बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥
इदं च नकारद्वयं वीप्साव्याप्त्यर्थम् ; यद्यत्प्राप्तं तत्तत् निषिध्यते ; तथा च सति अनिर्दिष्टाशङ्का ब्रह्मणः परिहृता भवति ; अन्यथा हि नकारद्वयेन प्रकृतद्वयप्रतिषेधे, यदन्यत् प्रकृतात्प्रतिषिद्धद्वयात् ब्रह्म, तन्न निर्दिष्टम् , कीदृशं नु खलु — इत्याशङ्का न निवर्तिष्यते ; तथा च अनर्थकश्च स निर्देशः, पुरुषस्य विविदिषाया अनिवर्तकत्वात् ; ‘ब्रह्म ज्ञपयिष्यामि’ इति च वाक्यम् अपरिसमाप्तार्थं स्यात् । यदा तु सर्वदिक्कालादिविविदिषा निवर्तिता स्यात् सर्वोपाधिनिराकरणद्वारेण, तदा सैन्धवघनवत् एकरसं प्रज्ञानघनम् अनन्तरमबाह्यं सत्यस्य सत्यम् अहं ब्रह्म अस्मीति सर्वतो निवर्तते विविदिषा, आत्मन्येवावस्थिता प्रज्ञा भवति । तस्मात् वीप्सार्थं नेति नेतीति नकारद्वयम् । ननु महता यत्नेन परिकरबन्धं कृत्वा किं युक्तम् एवं निर्देष्टुं ब्रह्म ? बाढम् ; कस्मात् ? न हि — यस्मात् , ‘इति न, इति न’ इत्येतस्मात् — इतीति व्याप्तव्यप्रकारा नकारद्वयविषया निर्दिश्यन्ते, यथा ग्रामो ग्रामो रमणीय इति — अन्यत्परं निर्देशनं नास्ति ; तस्मादयमेव निर्देशो ब्रह्मणः । यदुक्तम् — ‘तस्योपनिषत्सत्यस्य सत्यम्’ (बृ. उ. २ । १ । २०) इति, एवंप्रकारेण सत्यस्य सत्यं तत् परं ब्रह्म ; अतो युक्तमुक्तं नामधेयं ब्रह्मणः, नामैव नामधेयम् ; किं तत् सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यमिति ॥

एवं ब्रह्म निर्दिदिक्षितं चेदेकेनैव नञाऽलं कृतं द्वितीयेनेत्याशङ्क्याऽऽह —

इदञ्चेति ।

वीप्साया व्याप्तिः सर्वविषयसंग्रहस्तदर्थं नकारद्वयमित्युक्तमेव व्यनक्ति —

यद्यदिति ।

विषयत्वेन प्राप्तं सर्वं न ब्रह्मेत्युक्ते सत्यविषयः प्रत्यगात्मा ब्रह्मेत्येकत्वे शास्त्रपर्यवसानान्नैराकाङ्क्ष्यं श्रोतुः सिध्यतीत्याह —

तथा चेति ।

इतिशब्दस्य प्रकृतपरामर्शित्वात्प्रकृतमूर्तामूर्तादेरन्यत्वे ब्रह्मणो नकारपर्यवसानं किमिति नेष्यते तत्राऽऽह —

अन्यथेति ।

आशङ्कानिवृत्त्यभावे दोषमाह —

तथा चेति ।

अनर्थकश्चेति चकारेण समुच्चितं दोषान्तरमाह —

ब्रह्मेति ।

उक्तमर्थमन्वयमुखेन समर्थयते —

यदा त्विति ।

सर्वोपाधिनिरासेन तत्र तत्र विषयवेदनेच्छा यदा निवर्तिता तदा यथोक्तं प्रत्यग्ब्रह्माहमिति निश्चित्याऽऽकाङ्क्षा सर्वतो व्यावर्तते । तेन निर्देशस्य सार्थकत्वं यदा चोक्तरीत्या ब्रह्माऽऽत्मेत्येव प्रज्ञाऽऽवस्थिता भवति तदा प्रतिज्ञावाक्यमपि परिसमाप्तार्थं स्यादिति योजना ।

वीप्सापक्षमुपसंहरति —

तस्मादिति ।

आदेशस्य प्रक्रमाननुगुणत्वमाशङ्क्यानन्तरवाक्येन परिहरति —

नन्वित्यादिना ।

न हीति प्रतीकोपादानम् । यस्मादित्यस्य हिशब्दार्थस्य तस्मादित्यनेन संबन्धः । व्याप्तव्याः संग्राह्या विषयीकर्तव्या ये प्रकारास्ते नकारद्वयस्य विषयाः सन्तो निर्दिश्यन्त इति नेति नेत्यस्मादित्यनेन भागेनेति योजना ।

इतिशब्दाभ्यां व्याप्तव्यसर्वप्रकारसंग्रहे दृष्टान्तमाह —

यथेति ।

ग्रामो ग्रामो रमणीय इत्युक्ते राज्यनिविष्टरमणीयसर्वग्रामसंग्रहवत्प्रकृतेऽपीतिशब्दाभ्यां विषयभूतसर्वप्रकारसंग्रहे नकाराभ्यां तन्निषेधसिद्धिरित्यर्थः ।

यथोक्तान्निषेधरूपान्निर्देशादन्यनिर्देशनं यस्माद्ब्रह्मणो न परमस्ति तस्मादित्युपसंहारः अथेत्यादिवाक्यं प्रकृतोपसंहारत्वेन व्याचष्टे —

यदुक्तमित्यादिना ॥६॥