आत्मनि विदिते सर्वं विदितमिव्युक्तमाक्षिपति —
नन्विति ।
दृष्टिविरोधं निराचष्टे —
नैष दोष इति ।
आत्मनि ज्ञाते ज्ञातमेव सर्वं ततोऽर्थान्तरस्याभावादित्युक्तमेव स्फुटयति —
यदीत्यादिना ।
आकाङ्क्षापूर्वकमुत्तरवाक्यमुदाहृत्य व्याचष्टे —
कथमित्यदिना ।
पुरुषं विशेषतो ज्ञातुं प्रश्नमुपन्यस्य प्रतीकं गृहीत्वा व्याकरोति —
कमित्यादिना ।
पराकरणे पुरुषस्यापराधित्वं दर्शयति —
अनात्मेति ।
परमात्मातिरेकेण दृश्यमानामपि ब्राह्मणजातिं स्वस्वरूपेण पश्यन्कथमपराधी स्यादित्याशङ्क्याऽऽह —
परमात्मेति ।
इदं ब्रह्मेत्युत्तरवाक्यानुवादस्तस्य व्याख्यानं यान्यनुक्रान्तानीत्यादि ।
आत्मैव सर्वमित्येतत्प्रतिपादयति —
यस्मादित्यादिना ।
स्थितिकाले तिष्ठति तस्मादात्मेव सर्वं तद्व्यतिरेकेणाग्रहणादिति योजना ॥६॥