बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि निश्वसितानि ॥ १० ॥
एवम् उत्पत्तिकाले प्रागुत्पत्तेः ब्रह्मैवेति शक्यमवगन्तुम् ; यथा अग्नेः विस्फुलिङ्गधूमाङ्गारार्चिषां प्राग्विभागात् अग्निरेवेति भवत्यग्न्येकत्वम् , एवं जगत् नामरूपविकृतं प्रागुत्पत्तेः प्रज्ञानघन एवेति युक्तं ग्रहीतुम् — इत्येतदुच्यते — स यथा — आर्द्रैधाग्नेः आर्द्रैरेधोभिरिद्धोऽग्निः आर्द्रैधाग्निः, तस्मात् , अभ्याहितात् पृथग्धूमाः, पृथक् नानाप्रकारम् , धूमग्रहणं विस्फुलिङ्गादिप्रदर्शनार्थम् , धूमविस्फुलिङ्गादयः, विनिश्चरन्ति विनिर्गच्छन्ति ; एवम् — यथायं दृष्टान्तः ; अरे मैत्रेयि अस्य परमात्मनः प्रकृतस्य महतो भूतस्य निश्वसितमेतत् ; निश्वसितमिव निश्वसितम् ; यथा अप्रयत्नेनैव पुरुषनिश्वासो भवति, एवं वै अरे । किं तन्निश्वसितमिव ततो जातमित्युच्यते — यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः - चतुर्विधं मन्त्रजातम् , इतिहास इति, उर्वशीपुरूरवसोः संवादादिः — ‘उर्वशी हाप्सराः’ (शत. ब्रा. ११ । ५ । १ । १) इत्यादि ब्राह्मणमेव, पुराणम् — ‘असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इत्यादि, विद्या देवजनविद्या — वेदः सोऽयम् — इत्याद्या, उपनिषदः ‘प्रियमित्येतदुपासीत’ (बृ. उ. ४ । १ । ३) इत्याद्याः, श्लोकाः ब्राह्मणप्रभवा मन्त्राः ‘तदेते श्लोकाः’ (बृ. उ. ४ । ४ । ८) इत्यादयः, सूत्राणि वस्तुसङ्ग्रहवाक्यानि वेदे यथा — ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इत्यादीनि, अनुव्याख्यानानि मन्त्रविवरणानि, व्याख्यानान्यर्थवादाः, अथवा वस्तुसङ्ग्रहवाक्यविवरणान्यनुव्याख्यानानि — यथा चतुर्थाध्याये ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इत्यस्य यथा वा ‘अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं’ (बृ. उ. १ । ४ । १०) इत्यस्य अयमेवाध्यायशेषः, मन्त्रविवरणानि व्याख्यानानि — एवमष्टविधं ब्राह्मणम् । एवं मन्त्रब्राह्मणयोरेव ग्रहणम् ; नियतरचनावतो विद्यमानस्यैव वेदस्याभिव्यक्तिः पुरुषनिश्वासवत् , न च पुरुषबुद्धिप्रयत्नपूर्वकः ; अतः प्रमाणं निरपेक्ष एव स्वार्थे ; तस्मात् यत् तेनोक्तं तत्तथैव प्रतिपत्तव्यम् , आत्मनः श्रेय इच्छद्भिः, ज्ञानं वा कर्म वेति । नामप्रकाशवशाद्धि रूपस्य विक्रियावस्था ; नामरूपयोरेव हि परमात्मोपाधिभूतयोर्व्याक्रियमाणयोः सलिलफेनवत् तत्त्वान्यत्वेनानिर्वक्तव्ययोः सर्वावस्थयोः संसारत्वम् — इत्यतः नाम्न एव निश्वसितत्वमुक्तम् , तद्वचनेनैव इतरस्य निश्वसितत्वसिद्धेः । अथवा सर्वस्य द्वैतजातस्य अविद्याविषयत्वमुक्तम् — ‘ब्रह्म तं परादात् — इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति ; तेन वेदस्याप्रामाण्यमाशङ्क्येत ; तदाशङ्कानिवृत्त्यर्थमिदमुक्तम् — पुरुषनिश्वासवत् अप्रयत्नोत्थितत्वात् प्रमाणं वेदः, न यथा अन्यो ग्रन्थ इति ॥

