अमृतत्वसाधनमात्मज्ञानं विवक्षितं चेदात्मा वा अरे द्रष्टव्य इत्यादि वक्तव्यं किमिति न वा अरे पत्युरित्यादिवाक्यमित्याशङ्क्याऽऽह —
जायेति ।
उवाच जायादीनात्मार्थत्वेन प्रियत्वमात्मनश्चानौपाधिकप्रियत्वेन परमानन्दत्वमिति शेषः प्रतीकमादाय व्याचष्टे —
न वा इति ।
किं तन्निपातेन स्मार्यते तदाह —
प्रसिद्धमिति ।
यथोक्ते क्रमे नियामकमाह —
पूर्वं पूर्वमिति ।
यद्यदासन्नं प्रीतिसाधनं तत्तदनतिक्रम्य तस्मिन्विषये पूर्वं पूर्वं वचनमिति योजना ।
तत्र हेतुमाह —
तत्रेति ।
न वा अरे सर्वस्येत्ययुक्तं पत्यादीनामुक्तत्वादंशेन पुनरुक्तिप्रसंगादित्याशङ्क्याऽऽह —
सर्वग्रहणमिति ।
उक्तवदनुक्तानामपि ग्रहणं कर्तव्यं न च सर्वे विशेषतो ग्रहीतुं शक्यन्ते तेन सामान्यार्थं सर्वपदमित्यर्थः ।
सर्वपर्यायेषु सिद्धमर्थमुपसंहरति —
तस्मादिति ।
ननु तृतीये प्रियत्वमात्मन आख्यातं तदेवात्रापि कथ्यते चेत्पुनरुक्तिः स्यात्तत्राऽऽह —
तदेतदिति ।
अथोपन्यासविवरणाभ्यां प्रीतिरात्मन्येवेत्ययुक्तं पुत्रादावपि तद्दर्शनादत आह —
तस्मादिति ।
आत्मनो निरतिशयप्रीत्यास्पदत्वेन परमानन्दत्वमभिधायोत्तरवाक्यमादाय व्याचष्टे —
तस्मादित्यादिना ।
कथं पुनरिदं दर्शनमुत्पद्यते तत्राऽऽह —
श्रोतव्य इति ।
श्रवणादीनामन्यतमेनाऽऽत्मज्ञानलाभात्किमिति सर्वेषामध्ययनमित्याशङ्क्याऽऽह —
एवं हीति ।
विध्यनुसारित्वमेवंशब्दार्थः ।
श्रुतत्वाविशेषाद्विकल्पहेत्वभावाच्च सर्वैरेवाऽऽत्मज्ञानं जायते चेत्तेषां समप्रधानत्वमाग्नेयादिवदापतेदित्याशङ्क्याऽऽह —
यदेति ।
श्रवणस्य प्रमाणविचारत्वेन प्रधानत्वादङ्गित्वं मनननिदिध्यासनयोस्तु तत्कार्यप्रतिबन्धप्रध्वंसित्वादङ्गत्वमित्यङ्गाङ्गिभावेन यदा श्रवणादीन्यसकृदनुष्ठानेन समुच्चितानि तदा सामग्रीपौष्कल्यात्तत्त्वज्ञानं फलशिरस्कं सिध्यति । मननाद्यभावे श्रवणमात्रेण नैव तदुत्पद्यते । मननादिना प्रतिबन्धाप्रध्वंसे वाक्यस्य फलवज्ज्ञानजनकत्वायोगादित्यर्थः ।
परामर्शवाक्यस्य तात्पर्यमाह —
यदेत्यादिना ।
कर्मनिमित्तं ब्रह्मक्षत्रादि तदेव वर्णाश्रमावस्थादिरूपमात्मन्यविद्ययाऽध्यारोपितस्य प्रत्ययो मिथ्याज्ञानं तस्य विषयतया स्थितं क्रियाद्यात्मकं तदुपमर्दनार्थमाहेति संबन्धः ।
अविद्याध्यारोपितप्रत्ययविषयमित्येतदेव व्याकरोति —
अविद्येति ।
अविद्याजनितप्रत्ययविषयत्वे दृष्टान्तमाह —
रज्ज्वामिति ॥५॥