बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सङ्कल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनम् ॥ ११ ॥
किञ्चान्यत् ; न केवलं स्थित्युत्पत्तिकालयोरेव प्रज्ञानव्यतिरेकेणाभावात् जगतो ब्रह्मत्वम् ; प्रलयकाले च ; जलबुद्बुदफेनादीनामिव सलिलव्यतिरेकेणाभावः, एवं प्रज्ञानव्यतिरेकेण तत्कार्याणां नामरूपकर्मणां तस्मिन्नेव लीयमानानामभावः ; तस्मात् एकमेव ब्रह्म प्रज्ञानघनम् एकरसं प्रतिपत्तव्यमित्यत आह । प्रलयप्रदर्शनाय दृष्टान्तः ; स इति दृष्टान्तः ; यथा येन प्रकारेण, सर्वासां नदीवापीतडागादिगतानामपाम् , समुद्रः अब्धिः एकायनम् , एकगमनम् एकप्रलयः अविभागप्राप्तिरित्यर्थः ; यथा अयं दृष्टान्तः, एवं सर्वेषां स्पर्शानां मृदुकर्कशकठिनपिच्छिलादीनां वायोरात्मभूतानां त्वक् एकायनम् , त्वगिति त्वग्विषयं स्पर्शसामान्यमात्रम् , तस्मिन्प्रविष्टाः स्पर्शविशेषाः — आप इव समुद्रम् — तद्व्यतिरेकेणाभावभूता भवन्ति ; तस्यैव हि ते संस्थानमात्रा आसन् । तथा तदपि स्पर्शसामान्यमात्रं त्वक्शब्दवाच्यं मनःसङ्कल्पे मनोविषयसामान्यमात्रे, त्वग्विषय इव स्पर्शविशेषाः, प्रविष्टं तद्व्यतिरेकेणाभावभूतं भवति ; एवं मनोविषयोऽपि बुद्धिविषयसामान्यमात्रे प्रविष्टः तद्व्यतिरेकेणाभावभूतो भवति ; विज्ञानमात्रमेव भूत्वा प्रज्ञानघने परे ब्रह्मणि आप इव समुद्रे प्रलीयते । एवं परम्पराक्रमेण शब्दादौ सह ग्राहकेण करणेन प्रलीने प्रज्ञानघने, उपाध्यभावात् सैन्धवघनवत् प्रज्ञानघनम् एकरसम् अनन्तम् अपारं निरन्तरं ब्रह्म व्यवतिष्ठते । तस्मात् आत्मैव एकमद्वयमिति प्रतिपत्तव्यम् । तथा सर्वेषां गन्धानां पृथिवीविशेषाणां नासिके घ्राणविषयसामान्यम् । तथा सर्वेषां रसानामब्विशेषाणां जिह्वेन्द्रियविषयसामान्यम् । तथा सर्वेषां रूपाणां तेजोविशेषाणां चक्षुः चक्षुर्विषयसामान्यम् । तथा शब्दानां श्रोत्रविषयसामान्यं पूर्ववत् । तथा श्रोत्रादिविषयसामान्यानां मनोविषयसामान्ये सङ्कल्पे ; मनोविषयसामान्यस्यापि बुद्धिविषयसामान्ये विज्ञानमात्रे ; विज्ञानमात्रं भूत्वा परस्मिन्प्रज्ञानघने प्रलीयते । तथा कर्मेन्द्रियाणां विषया वदनादानगमनविसर्गानन्दविशेषाः तत्तत्क्रियासामान्येष्वेव प्रविष्टा न विभागयोग्या भवन्ति, समुद्र इव अब्विशेषाः ; तानि च सामान्यानि प्राणमात्रम् ; प्राणश्च प्रज्ञानमात्रमेव — ‘यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः’ (कौ. उ. ३ । ३) इति कौषीतकिनोऽधीयते । ननु सर्वत्र विषयस्यैव प्रलयोऽभिहितः, न तु करणस्य ; तत्र कोऽभिप्राय इति — बाढम् ; किन्तु विषयसमानजातीयं करणं मन्यते श्रुतिः, न तु जात्यन्तरम् ; विषयस्यैव स्वात्मग्राहकत्वेन संस्थानान्तरं करणं नाम — यथा रूपविशेषस्यैव संस्थानं प्रदीपः करणं सर्वरूपप्रकाशने, एवं सर्वविषयविशेषाणामेव स्वात्मविशेषप्रकाशकत्वेन संस्थानान्तराणि करणानि, प्रदीपवत् ; तस्मात् न करणानां पृथक्प्रलये यत्नः कार्यः ; विषयसामान्यात्मकत्वात् विषयप्रलयेनैव प्रलयः सिद्धो भवति करणानामिति ॥

स यथा सर्वासामपामित्यादिसमनन्तरग्रन्थमुत्थापयति —

किञ्चान्यदिति ।

तदेव व्याकरोति —

न केवलमिति ।

प्रलयकाले च प्रज्ञानव्यतिरेकेणाभावाज्जगतो ब्रह्मत्वमिति संबन्धः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयते —

जलेति ।

तथाऽपि प्रज्ञानमेवैकमेव स्यान्न ब्रह्मेत्याशङ्क्याऽऽह —

तस्मादिति ।

सत्यज्ञानादिवाक्याद्ब्रह्मणस्तन्मात्रत्वादित्यर्थः ।

यथोक्तं ब्रह्म चेत्प्रतिपत्तव्यं किमिति तर्हि स यथेत्यादि वाक्यमित्याशङ्क्य तच्छेषत्वेन प्रलयं दर्शयितुं दृष्टान्तवचनमेतदित्याह —