स यथाऽऽद्रैधाग्नेरित्यादिवाक्यस्य तात्पर्यमाह —

एवमित्यादिना ।

स्थितिकालवदित्येवंशब्दार्थः तत्र वाक्यमवतार्य व्याचष्टे —

इत्येतदिति ।

महतोऽनवच्छिन्नस्य भूतस्य परमार्थस्येति यावत् ।

निःश्वसितमिवेत्युक्तं व्यनक्ति —

यथेति ।

अरे मैत्रेयि ततो जातमिति शेषः ।

तदेवाऽऽकाङ्क्षापूर्वकं विशदयति —

किं तदित्यादिना ।

इतिहास इति ब्राह्मणमेवेति संबन्धः । संवादादिरित्यादिपदेन प्राणसंवादादिग्रहणम् । असद्वा इदमग्र आसीदित्यादीत्यत्राऽऽदिशब्देनासदेवेदमग्र आसीदिति गृह्यते । देवजनविद्या नृत्यगीतादिशास्त्रम् । वेदः सोऽयं वेदाद्बहिर्न भवतीत्यर्थः । इत्याद्या विद्येति संबन्धः । आदिशब्दः शिल्पशास्त्रसंग्रहार्थः । प्रियमित्येनदुपासीतेत्याद्या इत्यत्राऽऽदिशब्दः सत्यस्य सत्यमित्युपनिषत्संग्रहार्थः । तदेते श्लोका इत्यादय इत्यत्राऽऽदिशब्देन तदप्येष श्लोको भवति । असन्नेव स भवतीत्यादि गृह्यते । इत्यादीनीत्यादिपदमथ योऽन्यां देवतामुपास्ते ब्रह्मविदाप्नोति परमित्यादि ग्रहीतुम् ।

अर्थवादेषु व्याख्यानपदप्रवृत्तौ हेत्वभावं शङ्कित्वा पक्षान्तरमाह —

अथवेति ।

इतिहासादिशब्दव्याख्यानमुपसंहरति —

एवमिति ।

ब्राह्मणमितिहासादिपदवेदनीयमिति शेषः ।

ऋगादिशब्दानामितिहासादिशब्दानां च प्रसिद्धार्थत्यागे को हेतुरित्याशङ्क्य निःश्वसितश्रुतिरितिहासादिशब्दानां प्रसिद्धार्थत्यागे हेतुः परिशेषस्त्वन्यत्रेत्यभिप्रेत्याऽऽह —

एवं मन्त्रेति ।

ननु प्रथमे काण्डे वेदस्य नित्यत्वेन प्रामाण्यं स्थापितं तदनित्यत्वे तद्धानिरित्यत आह —

नियतेति ।

नियतेत्यादौ वेदो विशेष्यते । कल्पान्तेऽन्तर्हितान्वेदानित्यादिवाक्यान्नियतरचनावत्त्वं वेदस्य गम्यते । ‘अनादिनिधना’इत्यादेश्च सदातनत्वं तस्य निश्चीयते । न च कृतकत्वादप्रामाण्यं प्रत्यक्षादौ व्यभिचारात् । न च पौरुषेयत्वादनपेक्षत्वहेत्वभावादप्रामाण्यम् । बुद्धिपूर्वप्रणीतत्वाभावेन तत्सिद्धेः । न चोन्मत्तवाक्यसादृश्यमबाधितार्थत्वादिति भावः ।

सिद्धे वेदस्य प्रामाण्ये फलितमाह —

तस्मादिति ।

नामप्रपञ्चसृष्टिरेवात्रोपदिष्टा न रूपप्रपञ्चसृष्टिः सा चोपदेष्टव्या सृष्टिपरिपूर्तेरन्यथाऽनुपपत्तेरित्याशङ्क्याऽऽह —

नामेति ।

यद्यपि नामतन्त्रा रूपसृष्टिरिति नामसृष्टिवचनेन रूपसृष्टिरर्थादुक्ता तथाऽपि सर्वसंसारसृष्टिर्नोक्ता नामरूपयोरेव संसारत्वे प्राक्तत्सृष्टेः संसारो न स्यादित्याशङ्क्याऽऽह —

नामरूपयोरिति ।

सर्वावस्थयोर्व्यक्ताव्यक्तावस्थयोरिति यावत् ।

नामप्रपञ्चस्यैवात्र सर्गोक्तिमुपपादितामुपसंहरति —

इतीति ।

अतःशब्दार्थं स्फुटयति —

तद्वचनेनेति ।

निःश्वसितश्रुतिं विधान्तरेणावतारयति —

अथवेत्यादिना ।

मिथ्यात्वेऽपि प्रतिबिम्बवत्प्रामाण्यसंभवादुन्मत्तादिवाक्यानां च मिथ्याज्ञानाधीनप्रयत्नजन्यत्वेनामानत्वाद्वेदस्य तदभावाद्विषयाव्यभिचाराच्च नाप्रामाण्यमित्याह —

तदाशङ्केति ।

अन्यो ग्रन्थो बुद्धादिप्रणीतः ‘स्वर्गकामश्चैत्यं वन्देते’त्यादिः ॥१०॥