बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥
ननु कथम् आभ्यां ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति शब्दाभ्यां सत्यस्य सत्यं निर्दिदिक्षितमिति, उच्यते — सर्वोपाधिविशेषापोहेन । यस्मिन्न कश्चिद्विशेषोऽस्ति — नाम वा रूपं वा कर्म वा भेदो वा जातिर्वा गुणो वा ; तद्द्वारेण हि शब्दप्रवृत्तिर्भवति ; न चैषां कश्चिद्विशेषो ब्रह्मण्यस्ति ; अतो न निर्देष्टुं शक्यते — इदं तदिति — गौरसौ स्पन्दते शुक्लो विषाणीति यथा लोके निर्दिश्यते, तथा ; अध्यारोपितनामरूपकर्मद्वारेण ब्रह्म निर्दिश्यते ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘विज्ञानघन एव ब्रह्मात्मा’ (बृ. उ. २ । ४ । १२) इत्येवमादिशब्दैः । यदा पुनः स्वरूपमेव निर्दिदिक्षितं भवति निरस्तसर्वोपाधिविशेषम् , तदा न शक्यते केनचिदपि प्रकारेण निर्देष्टुम् ; तदा अयमेवाभ्युपायः — यदुत प्राप्तनिर्देशप्रतिषेधद्वारेण ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति निर्देशः ॥

यथोक्तादेशस्याभावपर्यवसायित्वं मन्वानः शङ्कते —

नन्विति ।

निरवधिकनिषेधासिद्धेस्तदवधित्वेन सत्यस्य सत्यं ब्रह्म निर्देष्टुमिष्टमिति परिहरति —

उच्यत इति ।

ब्रह्मणो विधिमुखेन निर्देशे संभाव्यमाने किमिति निषेधमुखेन तन्निर्दिश्यते तत्राऽऽह —

यस्मिन्निति ।

तद्विधिमुखेन निर्देष्टुमशक्यमिति शेषः ।

नामरूपाद्यभावेऽपि ब्रह्मणि शब्दप्रवृत्तिमाशङ्क्याऽऽह —

तद्द्वारेणेति ।

जात्यादीनान्यतमस्य ब्रह्मण्यपि संभवत्तद्द्वारा तत्र शब्दप्रवृत्तिः स्यादिति चेन्नेत्याह —

न चेति ।

उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति —

गौरिति ।

तथा जात्याद्यभावान्न ब्रह्मणि शब्दप्रवृत्तिरिति शेषः ।

कथं तर्हि क्वचिद्विधिमुखेन ब्रह्मोपदिश्यते तत्राऽऽह —

अध्यारोपितेति ।

विज्ञानानन्दादिवाक्येषु शबले गृहीतशक्तिभिः शब्दैर्लक्ष्यते ब्रह्मेत्यर्थः ।

ननु लक्षणामुपेक्ष्य साक्षादेव ब्रह्म किमिति न विवक्ष्यते तत्राऽऽह —

यदा पुनरिति ।

निर्देष्टुं लक्षणामुपेक्ष्य साक्षादेव वक्तुमिति यावत् । तत्र शब्दप्रवृत्तिनिमित्तानां जात्यादीनामभावस्योक्तत्वादित्यर्थः ।

विधिमुखेन निर्देशासंभवे फलितमाह —

तदेति ।

प्राप्तो निर्देशो यस्य विशेषस्य तत्प्रतिषेधमुखेनेति यावत् ।