बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥
एतस्य पुरुषस्य प्रकृतस्य लिङ्गात्मन एतानि रूपाणि ; कानि तानीत्युच्यन्ते — यथा लोके, महारजनं हरिद्रा तया रक्तं माहारजनम् यथा वासो लोके, एवं स्त्र्यादिविषयसंयोगे तादृशं वासनारूपं रञ्जनाकारमुत्पद्यते चित्तस्य, येनासौ पुरुषो रक्त इत्युच्यते वस्त्रादिवत् — यथा च लोके पाण्ड्वाविकम् , अवेरिदम् आविकम् ऊर्णादि, यथा च तत् पाण्डुरं भवति, तथा अन्यद्वासनारूपम् — यथा च लोके इन्द्रगोप अत्यन्तरक्तो भवति, एवमस्य वासनारूपम् — क्वचिद्विषयविशेषापेक्षया रागस्य तारतम्यम् , क्वचित्पुरुषचित्तवृत्त्यपेक्षया — यथा च लोके अग्न्यर्चिः भास्वरं भवति, तथा क्वचित् कस्यचित् वासनारूपं भवति — यथा पुण्डरीकं शुक्लम् , तद्वदपि च वासनारूपं कस्यचिद्भवति — यथा सकृद्विद्युत्तम् , यथा लोके सकृद्विद्योतनं सर्वतः प्रकाशकं भवति, तथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचित् वासनारूपम् — उपजायते । न एषां वासनारूपाणाम् आदिः अन्तः मध्यं सङ्ख्या वा, देशः कालो निमित्तं वा अवधार्यते — असङ्ख्येयत्वाद्वासनायाः, वासनाहेतूनां च आनन्त्यात् । तथा च वक्ष्यति षष्ठे ‘इदम्मयोऽदोमयः’ (बृ. उ. ४ । ४ । ५) इत्यादि । तस्मात् न स्वरूपसङ्ख्यावधारणार्था दृष्टान्ताः — ‘यथा माहारजनं वासः’ इत्यादयः ; किं तर्हि प्रकारप्रदर्शनार्थाः — एवंप्रकाराणि हि वासनारूपाणीति । यत्तु वासनारूपमभिहितमन्ते — सकृद्विद्योतनमिवेति, तत्किल हिरण्यगर्भस्य अव्याकृतात्प्रादुर्भवतः तडिद्वत् सकृदेव व्यक्तिर्भवतीति ; तत् तदीयं वासनारूपं हिरण्यगर्भस्य यो वेद तस्य सकृद्विद्युत्तेव, ह वै इत्यवधारणार्थौ, एवमेव अस्य श्रीः ख्यातिः भवतीत्यर्थः, यथा हिरण्यगर्भस्य — एवम् एतत् यथोक्तं वासनारूपमन्त्यम् यो वेद ॥

तत्र लोकप्रसिद्धिं दर्शयति —

येनेति ।

ऊर्णादीत्यादिपदं कम्बलादिग्रहार्थम् ।

मनसि वासनावैचित्र्ये किङ्कारणमिति तदाह —

क्वचिदिति ।

चित्तवृत्तिशब्देन सत्त्वादिगुणपरिणामो विवक्षितः ।

परिमितदृष्टान्तोक्त्या वासनानामपि परिमितत्वं दृष्टान्तदार्ष्टान्तिकयोः साम्यादित्याशङ्क्याऽऽह —

नैषामिति ।

तत्र वाक्यशेषं संवादयति —

तथा चेति ।

वासनानन्त्यात्तदीयपरिमितिप्रदर्शने परिमितदृष्टान्तपरिग्रहस्यातात्पर्ये कुत्र तात्पर्यमित्याशङ्क्याऽऽह —

तस्मादिति ।

प्रकारप्रदर्शनमेवाभिनयति —

एवम्प्रकाराणीति ।

अन्त्यवासनादिविशिष्टसूत्रोपास्तिं फलवतीं तत्प्रकर्षाभिधानपूर्वकमिभदधाति —

यत्त्वित्यादिना ।

व्यक्तिः सर्वस्य वस्तुजातस्येति शेषः ।

तदीयमित्यस्य व्यक्तीकरणं हिरण्यगर्भस्येति तदेव स्फुटयति —

यथेत्यादिना ।