बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् । यतो यतस्त्वाददीत लवणमेवैवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥
तत्र दृष्टान्त उपादीयते — स यथेति । सैन्धवखिल्यः — सिन्धोर्विकारः सैन्धवः, सिन्धुशब्देन उदकमभिधीयते, स्यन्दनात् सिन्धुः उदकम् , तद्विकारः तत्र भवो वा सैन्धवः, सैन्धवश्चासौ खिल्यश्चेति सैन्धवखिल्यः, खिल एव खिल्यः, स्वार्थे यत्प्रत्ययः — उदके सिन्धौ स्वयोनौ प्रास्तः प्रक्षिप्तः, उदकमेव विलीयमानम् अनुविलीयते ; यत्तत् भौमतैजससम्पर्कात् काठिन्यप्राप्तिः खिल्यस्य स्वयोनिसम्पर्कादपगच्छति — तत् उदकस्य विलयनम् , तत् अनु सैन्धवखिल्यो विलीयत इत्युच्यते ; तदेतदाह — उदकमेवानुविलीयेतेति । न ह नैव — अस्य खिल्यस्य उद्ग्रहणाय उद्धृत्य पूर्ववद्ग्रहणाय ग्रहीतुम् , नैव समर्थः कश्चित्स्यात् सुनिपुणोऽपि ; इव - शब्दोऽनर्थकः । ग्रहणाय नैव समर्थः ; कस्मात् ? यतो यतः यस्मात् यस्मात् देशात् तदुदकमाददीत, गृहीत्वा आस्वादयेत् लवणास्वादमेव तत् उदकम् , न तु खिल्यभावः । यथा अयं दृष्टान्तः, एवमेव वै अरे मैत्रेयि इदं परमात्माख्यं महद्भूतम् — यस्मात् महतो भूतात् अविद्यया परिच्छिन्ना सती कार्यकरणोपाधिसम्बन्धात्खिल्यभावमापन्नासि, मर्त्या जन्ममरणाशनायापिपासादिसंसारधर्मवत्यसि, नामरूपकार्यात्मिका — अमुष्यान्वयाहमिति, स खिल्यभावस्तव कार्यकरणभूतोपाधिसम्पर्कभ्रान्तिजनितः महति भूते स्वयोनौ महासमुद्रस्थानीये परमात्मनि अजरेऽमरेऽभये शुद्धे सैन्धवघनवदेकरसे प्रज्ञानघनेऽनन्तेऽपारे निरन्तरे अविद्याजनितभ्रान्तिभेदवर्जिते प्रवेशितः ; तस्मिन्प्रविष्टे स्वयोनिग्रस्ते खिल्यभावे अविद्याकृते भेदभावे प्रणाशिते — इदमेकमद्वैतं महद्भूतम् — महच्च तद्भूतं च महद्भूतं सर्वमहत्तरत्वात् आकाशादिकारणत्वाच्च, भूतम् — त्रिष्वपि कालेषु स्वरूपाव्यभिचारात् सर्वदैव परिनिष्पन्नमिति त्रैकालिको निष्ठाप्रत्ययः ; अथवा भूतशब्दः परमार्थवाची, महच्च पारमार्थिकं चेत्यर्थः ; लौकिकं तु यद्यपि महद्भवति, स्वप्नमायाकृतं हिमवदादिपर्वतोपमं न परमार्थवस्तु ; अतो विशिनष्टि — इदं तु महच्च तद्भूतं चेति । अनन्तम् नास्यान्तो विद्यत इत्यनन्तम् ; कदाचिदापेक्षिकं स्यादित्यतो विशिनष्टि अपारमिति । विज्ञप्तिः विज्ञानम् , विज्ञानं च तद्घनश्चेति विज्ञानघनः, घनशब्दो जात्यन्तरप्रतिषेधार्थः — यथा सुवर्णघनः अयोघन इति ; एव - शब्दोऽवधारणार्थः — नान्यत् जात्यन्तरम् अन्तराले विद्यत इत्यर्थः । यदि इदमेकमद्वैतं परमार्थतः स्वच्छं संसारदुःखासम्पृक्तम् , किन्निमित्तोऽयं खिल्यभाव आत्मनः — जातो मृतः सुखी दुःखी अहं ममेत्येवमादिलक्षणः अनेकसंसारधर्मोपद्रुत इति उच्यते — एतेभ्यो भूतेभ्यः — यान्येतानि कार्यकरणविषयाकारपरिणतानि नामरूपात्मकानि सलिलफेनबुद्बुदोपमानि स्वच्छस्य परमात्मनः सलिलोपमस्य, येषां विषयपर्यन्तानां प्रज्ञानघने ब्रह्मणि परमार्थविवेकज्ञानेन प्रविलापनमुक्तम् नदीसमुद्रवत् — एतेभ्यो हेतुभूतेभ्यः भूतेभ्यः सत्यशब्दवाच्येभ्यः, समुत्थाय सैन्धवखिल्यवत् — यथा अद्भ्यः सूर्यचन्द्रादिप्रतिबिम्बः, यथा वा स्वच्छस्य स्फटिकस्य अलक्तकाद्युपाधिभ्यो रक्तादिभावः, एवं कार्यकरणभूतभूतोपाधिभ्यो विशेषात्मखिल्यभावेन समुत्थाय सम्यगुत्थाय — येभ्यो भूतेभ्य उत्थितः तानि यदा कार्यकरणविषयाकारपरिणतानि भूतानि आत्मनो विशेषात्मखिल्यहेतुभूतानि शास्त्राचार्योपदेशेन ब्रह्मविद्यया नदीसमुद्रवत् प्रविलापितानि विनश्यन्ति, सलिलफेनबुद्बुदादिवत् तेषु विनश्यत्सु अन्वेव एष विशेषात्मखिल्यभावो विनश्यति ; यथा उदकालक्तकादिहेत्वपनये सूर्यचन्द्रस्फटिकादिप्रतिबिम्बो विनश्यति, चन्द्रादिस्वरूपमेव परमार्थतो व्यवतिष्ठते, तद्वत् प्रज्ञानघनमनन्तमपारं स्वच्छं व्यवतिष्ठते । न तत्र प्रेत्य विशेषसंज्ञास्ति कार्यकरणसङ्घातेभ्यो विमुक्तस्य — इत्येवम् अरे मैत्रेयि ब्रवीमि — नास्ति विशेषसंज्ञेति — अहमसौ अमुष्य पुत्रः ममेदं क्षेत्रं धनम् सुखी दुःखीत्येवमादिलक्षणा, अविद्याकृतत्वात्तस्याः ; अविद्यायाश्च ब्रह्मविद्यया निरन्वयतो नाशितत्वात् कुतो विशेषसंज्ञासम्भवो ब्रह्मविदः चैतन्यस्वभावावस्थितस्य ; शरीरावस्थितस्यापि विशेषसंज्ञा नोपपद्यते किमुत कार्यकरणविमुक्तस्य सर्वतः । इति ह उवाच उक्तवान्किल परमार्थदर्शनं मैत्रेय्यै भार्यायै याज्ञवल्क्यः ॥