अत आहेति ।

प्रलीयतेऽस्मिन्निति प्रलय एकश्चासौ प्रलयश्चेत्येकप्रलयः तडागादिगतानामपां कुतः समुद्रे लयो न हि तासां तेन संगतिरित्याशङ्क्याऽऽह —

अविभागेति ।

अत्र हि समुद्रशब्देन जलसामान्यमुच्यते । तद्व्यतिरेकेण च जलविशेषाणामभावो विवक्षितस्तेषां तत्संस्थानमात्रत्वादतश्चाऽऽसामस्मिन्नविभागस्य प्राप्तिरिति समुद्रेऽविभागप्राप्तिरित्यर्थः । पिच्छिलादीनामित्यादिशब्देनानुक्तस्पर्शंविशेषाः सर्वे गृह्यन्ते ।

विषयाणामिन्द्रियकार्यत्वाभावात्कुतः स्पर्शानां त्वचि विलयः स्यादित्याशङ्क्याऽऽह —

त्वगितीति ।

स्पर्शविशेषाणां स्पर्शसामान्येऽन्तर्भावं प्रपञ्चयति —

तस्मिन्निति ।

तथाऽपि समस्तस्य जगतो ब्रह्मव्यतिरेकेणाभावाद्ब्रह्मत्वमित्येतत्कथं प्रतिज्ञातमित्याशङ्क्य परम्परया ब्रह्मणि सर्वप्रविलयं दर्शयितुं क्रममनुक्रामति —

तथेति ।

मनसि सति विषयविषयिभावस्य दर्शनादसति चादर्शनान्मनःस्पन्दितमात्रं विषयजातमिति तस्य तद्विषयमात्रे प्रविष्टस्य तदतिरेकेणासत्त्वमित्यर्थः ।

संकल्पविकल्पात्मकमनःस्पन्दितद्वैतस्य संकल्पात्मके मनस्यन्तर्भावात्तस्य च संकल्पस्याध्यवसायपारतन्त्र्यदर्शनादध्यवसायात्मिकायां च बुद्धौ तद्विषयस्य पूर्ववदनुप्रवेशान्मनोविषयसामान्यस्य बुद्धिविषयसामान्ये प्रविष्टस्य तद्व्यतिरेकेणासत्त्वमित्याह —

एवमिति ।

सर्वं जगदुक्तेन न्यायेन बुद्धिमात्रं भूत्वा तद्यच्छेच्छान्त आत्मनीति श्रुत्या ब्रह्मणि पर्यवस्यतीत्याह —

विज्ञानमात्रमिति ।

ननु जगदिदं विलीयमानं शक्तिशेषमेव विलीयते । तत्त्वज्ञानादृते तस्य निःशेषनाशानाश्रयणात् । तथा च कुतो ब्रह्मैकरसस्य प्रतिपत्तिरत आह —

एवमिति ।

शक्तिशेषलयेऽपि तस्या दुर्निरूपत्वाद्वस्त्वेकरसस्य धीरविरुद्धेति भावः ।

एकायनप्रक्रियातात्पर्यमुपसंहरति —

तस्मादिति ।

घ्राणविषयसामान्यमित्यादावेकायनमिति सर्वत्र संबन्धः ।

कथं पुनरत्र प्रतिपर्यायं ब्रह्मणि पर्यवसानं तत्राऽऽह —

तथेति ।

यथा सर्वेषु पर्यायेषु ब्रह्मणि पर्यवसानं तथोच्यत इति यावत् । पूर्ववदिति त्वग्विषयसामान्यवदित्यर्थः । संकल्पे लय इति शेषः । विज्ञानमात्र इत्यत्रापि तथैव ।

एवं सर्वेषां कर्मणामित्यादेरर्थमाह —

तथा कर्मेन्द्रियाणामिति ।

क्रियासामान्यानां सूत्रात्मसंस्थानभेदत्वमभ्युपेत्याऽऽह —

तानि चेति ।

क्रियाज्ञानशक्त्योश्चिदुपाधिभूतयोश्चिदभेदाभेदमभिप्रेत्य प्राणश्चेत्यादि भाष्यम् । तत्र तयोरन्योन्याभेदे मानमाह —

यो वा इति ।

श्रुतिमुखात्करणलयो न प्रतिभाति स्वयं च व्याख्यायते तत्र को हेतुरिति पृच्छति —

नन्विति ।

श्रुत्या करणलयस्यानुक्तत्वमङ्गीकरोति —

बाढमिति ।

पृष्टमभिप्रायं प्रकटयति —

किन्त्विति ।

करणस्य विषयसाजात्यं विवृणोति —

विषयस्यैवेति ।

किमत्र प्रमाणमित्याशङ्क्यानुमानमति सूचयति —

प्रदीपवदिति ।

चक्षुषस्तेजसं रूपादिषु मध्ये रूपस्यैव व्यञ्जकद्रव्यत्वात्संप्रतिपन्नवदित्यादीन्यनुमानानि शास्त्रप्रकाशिकायामधिगन्तव्यानि ।

करणानां विषयसाजात्ये फलितमाह —

तस्मादिति ।

पृथग्विषयप्रलयादिति शेषः । एकायनप्रक्रियासमाप्तावितिशब्दः ॥११॥