बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तत्र ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति प्रतिज्ञातम् ; तत्र हेतुरभिहितः — आत्मसामान्यत्वम् , आत्मजत्वम् , आत्मप्रलयत्वं च ; तस्मात् उत्पत्तिस्थितिप्रलयकालेषु प्रज्ञानव्यतिरेकेणाभावात् ‘प्रज्ञानं ब्रह्म’ ‘आत्मैवेदं सर्वम्’ इति प्रतिज्ञातं यत् , तत् तर्कतः साधितम् । स्वाभाविकोऽयं प्रलय इति पौराणिका वदन्ति । यस्तु बुद्धिपूर्वकः प्रलयः ब्रह्मविदां ब्रह्मविद्यानिमित्तः, अयम् आत्यन्तिक इत्याचक्षते — अविद्यानिरोधद्वारेण यो भवति ; तदर्थोऽयं विशेषारम्भः —

स यथा सैन्धवखिल्य इत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति —

तत्रेत्यादिना ।

पूर्वः सन्दर्भस्तत्रेत्युच्यते ।

प्रतिज्ञातेऽर्थे पूर्वोक्तं हेतुमनूद्य साध्यसिद्धिं फलं दर्शयति —

तस्मादिति ।

उक्तहेतोर्यथोक्तं ब्रह्मैव सर्वमिदं जगदिति यत्प्रतिज्ञातमिदं सर्वं यदयमात्मेति तत्पूर्वोक्तदृष्टान्तप्रबन्धरूपतर्कवशात्साधितमिति योजना ।

उत्तरवाक्यस्य विषयपरिशेषार्थमुक्तप्रलये पौराणिकसम्मतिमाह —

स्वाभाविक इति ।

कार्याणां प्रकृतावाश्रितत्वं स्वाभाविकत्वम् ।

प्रलयान्तरेऽपि तेषां सम्मतिं संगिरते —

यस्त्विति ।

द्वितीयप्रलयमधिकृत्यानन्तरग्रन्थमवतारयति —

अविद्येति ।

तत्रेत्यात्यन्तिकप्रलयोक्तिः ।