बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥
एवं निरवशेषं सत्यस्य स्वरूपमभिधाय, यत्तत्सत्यस्य सत्यमवोचाम तस्यैव स्वरूपावधारणार्थं ब्रह्मण इदमारभ्यते — अथ अनन्तरं सत्यस्वरूपनिर्देशानन्तरम् , यत्सत्यस्य सत्यं तदेवावशिष्यते यस्मात् — अतः तस्मात् , सत्यस्य सत्यं स्वरूपं निर्देक्ष्यामः ; आदेशः निर्देशः ब्रह्मणः ; कः पुनरसौ निर्देश इत्युच्यते — नेति नेतीत्येवं निर्देशः ॥

वृत्तमनूद्यानन्तरग्रन्थमवतारयति —

एवमित्यादिना ।

तस्यैव ब्रह्मण इति संबन्धः ।

कस्मादनन्तरमित्युक्ते तद्दर्शयन्नन्तःशब्दं चापेक्षितं पूरयन्व्याकरोति —

सत्यस्येति ।