बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यथा वीणायै वाद्यमानायै न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९ ॥
तथा वीणायै वाद्यमानायै — वीणाया वाद्यमानायाः । अनेकदृष्टान्तोपादानम् इह सामान्यबहुत्वख्यापनार्थम् — अनेके हि विलक्षणाः चेतनाचेतनरूपाः सामान्यविशेषाः — तेषां पारम्पर्यगत्या यथा एकस्मिन् महासामान्ये अन्तर्भावः प्रज्ञानघने, कथं नाम प्रदर्शयितव्य इति ; दुन्दुभिशङ्खवीणाशब्दसामान्यविशेषाणां यथा शब्दत्वेऽन्तर्भावः, एवं स्थितिकाले तावत् सामान्यविशेषाव्यतिरेकात् ब्रह्मैकत्वं शक्यमवगन्तुम् ॥

एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमित्यनेकदृष्टोन्तोपादानमित्याशङ्क्याऽऽह —

अनेकेति ।

इहेति जगदुच्यते श्रुतिर्वा ।

सामान्यबहुत्वमेव स्फुटयति —

अनेक इति ।

तेषां स्वस्वसामान्येऽन्तर्भावेऽपि कुतो ब्रह्मणि पर्यवसानमित्याशङ्क्याऽऽह —

तेषामिति ।

कथमित्यस्मात्पूर्वं तथेत्यध्याहारः । इति मन्यते श्रुतिरिति शेषः ।

विमतं नाऽऽत्मातिरेकि तदतिरेकेणागृह्यमाणत्वाद्यद्यदतिरेकेणागृह्यमाणं तत्तदतिरेकि न भवति यथा दुन्दुभ्यादिशब्दास्तत्सामान्यातिरेकेणागृह्यमाणास्तदतिरेकेण न सन्तीत्यनुमानं विवक्षन्नाह —

दुन्दुभीति ।

शब्दत्वेऽन्तर्भावस्तथा प्रज्ञानघने सर्वं जगदन्तर्भवतीति शेषः ।

दृष्टान्तत्रयमवष्टभ्य निष्टङ्कितमर्थमुपसंहरति —

एवमिति ॥९॥