन्यायसिद्धं चेत्किमर्थमियमाख्यायिका प्रणीयते तत्राऽऽह —

तस्मादिति ।

विध्यपेक्षितार्थवादसिद्ध्यर्थमाख्यायिकेति भावः ।