उदकं विलीयमानमित्ययुक्तं काठिन्यविलयेऽपि तल्लयादर्शनादित्याशङ्क्याऽऽह —

यत्तदिति ।

न हेति प्रतीकमादाय व्याचष्टे —

नैवेति ।

अन्वयप्रदर्शनार्थं नैवेति पुनरुक्तम् । महद्भूतमेकद्वैतमित्युत्तरत्र संबन्धः । अस्यार्थस्य सर्वोपनिषत्प्रसिद्धत्वप्रदर्शनार्थो वैशब्दः ।

इदं महद्भूतमित्यत्रेदंशब्दार्थं विशदयति —

यस्मादित्यादिना ।

तदिदं परमात्माख्यं महद्भूतमिति पूर्वेण संबन्धः ।

खिल्याभावापत्तिकार्यं कथयति —

मर्त्येत्यादिना ।

कोऽसौ खिल्यभावोऽभिप्रेतस्तत्राऽऽह —

नामरूपेति ।

कार्यकारणसंघाते तादात्म्याभिमानद्वारा जात्याद्यभिमानोऽत्र खिल्यभाव इत्यर्थः । इतिशब्देनाभिमतो लक्ष्यते ।

यथोक्ते खिल्यभावे सति कुतो भूतस्य महत्त्वमित्याशङ्क्याऽऽह —

स खिल्यभाव इति ।

खिल्यभावः स्वशब्दार्थः । परस्य परिशुद्धत्वार्थमजरादिविशेषणानि ।

केन रूपेणैकरस्यं तदाह —

प्रज्ञानेति ।

तस्यापरिच्छिन्नत्वमाह —

अनन्त इति ।

तस्य सापेक्षत्वं वारयति —

अपार इति ।

प्रतिभासमाने भेदे कथं यथोक्तं तत्त्वमित्याशङ्क्याऽऽह —

अविद्येति ।

भवतु यथोक्ते तत्त्वे खिल्यभावस्य प्रवेशस्तथाऽपि किं स्यादित्यत आह —

तस्मिन्निति ।

महत्त्वं साधयति —

सर्वेति ।

भूतत्वमुपपादयति —

त्रिष्वपीति ।

महदित्युक्ते पारमार्थिकं चेति विशेषणं किमर्थमित्याशङ्क्याऽऽह —

लौकिकमिति ।

जाग्रत्कालीनं परिदृश्यमानं हिमवदादि महद्यद्यपि भवति तथाऽपि स्वप्नमायादिसमत्वान्न तत्परमार्थवस्तु । न हि दृश्यं जडमिन्द्रजालादेर्विशिष्यतेऽतो लौकिकान्महतो ब्रह्म व्यावर्तयितुं विशेषणमित्यर्थः । आपेक्षिकं स्यादानन्त्यमिति शेषः ।

अवधारणरूपमर्थमेव स्फोरयति —

नान्यदिति ।

एतेभ्यो भूतेभ्यः समुत्थायेत्यादिसमनन्तरवाक्यव्यावर्त्यामाशङ्कामाह —

यदीदमिति ।

वस्तुतः शुद्धत्वे किं सिध्यति तदाह —

संसारेति ।

तर्हि तस्मिन्निमित्ताभावान्न तस्य खिल्यत्वमिति मत्वाऽऽह —

किंनिमित्त इति ।

खिल्यभावमेव विशिनष्टि —

जात इति ।

अनेकः संसाररूपो धर्मोऽशनायापिपासादिस्तेनोपद्रुतो दूषित इति यावत् ।

खिल्यभावे निमित्तं दर्शयन्नुत्तरमाह —

उच्यत इति ।

एतच्छब्दार्थं व्याकरोति —

यानीति ।

स्वच्छस्य परमात्मनः कार्यकारणविषयाकरपरिणतानीति संबन्धः ।

तानि व्यवहारसिद्ध्यर्थं विशिनष्टि —

नामरूपात्मकानीति ।

तेषामतिदुर्बलत्वं सूचयति —

सलिलेति ।

स्वच्छत्वे दृष्टान्तमाह —

सलिलोपमस्येति ।

तेषां प्रत्यक्षत्वेऽपि प्रकृतत्वाभावे कथमेतच्छब्देन परामर्शः स्यादित्याशङ्क्याऽऽह —

येषामिति ।

उक्तमेकायनप्रक्रियायामिति शेषः ब्रह्मणि प्रज्ञानघने भूतानां प्रलये दृष्टान्तमाह —

नदीति ।

हेतौ पञ्चमीति दर्शयति —

हेतुभूतेभ्य इति ।

पूर्वस्मिन्ब्राह्मणे षष्ठ्यन्तसत्यशब्दवाच्यतया तेषां प्रकृतत्वमाह —

सत्येति ।

यथा सैन्धवः सन्खिल्यः सिन्धोस्तेजः संबन्धमपेक्ष्योद्गच्छति तथा भूतेभ्यः खिल्यभावो भवतीत्याह —

सैन्धवेति ।

समुत्थानमेव विवृणोति —

यथेत्यादिना ।

तान्येवेत्यादि व्यचष्टे —

येभ्य इति ।

खिल्यहेतुभूतानि तत्र हेतुत्वोपेतानीति यावत् ।

ब्रह्मविद्योत्पत्तौ हेतुमाह —

शास्त्रेति ।

तत्फलं सदृष्टान्तमाचष्टे —

नदीति ।

यथा सलिले फेनादयो विनश्यन्ति तथा तेषु भूतेषु विनश्यत्सु सत्स्वनु पश्चात्खिल्यभावो नश्यतीत्याह —

सलिलेति ।

किं पुनर्भूतानां खिल्यभावस्य च विनाशे सत्यवशिष्यते तत्राऽऽह —

यथेति ।

तत्रेति कैवल्योक्तिः उक्तमेव वाक्यार्थं स्फुटयति —

नास्तीति ।

ब्रह्मविदोऽशरीरस्य विशेषसंज्ञाभावं कैमुतिकन्यायेन कथयति —

शरीरावस्थितस्येति ।

सुषुप्तस्येति यावत् । सर्वतः कार्यकारणविमुक्तस्येति संबन्धः ॥१२॥